विश्वसंस्कृतप्रतिष्ठानस्य आभिमुख्ये
संस्कृतसप्ताहाचरणम्।
कोच्ची> संस्कृतभारत्याः केरलप्रान्तीयविभागस्य - विश्वसंस्कृतप्रतिष्ठानस्य - आभिमुख्ये संस्कृतदिनस्य अंशतया संस्कृतसप्ताहाचरणम् आयोज्यते। आगस्ट् षष्ठदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं प्रतिदिनं रात्रौ ८. ४५ वादनात् ९. ४५ वादनपर्यन्तं 'यू ट्यूब्' प्रणालीद्वारा विभिन्नविषयेषु संस्कृतविचारसभाः सम्पत्स्यन्ते।
प्रथमे दिने - आग. ६ - संस्कृतसप्ताहः किं, किमर्थम् इत्यस्मिन् विषये सभा प्रचाल्यते। आग. ७ गुरुवासरे 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये, आग. ८ शुक्रवासरे भारतीयन्यायसंहिता संस्कृतं च, ततः यथाक्रमं 'स्वतन्त्रतासंग्रामः संस्कृतं च, 'कला, साहित्यं, संस्कृतं च, कैरली संस्कृतसाहित्यं च, 'संस्कृतम् एकतायाः सन्देशः' इत्येवं विषयेषु सभापरम्परा विधास्यते।
https://youtube.com/playlist?list=PLdooEMjTuMXbpaHMl8cXUfvq0Msq25Ifj&si=-YjcR_LJjFKKOKyy
इति प्रणालीद्वारा संस्कृतसप्ताहे भागं कर्तुं शक्यते।