उत्तरकाश्यां मेघविस्फोटनं; आकस्मिकप्रलयः।
धारालिग्रामः उन्मूलितः, उपशतं जनाः तिरोभूताः, चत्वारः विनष्टप्राणाः।
उत्तरकाशी> उत्तराखण्डे उत्तरकाश्याम् अद्य मध्याह्ने महन्मेघविस्फोटनं जातम्। ततः परं दुरापन्ने भूस्खलने आकस्मिकप्रलये च धाराली नामकः ग्रामः नामावशिष्टोSभवत्। असंख्यं जनाः प्रलये तिरोभूता। अनेकानि गृहाणि वाससमुच्चयाश्च भग्नानि।
घीर्गङ्गानद्यां जलोपप्लवः जातः। भीतिदा अवस्था एव तत्र वर्तते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। चत्वारि मृतशरीराणि अधिगतानीति सूच्यते।