OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 5, 2025

 भारतेङ्गलण्टनिकषस्पर्धा

अन्तिमनिकषे भारतस्य अत्युज्वलविजयः। 

विजयीभूतं भारतदलम्। 

परम्परा समस्थितौ (२-२)। 

केन्निङ्टणः> पराजयसम्भावनोपेता पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः भारतक्रीडकाणां निश्चयदार्ढ्यस्य महत्वेन विजयीभूत‌ः। ओवल् क्रीडाङ्कणे अत्युज्वलस्य अत्युत्साहोपेतस्य प्रतिद्वन्द्वस्य अन्ते इङ्गलण्टदलं भारतेन षट् धावनाङ्कैः पराभूतम्। 

  ३७४ धावनाङ्कानां विजयलक्ष्येन क्रीडितवन्तं इङ्गलण्टं ३६७ धावनाङ्कैः भारतं  बहिरनयत्। अन्तिमदिने चतुर्षु ताडकेषु करभूतेषु ३६ धावनाङ्काः इङ्गलण्टाय आवश्यकाः आसन्। किन्तु २८ धावनाङ्कानां सम्पादनेन अवशिष्टाः चत्वारः अपि बहिर्गताः। 

  अन्तिमस्पर्धायां भारतस्य महम्मद सिराजः पञ्च द्वारकाणि सम्पादितवान्। प्रसिद्ध कृष्णेन चत्वारि द्वारकाणि सम्पादितानि। 

  अनेन पञ्च स्पर्धानां परम्परा समस्थितिमभजत। आन्डेर्सण् - टेण्टुकर् ट्रफी द्वाभ्यामपि दलाभ्यां समभागं  क्रियते।