भूतपूर्वः जम्मु-काशमीर राज्यपालः सत्यपाल मालिकः दिवंगतः।
नवदिल्ली> जम्मु-काशमीरस्य भूतपूर्वः राज्यपालः सत्यपाल मालिकः (७९) दिवंगतः। लोकसभायां राज्यसभायां च सदस्यः आसीत्। वृक्कसम्बन्धरोगेण दिल्ल्यां राममनोहर लोह्या आतुरालये परिचर्यायामासीत्।
यू पि प्रान्तीयः सत्यपालः बिहारं,गोवा, मेघालयः, ओडीशा इत्येषु राज्येष्वपि राज्यपालनपदमलङ्करोति स्म। यदा सः जम्मु-काशमीरे राज्यपालः तदा राष्ट्रसंविधानस्य ३७० तमविभागः निरस्तः काश्मीरस्य सविशेषाधिकारः उपेक्षितः राज्यं द्वौ केन्द्रप्रशासनरूपेण विभक्तं च। भा ज पा दलस्य तथा नरेन्द्रमोदिनः च आराधकोSयं ततः परं मोदिनः शक्तः विमर्शकः अभवत्।