होर्मुस् उद्घाटयितुं यू एसेन अन्ताराष्ट्रीयसाह्यं मार्गते।
वाषिङ्टणः> होर्मुस् समुद्रसङ्कोचद्वारा महानौकायातायातं पुनःस्थापयितुं अमेरिकाराष्ट्रेण अन्ताराष्ट्रीयसाहाय्यं मार्गते। नूतनं किमपि अन्ताराष्ट्रीयसख्यं रूपीकर्तुमेव यू एसेन लक्ष्यीक्रियते। तदर्थं यू एस् इतराणि विदेशराष्ट्राणि प्रेरयतीति सूच्यते।
होर्मुस् द्वारा यातायाते स्थगिते तैलेन्धनमूल्यं चतुर्भ्यः वर्षेभ्यः उच्चस्तरं प्राप्तमस्ति। पश्चिमेष्यायुद्धपरिसमाप्तेः अनन्तरमेव एतादृशसख्यस्य अंशो भविष्यतीति ब्रिटनं, फ्रान्स् इत्यादिभिः राष्ट्रैः उक्तम्।