OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 6, 2025

 काश्मीराय राज्यपदवीं दातुं केन्द्रप्रशासनम्। 

नवदिल्ली> शासनसंविधानस्य ३७० तममनुच्छेदं निरस्य राज्यपदात् विमुच्य केन्द्रशासनप्रदेशरूपेण परिवर्तितस्य काश्मीरस्य राज्यपदवीं पुनस्स्थापयितुं केन्द्रप्रशासनेन प्रयत्नः  आरब्ध इति सूच्यते। तदर्थं विधेयकं संसदः प्रवर्तमाने सम्मेलने प्रस्तुतीकर्तुंमुद्दिश्यते। अतः आगामिमन्त्रिमण्डले विधेयकं समर्प्य अङ्गीकाराय यतते। अतीते रविवासरे सम्पन्नं प्रधानमन्त्रि-गृहमन्त्रिणोः राष्ट्रपतिना सह सन्दर्शनं काश्मीरप्रकरणमधिकृत्य आसीदिति वार्ता अस्ति। 

  २०१९ आगस्ट् पञ्चमे दिने आसीत् जम्मु काश्मीरस्य राज्यपदविनष्टः केन्द्रशासनप्रदेशरीत्या विभजनं च। २०२३ डिसम्बरमासे सर्वोच्चन्यायालयेन अङ्गीकृतमपि राज्यपदं यथाकालं पुनःस्थातव्यमिति निर्दिष्टमासीत्।  शुक्रवासरे सर्वोच्चन्यायालयः  प्रकरणमिदं परिगणयति च। अतः एषः वृत्तान्तः प्राधान्यमर्हति।