झार्खण्डस्य भूतपूर्वमुख्यमन्त्री
षिबु सोरनः दिवंगतः।
नवदिल्ली> झार्खण्डराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा च भूतपूर्वः केन्द्रमन्त्री षिबु सोरनः [८१] दिवंगतः। झार्खण्ड मुक्ति मोर्चा इति राजनैतिकदलस्य स्थापकनेता अस्ति। २००० तमे वर्षे झार्खण्डराज्यस्य रूपीकरणे तस्य दलस्य व्यवहारः निर्णायक आसीत्।
अष्टवारं लोकसभासदस्यः आसीत् षिबु सोरनः।