OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 27, 2025

 पद्मविभूषणेन पुरस्कृताः महान्तः।

नवदिल्ली> २०२५ तमे वर्षे पद्मविभूषणपुरस्कारेण सम्मानिताः सप्त प्रतिभाधनाः सन्ति। कैरलीसाहित्यकुलपतिः एं टि वासुदेवन् नायर्,बिहारीया ग्राम्य-श्रेष्ठगानविदुषी शर्दा सिन्हा इत्येतेभ्यः मरणानन्तरबहुमतिरूपेण पद्मविभूणं सम्मानयिष्यति। स्वास्थ्यक्षेत्रे प्रमुखः डो दुवुर नागेश्वर रड्डी [तेलङ्कानं], न्यायाधिपचरः जगदीशसिंह खेहरः [चण्डीगढः], कथकनर्तकी कुमुदिनी रजनीकान्त लखिया [गुजरात्], अन्ताराष्ट्रिय वाहमनिर्माणसंस्था 'सुसुकी' इत्यस्य भूतपूर्वः अधिपः ओसामु सुसुकी [जापानं] इत्येतेSपि पद्मभूषणपुरस्कारेण बहुमानिताः।

Sunday, January 26, 2025

 अद्य भारतस्य ७६ तमः गणतन्त्रदिवसः।

सप्त पद्मविभूषणानि; नवदश पद्मभूषणानि; ११३ पद्मश्रियः। 

 नवदिल्ली> भारतस्य ७६ तमस्य गणतन्त्रदिवसोत्सवस्य अंशतया सप्त प्रतिभाधनाः पद्मविभूषणपुरस्कारेण बहुमानिताः। ज्ञानपीठपुरस्कारेण समादृतः   समीपकाले दिवंगतः कैरलीसाहित्यकारः एम् टि वासुजेवन् नायर् वर्यः, सुप्रसिद्धः वयलिन् वादकः एल् सुब्रह्मण्यम् इत्यादयः पद्मविभूषणेन समादृताः। 

  भारतीययष्टिक्रीडादलस्य भूतपूर्वनायकः पि आर् श्रीजेषः, चलच्चित्राभिनेत्री शोभना, तमिलनटः अजितः, प्रशस्तः हृद्रोगचिकित्सकः हृदयशस्त्रक्रियाकुशलः च डो जोस् चाक्को पेरियप्पुरम् इत्यादयः १९ विशिष्टाः पद्मभूषणेन सम्मानिताः। 

  विविधमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः ११३ जनाः पद्मश्रीबहुमत्या सम्मुदिताः। संगीतज्ञा डो के ओमनक्कुट्टी, पादकन्दुकक्रीडकः ऐ एम् विजयः, नीतिज्ञः सि एस् वैद्यनाथः, तमिलपत्रिकाकारः डो आर् लक्ष्मीपतिः, मृदङ्गवादकः गुरुवायूर् दोरै इत्यादयः पद्मश्रीपुरस्कृतेषु अन्तर्भवन्ति।

 चतस्रः महिलासैनिकाः हमासेन विमोचिताः। 

डेयर् अल् बलाह्> हमास-इस्रयेलयोः युद्धविरामसन्धेः अंशतया हमासेन बन्धितेषु इस्रयेलस्य चतस्रः महिलासैनिकाः विमोचिताः। 'रेड् क्रोस्' संस्थाद्वारा शनिवासरे आसीत् एतासां मोचनम्। 

 गासायां पालस्तीनचत्वरे सन्निहितानां जनानामाभ्यन्तरेण स्मिताननैः सह सैनिकवेषं धृत्वा आसीत् तासां प्रतिनिवर्तनम्। २०२३ ओक्टोबर् सप्तमदिनाङ्के गासायां नहाल् ओस् इत्यस्मात् सेनाशिबिरात् ताः  हमासेन निगृहीताः आसन्।

बालसहितीप्रकाशनस्य द्विदिवसीय साहित्य सङ्गोष्ठी अद्य सम्पत्स्यते

   चेरुतुरुत्ती> सांस्कृतिकग्रन्थानां प्रकाशनेषु निरतेन बालसाहिती-प्रकाशनेन आयोजिता द्विदिवसात्मका आवासीया सङ्गोष्ठी अद्य रविवासरे सम्पत्स्यते। ह्यः आरब्धा सङ्गोष्ठी कथाकारः के. के पल्लशनः उद्घाटनमकरोत्। मलयाळभाषायां विद्यमानाः बालसाहित्यनिपुणाः ग्रन्थरचयितारः कार्यक्रमे अस्मिन् भागं स्वीकुर्वन्तः सन्ति। केरळकलामण्डलम् इति मानितविश्वविद्यालयस्य परिसरे इयं सङ्गोष्ठी प्रचलति। सांस्कृतिकयुक्तानां राष्ट्राभिमानयुक्तानां धर्मोपदेशपराणां साहित्यानां नवीनरचना बालकान् उद्दिश्य भवतु इति उद्देश्येन आयोजिता अस्ति इयं सङ्गोष्ठी।

Saturday, January 25, 2025

 जन्माधिकारपौरत्वनिरासादेशः न्यायालयेन अवरुद्धः। 

ट्रम्पः पुनर्विचाराय उद्यमते।

सियाटिल्> जन्माधिकारपौरत्वं निरस्य यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेण हस्ताक्षरीकृतः आदेशः सियाटिल् जनपदीय न्यायाधीशेन अवरुद्धः। गुरुवासरे आसीत् ट्रम्पस्य निर्वोढव्यादेशः १४ दिनानि यावत् अवरुद्धः। 

  किन्तु न्यायालयस्य अवष्टम्भादेशं विरुध्य पुनर्विचाराभ्यर्थना समर्पयिष्यतीति ट्रम्पेण निगदितम्। वाषिङ्टणः, अरिसोणा, इलिनोय्, ओरिगण् इत्येतेभ्यः राज्येभ्यः समर्पिते प्रकरणे आसीत् न्यायालयस्य प्रक्रमः। ट्रम्पस्यादेशः राष्ट्रसंविधानस्य नग्नं लङ्घनमिति न्यायालयेन निरीक्षितम्।

Friday, January 24, 2025

 दिल्ली विधानसभानिर्वाचनम्। 

प्रचारणोत्साहे राजनैतिकदलानि। 

नवदिल्ली> विधानसभानिर्वाचनस्य प्रचारणोत्साहे दिल्ल्यां प्रमुखानि राजनैतिकदलानि।  अनुस्यूतप्रशासनं लक्ष्यीकृत्य आम् आद्मी पार्टी [आप्], अधिकारग्रहणाय भा ज पा, विनष्टप्रभावस्य पुनर्ग्रहणाय कोण्ग्रस् च सर्वायुधान् परिगृह्य प्रचारणोत्साहे वर्तन्ते। 

   पञ्चवर्षाभ्यन्तरे दिल्ल्याः कर्मराहित्यं परिहरिष्यतीति 'आप्' दलस्य नेता मुख्यमन्त्रिचरश्च अरविन्द केज्रिवालः उद्घोषितवान्। दशवर्षीयप्रशासनेन आप् सर्वकारः भ्रष्टाचारे अन्यानवाप्तोन्नतसीमां [World record] प्राप्तवानिति भाजपादलेन निन्दितम्। दिवंगतायाः भूतपूर्वप्रधानमन्त्रिणः षीला दीक्षितस्य विकासादर्श एव वरमिति कोण्ग्रसनेत्रा राहुलगान्धिना प्रख्यापितम्। फेब्रुवरि पञ्चमदिनाङ्के भवति दिल्लीनिर्वाचनम्।

 आयसयुगारम्भः तमिलनाटे इति राज्यमुख्यमन्त्री। 

५,३०० संवत्सरेभ्यः पूर्वमारब्धमिति स्टालिनः। 

एं के स्टालिनः।

चेन्नै> विश्वस्मिन् आयसयुगस्य प्रारम्भः तमिलनाटे इति अभिमानं ज्ञापयित्वा राज्यमुख्यमन्त्री एं के स्टालिनः। "तमिलनाटे ५,३०० संवत्सरेभ्यः पूर्वमेव आयसयुगमारब्धमिति अहं विश्वं ज्ञापयामि। धातोः अयसः विश्लेषणप्रौद्योगिकी भौगोलिकस्तरे प्रथमतया तमिलनाटे एव अवतारिता। इतः सङ्कलितानां पुरावस्तुसामग्रीणां विशकलनं विश्वस्मिन्नेव श्रेष्ठतरेषु शोधनालयेषु कृतम्। तस्याधारे एवेदं प्रख्यापनम्" स्टालिनः अवोचत्। तमिलनाटस्य अयोपयोगस्य चरित्रं स्पष्टीक्रियमाणस्य 'इरुम्पिन् तोन्मै' इति ग्रन्थस्य प्रकाशनवेलायां भाषमाणः आसीत् स्टालिनवर्यः।

 रेल्यानपेटिकायाम्  अग्निबाधा इति विशङ्क्य  बहिः उत्पतिताः ११ यात्रिकाः मृताः।

    मुम्बै> महाराष्ट्रेषु जल्गावे प्राणरक्षार्थं रेल्यानात् बहिः कूर्दनेन पतिताः द्वादश जनाः मृताः। समीपस्थे रेल्पट्टिकायाः आगतम् अन्यं रेल्यानं घट्टयित्वा एव भूरि जनाः मृताः। दश यात्रिकाः व्रणिताः। लक्नौ देशतः मुम्बैदेशं प्रति आगम्यमानं रेल्यानं भवति पुष्पक् एक्स्प्रस्।  अस्य रेल्यानस्य पेटिकायाः एकस्याः अग्निः धूमः च उत्थितः इति सन्दिह्य यात्रिकाः  रेल्यानात् बहिः कूर्दनमकरोत्। तस्मिन्नवसरे अन्यपट्टिकायाम् आगतं 'कर्णाटक' एक्सप्रस् नाम रेल्यानस्य अधः पतित्वा एव द्वादश जनानां मृत्युः इति प्रतिवेदनमस्ति। विंशत्यधिकाः यात्रिकाः यानात् बहिः कूर्दनमकुर्वन्।

Thursday, January 23, 2025

 राफासीमायाः न प्रतिनिवर्तिष्यते इति इस्रयेलः। 

जरुसलेमः> ईजिप्तस्य समीपस्थायाः राफासीमायाः इस्रयेलसैनिकानां प्रतिनिवर्तनं न भविष्यतीति इस्रयेलेन निगदितम्। ईजिप्तं गासां च संयोज्यमानायाः राफासीमायाः नियन्त्रणं पालस्तीनस्य समितिः स्वीकरिष्यतीति अभ्यूहस्य आधारे एव इस्रयेलस्य विज्ञप्तिः।

 जन्माधिकारनागरिकत्वनिरासः - 

अमेरिकायां २२ राज्यानि न्यायालयं प्रति।

वाषिङ्टणः> यू एस् राष्ट्रस्य राष्ट्रपतिपदं प्राप्य झटित्येव डोणाल्ड ट्रम्पेन आदिष्टस्य जन्माधिकारनागरिकत्वनिरासं विरुद्ध्य २२ राज्यानि न्यायालये प्रकरणं समार्पयन्। डेमोक्रेटिक पार्टी इत्यनेन शासमानानि राज्यानि भवन्त्येतानि। ट्रम्पस्यायं निर्णयः राष्ट्रसंविधानस्य उल्लङ्घनमिति सूचयित्वा   बोस्टण् सियाटिल् इत्येतस्थयोः फेडरल्  न्यायालययोः पुरतः एव प्रकरणं समर्पितम्। 

  ये यू एस् नागरिकाः न भवन्ति, तादृशयोः पित्रोः यू एस् मध्ये जनितानां शिशूनां नागरिकार्हता अस्तीति १८९८ तमवर्षस्य सर्वोच्चनीतिपीठस्य विधेः विरुद्ध एव ट्रम्पस्य आदेशः इति सूचयित्वा भवन्ति प्रकरणानि।

Wednesday, January 22, 2025

 ट्रम्पस्य अधिकारप्राप्त्यनन्तरं  प्रथमदिने ८० निर्वोढव्यादेशाः।

कतिपयाः आशङ्काजनकाः। 

द्वितीयवारं शपथवाचनानन्तरं ट्रम्पः।

वाषिङ्टणः>  राष्ट्रपतिपदस्वीकरणस्यानन्तरं प्रथमदिने डोनाल्ड ट्रम्पः आशङ्काजनकाः कतिपयादेशान् अभिव्याप्य ८० आदेशेषु हस्ताक्षरं कृतवान्। 

  जननाधिकाररूपेण अमेरिकानागरिकत्वं प्राप्तवतां अल्पकालिकाधिनिवेशितानां च पौरत्वरूपाधिकारः ट्रम्पेण निरस्तः। संयुक्तराष्ट्रसभायाः स्वास्थ्यसभातः [WHO], 'पारीस् पर्यावरणसन्धिः' इत्यस्माच्च ट्रम्पस्य आदेशेन अमेरिका अपसृता भविष्यति।

  यू एस् राष्ट्रे इतःपरं पुं-स्त्रीति लिंगद्वयमेव भवेत्। 'मेक्सिको अन्तरालसमुद्रस्य' परं अमेरिका अन्तरालसमुद्रः इति पुनर्नामकरणं विधास्यति। ट्रम्पस्य नूतनादेशाः प्रायेण राष्ट्रिय-अन्ताराष्ट्रियविवादाय कारणं भविष्यतीति अभिज्ञैः सूच्यते।

 हमासेन चतस्रः महिलाः शनिवासरे विमोचयिष्यन्ते। 

जरुसलेमः> इस्रायेलेन सह कृतस्य युद्धविरामसन्धेः अंशतया हमासेन बन्धिताः चतस्रः महिलाः शनिवासरे विमोचिताः भविष्यन्ति। हमासेन निगदितमिदं वृत्तान्तम्।  तस्य स्थाने पलस्थीनीयाः बन्धिताः इस्रायेलेन विमोचयिष्यन्ते। विशदांशाः न लब्धाः। 

  रविवासरे प्रवृत्तिपथमागतं सन्धिमनुसृत्य तिस्रः महिलाः  हमासेन, ९० पालस्थानीयाः इस्रायेलेन च परस्परं प्रतिप्रेषिताः आसन्। युद्धविरामसन्धेः प्रथमसोपाने ३३ बन्धितान् हमासः १९०० पालस्थानीयान् इस्रयेलश्च विमोचयिष्यति।

 छत्तीसगढे १४ मावोवादिनः व्यापादिताः। 

गरिबन्दः> छत्तीसगढस्य ओडीशायाः च सीमायां सुरक्षासेनया सह विधत्ते प्रतिद्वन्द्वे १४ मावोवादिनः व्यापादिताः। मृतेषु मावोवादिसंघस्य समुन्नतः नेता चलपति इत्याहूयमानः जयराम रेड्डिः अपि अन्तर्भवतीति केन्द्रसर्वकारेण निगदितम्। सुरक्षासेनया संवत्सरैः मार्गमाणः मावोवादिनेता आसीत् जयराम रेड्डिः।

Monday, January 20, 2025

 ट्रम्पस्य स्थानारोहणम् अद्य। 


वाषिङ्टणः> यू एस् राष्ट्रस्य ४७ तम राष्ट्रपतिरूपेण डोनाल्ड ट्रम्पः सोमवासरे शपथवाचनं करोति। भारतसमयानुसारं रात्रौ १०. ३० वादने मुख्यन्यायाधिपः जोण् रोबर्ट्स् इत्यस्य पुरतः शपथं करिष्यति। 

  वाषिङ्टणे अतिशैत्यमनुभूयते इत्यतः कापिटोल् भवनस्य 'रोटन्डा' सभागारं भवति शपथवेदिका। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः राष्ट्रं प्रतिनिधीभूय शपथसमारोहे भागं करिष्यति। 

  शपथवाचनानन्तरं ट्रम्पः राष्ट्रम् अभिसम्बुद्धिष्यते। २०१७ - २०२१ कालखण्डे यू एस् राष्ट्रपतिपदम् ऊढवान् सः वर्षचतुष्टयस्य अन्तरानन्तरं द्वितीयवारमेव राष्ट्रपतिपदं प्राप्नोति।

 गासायां शान्तिकालः। [अल्पकालिकः]

गासायां शान्तिः प्रत्यागच्छति इत्यस्यां प्रतीक्षायां भोज्यवस्तुना सह स्वप्रदेशं प्रतिनिवर्तमानाः बालाः। 

गासासिटी> १५ मासाधिककालं यावत् गासायामनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य ह्यः अहसि ११. १५ वादनतः [तद्देशीयसमयः] गासायां ४२ दिनोपेतः विरामः अभवत्। युद्धविरामसन्ध्यनुसारं चतस्रः इस्रयेलीयमहिलाः ये हमासेन निगृहीताः विमोचिताः। तत्स्थाने ९५ पालस्तीनीयाः ये इस्रालयेन बद्धाः  विमोचयितव्याः। 

  सप्ताहषट्केन अवशिष्टान् ३० बद्धान् हमासः मोचयिष्यति। निगृहीतान् ६०० पालस्तीनीयान् इस्रयेलः अपि।

  गतेषु १५ मासेषु २०,००० बालकानभिव्याप्य ५०,००० जनाः अनेन युद्धेन विगतप्राणाः अभवन्। लक्षद्वयं जनाः व्रणिताः जाताः। यू एस्, खत्तरः इत्यादिराष्ट्राणां नेतृत्वे करता शान्तिचर्चा इदानीं फलवत्ता जाता।

 जम्मुकाश्मीरेषु अज्ञातरोगबाधया १६ जनाः मृताः । सर्वकारेण वैद्यसंघाः नियुक्ताः।

श्रीनगरम्> जम्मुकाश्मीरेषु प्रसरितेषु अज्ञातरोगबाधासु १६ जनाः मृताः। रोगव्यापनं प्रतिरोद्धुं सर्वकारेण वैद्यसंधाः नियुक्ताः सन्ति। रौजौरि जनपदे बधाल ग्रामे ४५ दिनाभ्यन्तरे एव ईदृशी मृतिः अभवत्। २०२४ दिसंबर् मासस्य सप्तमे दिनाङ्के आसीत् रोगबाधया प्रथममरणम् आवेदितम्।

Saturday, January 18, 2025

 गासायुद्धविरामः - इस्रयेलस्य सुरक्षामन्त्रिमण्डलस्य अङ्गीकारः। 

गासासिटी> १५ मासान् यावत् अनुवर्तमानस्य इस्रयेल - हमासयुद्धस्य विरामाय बन्धितानां मोचनाय च मध्यस्थराष्ट्रैः कृताय शान्तिसन्धये इस्रयेलस्य सुरक्षामन्त्रिमण्डलस्य अङ्गीकारः लब्धः। प्रधानमन्त्री बञ्चमिन् नेतन्याहू इत्यस्य नेतृत्वे गतदिने आसीत् सुरक्षामन्त्रिमण्डलं सम्पन्नम्।  अचिरेणैव सम्पूर्णमन्त्रिमण्डलम् आयोज्य अन्तिमनिर्णयं करिष्यति।

 संस्कृतभारतीदेहरादूनेन  गीतशिक्षणकेन्द्रस्य  शुभारम्भो विहितः।

वार्ताहरः - धीरजमैन्दानी

     देहरादूनम्>  संस्कृतभारती देहरादून द्वारा पंचायती मंदिर घोसी गली देहरादूने गीताशिक्षण केंद्रस्य शुभारंभः कृतः।  मुख्यातिथि श्री रवि गिरी महाराजः जंगम शिवालयः, विशिष्टातिथिः श्री विकास वर्मा हनुमान चालीसा साप्ताहिक मिलन प्रांत प्रमुखः बजरंग दलं, कार्यक्रमस्य अध्यक्षः डॉ प्रदीप सेमवालः जनपदमंत्री देहरादूनम्, केंद्रशिक्षकः आचार्यः योगेशकुकरेती अथ च सहकेंद्र शिक्षकः नवनीत राजवंशी च   दीपप्रज्ज्वालनं  कृत्वा अकुर्वन्।

  कार्यक्रमे मुख्यातिथिना स्वामिना रवि गिरिणा द्वारा गीतायाः महत्वं  कथितं यत्  गीता अस्माकं भारतीय संस्कृतेः  आधारो विद्यते। अतः एव प्रत्येकं भारतीयेन प्रत्येकेन संस्कृतं पठनीयम्।

Friday, January 17, 2025

 बहिराकाशपेटकसंयोजनं विजितम्। 

भारतस्य चरित्रलब्धिः। 


बङ्गलुरु> भूमेः भ्रमणपथे भारतस्य द्वे बहिराकाशपेटके संयोजिते। एस् डि एक्स् ०१ [चेसर्] , एस् डि एक्स् ०२ [टार्गट्] इति उपग्रहपेटकद्वयस्य बहिराकाशे संयोजनं [स्पेय्स् डोकिंङ्] विजयप्रदमभवत्। अनेन  स्पेय्स् डोकिंङ् क्षेत्रे विजयीभूतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनम् इत्येतानि अन्यानि राष्ट्राणि। 

  २०२४ डिसम्बर् ३० तमे दिनाङ्के आसीत् लघूपग्रहयोः विक्षेपः। जनुवरि सप्तमे दिनाङ्के संयोजनं कर्तुं निश्चितमासीत्तर्ह्यपि साङ्केतिकदोषात् परिवर्तितम्। विविधाः समस्याः परिहृत्य एव भारतस्य उद्दिष्टफलप्राप्तिः। 

  संयोजनसमये पेटकद्वयं भूमेः ४७५ कि मी दूरे, १० मिल्लीमीटर् प्रति सेकन्ड् प्रवेगे, परस्परस्पर्शमात्रे आसीत्। ह्यः प्रभाते ६. ३० वादने आरब्धा संयोजनप्रक्रिया ६. ४० वादने समाप्ता।

Thursday, January 16, 2025

 गासातः आश्वासवृत्तान्तः।

४२ दिनात्मकयुद्धविरामाय सम्मतिः। 

दोहा> १५ मासान् यावत् गासायाम् अनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य अल्पकालिकविरामाय पक्षद्वयस्य सम्मतिर्जाता इति मध्यस्थैः निगदितम्। 'रोयिटर्' वृत्तान्तमाध्यमेनैव वृत्तान्तमिदं बहिरागतम्। 

  यू एस् राष्ट्रस्य सहयोगेन ईजिप्त्, खत्तरराष्ट्रयोः नेतृत्वे   मासैरनुवर्तितायां चर्चायामेव ४२ दिनात्मकयुद्धविरामाय इस्रयेलस्य हमासस्य च सम्मतिः जाता। इस्रयेलमन्त्रिमण्डले अद्य एतदधिकृत्य निर्णयो भविष्यति।

 डो वि नारायणः 'इस्रो' अध्यक्षपदं स्वीकृतवान्।

बङ्गलुरु> ऐ एस् आर् ओ इत्यस्य नूतनाध्यक्षः डो वि नारायणः पदं स्वीकृतवान्। अनन्तपुर्यां विक्रम साराभाय् बहिराकाशगवेषणकेन्द्रे समाकारिते कार्यक्रमे एस् सोमनाथात् भारवाहित्वं स्वीकृतवान्। वर्तमानीनः अध्यक्षःएस् सोमनाथः सेवानिवृत्तोSभवत्।

Wednesday, January 15, 2025

 अमेरिका मित्रराष्ट्राणि च शक्तिशालिनः, विपक्षाः दुर्बलाः; रष्यं चीनम् इरानं च उल्लेख्य कठोरं विमर्शनं कृत्वा बायडनस्य निवृत्तिसभाषणम्।


 निर्वाचनविजयं प्राप्य पुनः अमेरिकासंयुक्तराज्यस्य राष्ट्रपतिपदं प्रति आगन्तुं ट्रम्पः सपताहिक्यस्य समयः शेषः सन्, गतेषु विगतेषु चतुर्षु वर्षेषु अमेरिकायाः प्रगतेः उल्लेखं कृत्वा जो बायडनः निवृत्तिसभाषणं कृतवान् पश्चिमायाम् एष्यायां संघर्षाणां विषये यूक्रैनदेशस्य च आक्रमणस्य प्रसङ्गे रष्यः, चीनः, इरानः इत्येतानि राष्ट्राणि बैडनस्य भाषणे तीव्रं समालोचितानि। चीनदेशेन कथञ्चिदपि अमेरिकां पराजेतुं न शक्यते, अमेरिका च विश्वस्मिन् परमशक्तिरूपेण एव स्थितिं धारयति इति बैंडनः उक्तवान्। गज्जाप्रदेशे युद्धविरामः स्थापितः ।, बन्धिनां विमोचनं च कर्तुं इस्रायल-हमास-सन्धिः अन्तिमसोपाने स्थापितः अस्ति इति च तेन निर्दिष्टम्।

 नैजीरियायां भीकराक्रमणं - ४० कृषकाः हताः। 

डाकरः> आफ्रिक्काभूखण्डे नैजीरियाराष्ट्रस्य उत्तरपूर्वीयराज्ये बोर्णोनामके  रविवासरे विधत्ते भीकराक्रमणे ४० कृषकाः मृत्युमुपगताः। ऐ एस् इत्यनेन भीकरसंघटनेन सम्बन्धोपेतं 'बोक्कोहरामः' इति संघटनमेव आक्रमणस्य पृष्ठतः इति सूच्यते।

Tuesday, January 14, 2025

 सोनामार्ग-गगनगिरि भौमान्तर्वीथी उद्घाटितः। 

सोनामार्ग भौमान्तर्मार्गस्य कवाटः। 

श्रीनगरं> जम्मुकाश्मीरे सोनामार्गनगरं प्रति आसंवत्सरं सुगमसञ्चारसाध्यः भौमान्तर्मार्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने उद्घाटितः। सोनामार्ग-गगनगिरि सुरङ्गमार्गस्य ६. ५ कि मी दूरमस्ति। 

  २७०० कोटिरूप्यकाणां व्ययेन निर्मितः अयं युगलपङ्क्तिमार्गः कस्मिन्नपि प्रतिकूलपर्यावरणे उपयोक्तुं शक्यते। २०१५ तमे वर्षे अस्य निर्माणमारब्धम्।

 शबरिगिरौ अद्य मकरज्योतिदर्शनम्। 

लक्षशः भक्ताः उपस्थिताः। 

पन्तलं राजभवनात् प्रस्थिता विशिष्टाभरणघोषयात्रा वटशेरिक्रप्रदेशे  प्राप्ते। 

पत्तनंतिट्टा> केरले शबरिगिरौ मकरसंक्रममण्डलकालस्य समाप्तिमालेख्यमानस्य मकरज्योतिदर्शनाय सुवर्णाभरणभूषितं धर्मशास्तारं द्रष्टुं च  भगवत्सन्निधानं पूर्णसज्जम्। लक्षशः तीर्थाटकाः भक्तजनाश्च सन्निधानपरिसरे समीपप्रदेशेषु च उपस्थिताः वर्तन्ते। 

  पन्तलं राजभवनात् प्रस्थिता भगवद्विग्रहे अलङ्कार्यमाणानां विशिष्टाभरणानां घोषयात्रा अद्य सायंलन्ध्यायां सन्निधानं प्राप्स्यति। ६. ३० वादने विशिष्टाभरणानि अलंकृत्य दीपाञ्जलिं विधास्यति। तस्मिन् समये एव पोन्नम्पलमेट् इत्यत्र मकरज्योतिदर्शनं शक्यते। आकाशे मकरनक्षत्रमपि उज्वलिष्यति। आत्मनिर्वृतिदायकं पुण्यमुहूर्तं साक्षात्कर्तुं लक्षशः भक्ताः उपस्थिताः सन्ति।

लक्षशः भक्ताः उपस्थिताः। 

पत्तनंतिट्टा> केरले शबरिगिरौ मकरसंक्रममण्डलकालस्य समाप्तिमालेख्यमानस्य मकरज्योतिदर्शनाय सुवर्णाभरणभूषितं धर्मशास्तारं द्रष्टुं च  भगवत्सन्निधानं पूर्णसज्जम्। लक्षशः तीर्थाटकाः भक्तजनाश्च सन्निधानपरिसरे समीपप्रदेशेषु च उपस्थिताः वर्तन्ते। 

  पन्तलं राजभवनात् प्रस्थिता भगवद्विग्रहे अलङ्कार्यमाणानां विशिष्टाभरणानां घोषयात्रा अद्य सायंलन्ध्यायां सन्निधानं प्राप्स्यति। ६. ३० वादने विशिष्टाभरणानि अलंकृत्य दीपाञ्जलिं विधास्यति। तस्मिन् समये एव पोन्नम्पलमेट् इत्यत्र मकरज्योतिदर्शनं शक्यते। आकाशे मकरनक्षत्रमपि उज्वलिष्यति। आत्मनिर्वृतिदायकं पुण्यमुहूर्तं साक्षात्कर्तुं लक्षशः भक्ताः उपस्थिताः सन्ति।