OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 31, 2026

 'ऐ पि एल्' अन्तिमस्पर्धा अद्य। 

आर् सि बी × गुजरात् टैटन्स्। 


अहम्मदाबादः> भारतस्य क्रिकट् वीरसंघं प्रत्यभिज्ञातुं  अहम्मदाबादे नरेन्द्रमोदी क्रीडाङ्कणे अद्य सायं  सप्तवादने अन्तिमस्पर्धा सम्पत्स्यते। 'रोयल् चलञ्चेर्स् बङ्गलुरु' [RCB], 'गुजरात् टैटन्स्' इत्येतौ संघौ परस्परं किरीटाय स्पर्धिष्येते। 

  वर्तमानीनवीरः RCB किरीटम् उपस्थापयितुं,  'गुजरात् टैटन्स्' तु तस्य द्वितीयवारं किरीटप्राप्तिं लक्ष्यीकृत्य च स्पर्धिष्यते।

Saturday, May 30, 2026

 वर्षाकालः अचिरेण। 

केरले तीव्रा वृष्टिः। 

अनन्तपुरी> केरले प्रायेण सर्वेषु जनपदेषु सप्त दिनानि यावत् वर्षाकालपूर्ववृष्टिः शक्तया रीत्या अनुवर्तते। सायंकालेषु सौदामिनीसहिता वृष्टि‌ः शक्ता अस्ति। जूण् मासस्य प्रथमवारे एव मण्सूण् वर्षाकालः केरलं प्राप्स्यतीति ऋतुविज्ञानीयविभागेन निगदितम्।

 विश्वचषकपादकन्दुकम्

मेस्सी अर्जन्टीनानायकः।


ब्यूणस् ऐरिस्> पादकन्दुकस्य विश्वकिरीटम् अलङ्कुर्वन्तं अर्जन्टीनासंघं इतिहासक्रीडकः लयणल् मेस्सी एव नेष्यति। गतदिने परिशीलकः लयणल् स्कलोनी २६ अङ्गोपेतं संघं प्रख्यापितवान्। पूर्वं खत्तरे किरीटप्राप्तौ भागम् ऊढवन्तः भूरिशः क्रीडकाः अस्मिन् संघे वर्तन्ते। 

  मेस्सिवर्यस्य षष्ठः विश्वचषकः एव अस्य वर्षस्य। २००६ तमे वर्षे आसीत्तस्य प्रथमा विश्वचषकक्रीडा। लक्ष्यकन्दुकरक्षकः (Goal keeper) एमिलियानो मार्टिनेस्, प्रतिरोधपंङ्क्तिक्रीडकः क्रिस्ट्यन् रोमेरो च संघं प्रति चितौ।

 विश्वस्मिन् नदीषु प्राणवायोः परिमाणम् अघिशीघ्रम् आकुञ्जति इति प्रतिवेदनम्।

भूमौ जलस्रोतांसि प्राणवायोः परिमाणम् अतिशीघ्रम् आकुञ्जति इति नूतनप्रतिवेदनम्। विश्वे माकिं प्रतिशतं अशीति नदीषु अतीव गुरुतरः प्राणवायुविनष्टः सम्भवति इति सयन्स् अड्वान्स् ( Science advance ) नाम पत्रिकायां प्रकाशिते अध्ययने स्पष्टीकरोति। भारते गङ्गानद्यां तथा दक्षिण अम्मेरिक्कायां आमसोण् नाम नद्यां च विशेषघटनेऽयं अतिरूषतया प्रबाधते। यासु नदीषु प्रतिदशसंवत्सरेषु ०.०४५ मि. ग्राम् इति क्रमेण प्राणवायुः विनष्टः भवति।।

 'नीट्' प्रश्नपत्रप्रस्रवणम्।

प्रधानमन्त्री पर्यवेक्षणं करिष्यतीति सर्वकारः। 

नवदिल्ली> नीट् परीक्षायाः प्रश्नपत्रप्रस्रवणविषये युवजनेभ्यः  उद्भूताः आशङ्काः केन्द्रसर्वकारेण   सगौरवं वीक्ष्यन्ते, प्रकरणे प्रधानमन्त्री नरेन्द्र मोदी साक्षात् पर्यवेक्षणं वहतीति च सोलिसिटर् जनरल् पदीयः तुषारमेत्ता वर्यः सर्वोच्चन्यायालयं निगदितवान्। प्रकरणे परिहारः भवितव्य इति न्यायाधिपौ पि एस् नरसिंहः, अलोक् आराधे इत्येतयोः पीठेन निर्दिष्टम्। 

  २०२७ तमादारभ्य नीट् परीक्षा सङ्गणकाधिष्ठिता [CBT] भविष्यतीति परीक्षाचालकसंस्थया [NTA] सत्यवाचनपत्रं समर्पितम्। जूण् २१ तमे दिनाङ्के सम्पत्स्यमानायै परीक्षायै प्रश्नपत्रवितरणाय व्योमसेनायाः साहाय्यम् अपेक्षितम् इति विद्याभ्यमन्त्रिणा धर्मेन्द्र प्रधानेन निगदितम्।

Friday, May 29, 2026

 कर्णाटके मुख्यमन्त्रिसंनिवेशनम्।

सिद्धरामय्यः त्यागपत्रं समार्पयत्।

सिद्धरामय्यः। 

बङ्गलुरु> कर्णाटकराज्ये मुख्यमन्त्रिस्थाने संनिवेशनम्। वर्तमानीनः मुख्यमन्त्री सिद्धरामय्यः कोण्ग्रस् उन्नताधिकारसमित्याः [High Command] निर्देशानुसारं त्यागपत्रं समर्पितवान्। राज्यपालः त्यागपत्रं स्वीकृतवान् च। तस्य स्थाने उपमुख्यमन्त्री डी के शिवकुमारः नूतनमुख्यमन्त्री भविष्यति। सोमवासरे सः प्रतिज्ञावाचनं कृत्वा पदमारोहयिष्यति।

 केरलम्। 

यू डि एफ् सर्वकारस्य राज्यशासनकौशलोद्घोषणम् अद्य। 


अनन्तपुरी> वि डि सतीशस्य नेतृत्वे विद्यमानस्य यू डि एफ् सर्वकारस्य प्रथमं राज्यशासनकौशलोद्घोषणं राज्यपालः राजेन्द्र आर्लेकरः शुक्रवासरे विधास्यति। बह्व्यः जनप्रियाभियोजनाः याः यू डि एफ् सख्येन निर्वाचनवाग्दानरूपेण उद्घोषिताः  नयोद्घोषणे प्रतीक्षन्ते। 

  नयोद्घेषणे कृतज्ञताप्रकाशनपत्रम् अधिकृत्य चर्चा जूण् प्रथमदिनाङ्कतः तृतीयदिनाङ्कपर्यन्तं भविष्यति। अस्याः विधानसभायाः  कार्योपदेशकसमित्याः प्रथमं मेलनं नयोद्घषणानन्तरं विधास्यति।

 'ओपरेषन् षेरुवाली' अन्तिमपादे। 

श्रीनगरं> 'ओपरेषन् षेरुवाली' इति कृतनामधेयं भीकराणां कृते संयुक्तसेनायाः अन्वेषणम् अन्तिमपादं प्रविष्टमिति सेनया निगदितम्। रजौरि वनप्रदेशे कस्यांश्चित् गुहायां निलीयमानाः भीकराः संगृहीतप्रायाः वर्तन्ते। रक्षां प्राप्तुं किमपि रन्ध्रमलब्ध्वा ते लग्नाः इति सेनाधिकारिभिरुक्तम्। त्रयः भीकराः सन्तीति मन्यते। 

  रजौरी काननान्तर्भागे निलीनान् भीकरान् निगृहीतुं गते शनिवासरे आसीत् जम्मु-काश्मीरस्य आरक्षणसेना, सि आर् पि एफ् इत्येताभ्यां मिलित्वा अन्वेषणमारब्धम्। अन्वेषणाय 'ओपरेषन् षेरुवाली' इति नाम कृतं च। गतरात्रौ अपि भुषुण्डिप्रयोगः सम्पन्नः।

 ओलिम्प्यः रणधीरसिंहः दिवंगतः। 


नवदिल्ली> 'एष्यन् गयिंस्'  मध्ये गुलिकाप्रक्षेपे [Shooting] भारतस्य प्रथमः सुवर्णपतकजेता तथा ओलिम्पिक्स् क्रीडकः, भारतीय ओलिम्पिक् असोसियेषन् इत्यस्य भूतपूर्वः कार्यदर्शी च राजा रणधीरसिंहः [७९] दिवंगतः। अर्जुनपुरस्कारजेता, अन्ताराष्टिय ओलिम्पिक् समित्यां भूतपूर्वसदस्यः च सः भारतस्य कायिकमण्डलाभिवृद्धेः मार्गदर्शकश्चासीत्। वार्धक्यसहजेन अस्वास्थ्येन समीपकाले आतुरालये आसीत्। बुधवासरे स्वगृहे आसीत् तस्यान्त्यम्। अन्त्येष्टिकर्माणि गुरुवासरे हरिद्वारे सम्पन्नानि।

Thursday, May 28, 2026

प्रश्नपत्रचोरणम् प्रमुखानां परीक्षाणां प्रश्नपत्राणां सुरक्षा सेनायै प्रदास्यते

   नवदेहली> प्रश्नपत्रचोरणविवादात् परं, देशस्य प्रमुखानां परीक्षाणां प्रश्नपत्राणां सुरक्षादायित्वं सेनायै प्रदातुं सर्वकारेण क्रियते। प्रधानमन्त्रिणः निर्देशानुसारम् इयं प्रक्रिया आरब्धा। 'नीट्-यूजी' (NEET-UG) परीक्षायाः प्रश्नपत्र-चोरणविषये रक्षामन्त्रिणः राजनाथसिंहस्य आवासगृहे एकं महत्वपूर्णाम् उपवेशनं सम्पन्नम्। अनेन सह 'नीट्' (NEET) इत्याद्यानां प्रमुखानां अखिलभारतीय-परीक्षाणां सुरक्षादायित्वं सेनायै समर्पयिष्यते।

इयं कल्पितकार्यावलिः 'नीट्' प्रश्नपत्रचोरणस्य पृष्ठभूमौ आगता। केन्द्रीयशिक्षा-मन्त्रालयेन 'नीट्' पुनःपरीक्षायाः सज्जतानां समीक्षा कृता। परीक्षायाः सुरक्षावर्धनार्थं स्वीकृताः क्रमाः 'एन् टी ए' (NTA) उपवेशने सूचिताः। परीक्षा संपन्नावलोकन-प्रणाल्याः (निरीक्षणव्यवस्थायाः) सुदृढीकरणविषये अपि चर्चा अभवत्। "छात्राणां कृते किमपि कष्टं न भवेत्" इति शिक्षा-मन्त्रिणा धर्मेन्द्रप्रधानेन उक्तम्।

 राष्ट्रिय ऊनविंशपादकन्दुकम्

केरलं वीरतापदे।

ऊनविंशानां राष्ट्रियकिरीटं प्राप्तः केरलसंघः। 

नारायणपुरं> छत्तीसगढे सम्पन्ने ऊनविंशतिवयस्कानां राष्ट्रिय पादकन्दुकक्रीडायाः अन्तिमप्रतिद्वन्द्वे केरलं विजयीभूतम्। मिसोरामसंघं ४ - २ इति लक्ष्यकन्दुकेन पराजित्य आसीत् केरलस्य विजयः। 

  डो टि ए रञ्जितस्य परिशीलने क्रीडाङ्कणं प्राप्तः केरलसंघः अपराजितः एव किरीटं प्राप। प्राथमिकचरणस्य सर्वान् प्रतिद्वन्द्वान् विजित्य प्रपूर्वान्त्ये मेघालयं (२-१), पूर्वान्त्ये पञ्चाबं (४-१) च पराजित्य आसीत् केरलस्य अन्त्यस्पर्धाप्रवेशः। 

  केरलस्य विजये मुख्यभागम् ऊढवान् षेरिल् षाजी तोमसः अन्तिमप्रतिद्वन्द्वे लक्ष्यकन्दुकद्वयं सम्प्राप्तवान्। स एव क्रीडापरम्परायाः प्राप्ताङ्काग्रिमः [Top scorer]। आहत्य १३ लक्ष्यकन्दुकानि तेन प्राप्तानि।

 एस् ऐ आर् व्यवस्थानुसारं - सर्वोच्चन्यायालयः।

नवदिल्ली> केन्द्र निर्वाचनायोगेन विधायमानं  समग्र मतदायकावलीपरिष्करणं [एस् ऐ आर्] नीतिन्यायव्यवस्थानुसारम् इति सर्वोच्चन्यायालयस्य नीतिपीठेन विहितम्। बिहारे आरभ्य विभिन्नराज्येषु क्रियमाणायाः एस् ऐ आर् प्रक्रियायाः नियमसाधुतां परिपृच्छ्यमानाः अभियाचिकाः परिशोधिवता नीतिपीठेन प्रक्रियायां निर्वाचनायोगस्य अधिकारम् अनुकूलितम्। एस् ऐ आर् इत्यस्य संविधानसाधुता अपि नीतिपीठेन अङ्गीकृता। 

  मुख्यन्यायाधिपः सूर्यकान्तः, न्यायाधिपौ जोय् माल्य बाग्चि, विपुल् एम् पञ्चोली इत्येतेषां नीतिपीठस्य अस्ति अयं विधिः। तीव्रपरिष्करणाय निर्वाचनायोगेन उन्नीताः वादाः नीतिपीठेन अङ्गीकृताः।

 शान्तिः दूरे; ईरान-युद्धः मासत्रयम् अतीतम्।

 तेहरान:> ईरान-युद्धस्य आरम्भात् इदानीं मासत्रयं अतीतम्। यद्यपि शान्तिचर्चाः सक्रियाः प्रचलन्ति, तथापि युद्धस्य स्थगनं कर्तुं पक्षद्वयमपि सज्जं नास्ति। होरमुस्- समुद्रसड़कोचस्य (Strait of Hormuz) नियन्त्रणविषये, ईरानस्य परमाणुपरियोजनानां स्थगनविषये च अमेरिका-ईरानदेशौ अद्यापि दृढं शाठ्यपूर्णं च दृष्टिकोणं धारयतः स्तः। युद्धस्य मासत्रयान्ते एतत् आगोलार्थव्यवस्थां गम्भीररूपेण बाधितुम् आरब्धमस्ति। विश्वस्य प्रमुख-तैलवाहनमार्गस्य (होरमुज्-जलसङ्कोचः) विवादः अन्ताराष्ट्रविपण्याम् इन्धनमूल्यस्य तीव्रवृद्धये कारणम् अभवत्। वितरणशृङ्खलायाः (supply chain) बाधया विविधदेशेषु आवश्यकवस्तूनां मूल्यवृद्धिः अपि तीव्रा संजाता। युद्धस्य दीर्घानुवर्तनं वैश्विकार्थिक-मन्दतायै कारणं भवेत् इति आशङ्कायां सन्ति विश्वराष्ट्राणि।

Wednesday, May 27, 2026

 एबोला-वैराणुव्याप्तिः अतीव तीव्रा इति विश्वस्वास्थ्यसङ्गठनम्

​कोङ्गो> एबोला-वैराणुव्याप्तिः अतीव तीव्रा गतिं प्राप्नोतीति विश्वस्वास्थ्यसङ्गठनेन निवेदितम्। डेमोक्रेटिक् रिपब्लिक् आफ् कोङ्गो (DR Congo), उगाण्डा (Uganda) देशयोः च एतावत्पर्यन्तं २२० (विंशत्यधिक द्विशतं) जनाः अनेन व्याधिना मृताः। एबोला-रोगलक्षणानां अन्वेषणे अभवन् विलम्बः एव अस्य वैराणोः तीव्रव्यापनस्य मुख्यकारणम् अभवत्। तेन सह काङ्गो देशेन सह सीमां संलग्नेषु अन्येषु देशेषु अपि अस्य रोगस्य तीव्रसङ्कटसाध्यता अस्तीति विश्वस्वास्थ्यसङ्गठनेन पूर्वसूचना दत्ता।

​   अस्मिन् अन्तरे, कोङ्गो देशे एबोला-रोगिणां परिचर्यां कुर्वत्सु चिकित्सालयेषु आक्रमणानि अभवन्। मृतानां शरीराणि स्वास्थ्यमानदण्डान् अनादृत्य एव बन्धुभिः नीयन्ते। असुरक्षितानि श्मशानानि, अनुचिताः शवसंस्कारपद्धतयः च रोगव्याप्तये कारणं भवन्तीति विश्वस्वास्थ्यसङ्गठनेन स्पष्टीकृतम्।

 केरलम्।

+२ परीक्षायां ७७. ९७% विजयः। 

अनन्तपुरी> केरले मार्चमासे सम्पन्नायाः उच्चतरस्तरीयपरीक्षायाः [+2] परिणामः विज्ञापितः। शिक्षामन्त्री एन् षंसुदीनः परीक्षापरिणामम् उदघोषयत्। अस्मिन् वर्षे ७७. ९७% छात्राः उपरिशिक्षायै अर्हाः अभवन्। गतवर्षे विजयशतमानं ७७. ८१ आसीत्। 

  परीक्षां लिखितवत्सु ३,७२,४२३ छात्रेषु २,९०,३८१ छात्राः उत्तीर्णाः जाताः। ३०,५६१ छात्राः सर्वेषु विषयेषु A+ श्रेणीं प्राप्तवन्तः। ६० छात्राः सम्पूर्णाङ्कान् [१२००/१२००] सम्प्रापुः। गतवर्षे एतेषां संख्या ४१ आसीत्। 

  वृत्यधिष्ठित उच्चतरपरीक्षायां [VHSE] ७२. ४९% विजयः अभवत्। गतवर्षे एतत् ७०. ०६ आसीत्। परीक्षां लिखितवन्तः - २५,२५९। विजयिनः - १८,३११। १६२ छात्राः सर्वेषु विषयेषु A+ श्रेणीं प्राप्तवन्तः।

 केन्द्रप्रशासनम् आततावस्थायां - वित्तमन्त्रिणी।

मुम्बई>  भारतस्य आर्थिकावस्था प्रबला वर्तते अपि पश्चिमेष्यीयसन्दिग्धता विदेशधनमुद्राणाम् आर्जनीयसञ्चयविषये शक्ता आततायावस्थां कारयतीति वित्तमन्त्रिण्या निर्मला सीतारामन् वर्यया प्रोक्तम्। 

  भौगोलिकोत्पन्नविपण्याः अनिश्चितत्वमालक्ष्य विदेशमुद्रापत्राणि यावच्छक्यं समार्जयितुं मिलित्वा प्रयत्नः अपेक्षितः इति मुम्बय्यां लघुतरोद्योगविकसनबाङ्कस्य [SIDBI] वार्षिकोत्सवे भाषमाणा आसीत् निर्मला वर्या। अन्ताराष्ट्रविपण्याम् इन्धन-उर्वरक-सुवर्णेषु अप्रतीक्षितं मूल्यवर्धनमेव जायते। रूप्यकेषु एतेषां व्यापारः न साध्यः। विदेशमुद्राः एवापेक्षिताः। अतः आयायव्ययः वर्धते। रूप्यकस्य मूल्यशोषणस्य हेत्वन्तरम् एतदेव। सा अवदत्।

 २४ वर्षेभ्यः परं भारतपादकन्दुकसंघः इङ्लाण्टे क्रीडति। 

यूणिटि चषकः अद्य आरभ्यते। 

भारतदलं लण्टने पर्शीलने। 

लण्टनं> २४ वर्षेभ्यः परं भारतस्य पादकन्दुक्रीडासंघः इङ्लाण्टे क्रीडति। 'यूणिटि कप्' नामिकायां चतुर्राष्ट्रीयसमूहक्रीडायां भागं कर्तुमेव भारतसंघः ब्रिटनं प्राप। बुधवासरे रात्रौ १२ वादने अस्ति प्रथमक्रीडा। जमैकाराष्ट्रमेव प्रतिद्वन्द्वी। 

  खालिद् जमील् इत्यनेन परिशील्यमानाः १७ क्रीडकोपेतसंघ एव लण्टनं प्राप्तः। नैजीरिया , जिम्बाब्वे  इत्येते राष्ट्रे अपि यूणिटि चषके क्रीडतः। मेय् २६ तः ३० तम दिनाङ्कपर्यन्तमेव स्पर्धाः।

Tuesday, May 26, 2026

 तैलेन्धनमूल्यवर्धनं - जनजीवनं दुष्करम्। 

सप्ताहद्वयाभ्यन्तरे वर्धनं चतुर्वारम्। 


कोच्ची>  सामान्यजनानां जीवनं दुष्करं कृत्वा इन्धनमूल्ये अनुस्यूततया वर्धनम्।  सप्ताहद्वयाभ्यन्तरे चतुर्थवारं ह्यः सामाजिकमण्डलीयाः तैलेन्धनसंस्थाभिः पेट्रोल् - डीसलेन्धनयोः मूल्यानि वर्धापितानि। प्रतिराज्यं पेट्रोल् इन्धनस्य डीसल् तैलस्य च मूल्यं सामान्यतः त्रीणि रूप्यकाणि प्रति लिटर् वर्धापितम्। मेय् मासे पेट्रोलस्य डीसलस्य च मूल्यम् आहत्य अष्ट रूप्यकाणि प्रति लिटर् वर्धापितम्। 

  कोच्चीनगरे सोमवासरे पेट्रोलस्य मूल्यं २. ८५ रूप्यकाणि वर्धयित्वा ११३. ५० रूप्यकाणि इति जातम्। डिसलतैलस्य मूल्यं तु २. ८६ रूप्यकाणि वर्धयित्वा १०२. ४२ रूप्यकाणि  प्राप्तम्। 

  पश्चिमेष्या संघर्षेण अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यवर्धनेन जातस्य सामाजिकतैलसंस्करणसंस्थानां नष्टस्य परिहाराय अस्ति राष्ट्रे अनुस्यूतं मूल्यवर्धनम् इति नीतीकरणम्।

 पश्चिमेष्यायुद्धेन आविश्वं जनजीवनं दुष्करम्। 

मरणसंख्या उपचतुःसहस्रम्।

> यू एस् - इरानयुद्धेन बृहत् क्लेशः आविश्वम् अनुभूयते। उपचतुःसहस्रं जनाः हताः इति मन्यते। तेषु उपद्विसहस्रं सामान्यजनाः भवन्ति। यू एस् राष्ट्रस्य त्रयोदश सैनिकाश्च मृताः। एकम् अवलोकनम्। 

अस्मिन् वर्षे फेब्रुवरि अष्टाविंशति तमे दिनाङ्के यू एस् इस्रयेलः च मिलित्वा इरानं विरुध्य कृतेन आक्रमणेन  पश्चिमेष्या युद्धभूमिरभवत्। प्रत्याक्रमणस्य अंशतया यू एस् राष्ट्रस्य सेनानिलयस्थानि गल्फराष्ट्राणि विरुध्य इरानेन ड्रोण-मिसैल आक्रमणानि विधत्तानि। होर्मुस् समुद्रसङ्कोचः पिहितश्च। अनेन गल्फराष्ट्रेभ्यः विश्वस्य विविधराष्ट्राणि प्रति तैल-ऊर्वरकादीनाम् असंस्कृतवस्तूनां गमनम् दुःसाध्यं जातम्। विविधराष्ट्रेषु तैलेन्धनस्य ऊर्वरकाणाम्, इतरावश्यवस्तूनां च दौर्लभ्यमभवत्। एतत्तु जनजीवनं सङ्कटकरं जातम्। 

 युद्धपरिसमाप्तये खत्तरे, पाकिस्थाने च बहुवारं शान्तिचर्चाः सम्पन्नाः अपि कदाचित् इरानस्य , कदाचित् यू एसस्य च निर्बन्धशीलेन चर्चाः विफलाः अभवन्। किन्तु युद्धस्य शाश्वतविरामाय हितैषिणां  लोकराष्ट्राणां सम्मर्दः अनुवर्तते च।

Monday, May 25, 2026

  •  पाकिस्थाने रेल् याने स्फोटनं - २४ जनाः हताः। 
    बलूचिस्थाने दुरापन्नस्य रेल् यानस्फोटनस्य दृश्यम्। 
    स्फोटनस्य उत्तरदायित्वं स्वीकृत्य बि एल् ए। 

क्वटा> पाकिस्थाने बलूचिस्थानप्रान्तप्रदेशे सैनिकान् ऊढ्वा सञ्चरत् रेल् यानं प्रति स्फोटकवस्तुसंभृतं कार् यानं संघट्य विधत्ते स्फोटने २४ जनाः मृताः। स्फोटनस्य उत्तरदायित्वं 'बलूचिस्थान् लिबरेशन् आर्मी' - बि एल् ए - नामकेन भीकरसंघटनेन स्वीकृतम्। सैनिकाः आसन् तेषां लक्ष्यमिति सूच्यते। 

  पेषावारतः क्वटां प्रति गच्छत् यानं विरुध्य आसीत् आक्रमणम्। बक्रीद् उत्सवाय स्वपुरं गच्छन्तः सैनिकाः परिवाराश्च आसन् रेल् याने। यानस्य यन्त्रं, कक्षात्रयं च स्फोटने विशीर्णम्। 

  आक्रमणम् अपलपितवान् पाकिस्थानस्य प्रधानमन्त्री षहबास् षरीफः भीकरवादैः पाकिस्थानं दुर्बलीकर्तुं न शक्यते इति प्रस्तुतवान्।

 बारामुल्लायां भीकराणां निलीनस्थानं भञ्जितम्। 

श्रीनगरं> जम्मु-काश्मीरे बारामुल्लायां 'निल्सर्कण्टी' नामके प्रदेशे विधत्ते सेनाप्रक्रमे भीकराणां निलीनस्थानं भग्नम्। बृहदायुधसञ्चयः च निगृहीतः। 

  सि आर् पि एफ्, ५२ राष्ट्रिय रैफिल्स्, बारामुल्ला आरक्षणसेना इत्येतैः मिलित्वा आसीत् प्रक्रमः। गतदिने राजौरी प्रदेशे च सेना-भीकरयोः प्रतिद्वन्द्वः संवृत्तः। तत्र भीकराभ्याम् अन्वेषणं पुरोगम्यते।

 "भारते मोदिवर्ये च स्निह्यामि" - ट्रम्पः। 

मोदी ट्रम्पश्च । [पूर्वकालीयचित्रं]

नवदिल्ली> भारते, प्रधानमन्त्रिणौ नरेन्द्र मोदिनौ च स्निह्यतीति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः प्रस्तुतवान्। यू एस् राष्ट्रस्य २५० तम स्वतन्त्रतावार्षिकस्य अंशतया नवदिल्लीस्थे भारतस्थानपतिकार्यालये आयोजिते उत्सवकार्यक्रमे ओण् लैन् द्वारा भाषमाणः आसीत् ट्रम्पः। मोदी महान्, स्वस्य प्रिय सखा इति च तेन भणितम्। 

  भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः कार्यक्रमे भागं कृतवान्। ए आर् रहमानस्य नेतृत्वे संगीतसत्कारश्च कार्यक्रमस्य अंशतया सम्पन्नः।

Sunday, May 24, 2026

 मोदिने यू एस् प्रति ट्रम्पस्य  आमन्त्रणम्। 

नवदिल्ली> यू एस् राष्ट्रस्य विदेशकार्यसचिवः मार्को रूबियो दिल्ल्यां प्रधानमन्त्रिणा नरेन्द्र मोदिना सह मिलितवान्। विभिन्नमण्डलेषु परस्परसहयोगस्य प्रगतिः चर्चिता। यू एस् सन्द्रष्टुं डोनाल्ड ट्रम्पस्य आमन्त्रणं रूबियोवर्यः मोदिनं निगदितवान्।

 तिरुवन्ञूर् राधाकृष्णः केरलस्य सभापतिः। 


अनन्तपुरी> केरलविधानसभायाः २५ तमसभापतिरूपेण कोण्ग्रस् दलस्य वरिष्ठनेता तिरुवन्ञूर् राधाकृष्णः चितः। ह्रस्वकालसभानाथस्य जि सुधाकरस्य कार्मिकत्वे विधत्ते सभापतिनिर्वाचने राधाकृष्णाय १०१ मतानि लब्धानि। विपक्षात् स्पर्धितवान् सि पि एम् दलीयः ए सि मोय्तीनः ३५ मतानि प्राप्तवान्। इतरः सभापतिस्थानाशी भा ज पा दलीयः बी बी गोपकुमारः त्रीणि मतानि प्राप्तवान्।

Saturday, May 23, 2026

 तमिलनाटे ७० संवत्सरेभ्यः परं संयुक्तदलमन्त्रिमण्डलम्। 

कोण्ग्रस्, मुस्लिमलीगः च मन्त्रिमण्डले।

चेन्नई> जोसफ् विजयेन नेतृत्वमावहता टि वि के दलेन नीयमाने मन्त्रिमण्डले कोण्ग्रस् दलीयौ द्वौ अन्तर्भूतौ। अनेन तमिलनाटे ७४ वर्षेभ्यः परं संयुक्तदलीयसर्वकारः व्यवस्थापितः।  सर्वकाराय सहयोगं कुर्वत् मुस्लीमलीग् दलमपि मन्त्रिसभां प्रवेष्टुं सज्जमभवत्। 

  कोण्ग्रस् सदस्यौ एस् राजेष् कुमारः, पि विश्वनाथः इत्येतौ मन्त्रिमण्डलं प्रविष्टौ। ५९ वर्षाणामनन्तरमेव राज्ये कोण्ग्रसे अधिकारभागं लभते।

 चन्द्रयानं-३ इत्यस्मै सर्वोच्चबहुमतिः।

चन्द्रयानं-३ २०२३ तमे वर्षे चन्द्रोपरितलम् अवतीर्णम्। 

बंगलुरु> बहिराकाशमण्डले भारताय अभिमानोपलब्धिं  प्रापितवत् चन्द्रयानं-३ पुनरपि आगोलप्रशस्तिम् अवाप्यते। American Institute of Aeronautics & Astronautics (AIAA) इत्यस्मात् बहिराकाशक्षेत्रे दीयमानः सर्वोन्नतबहुमतिः 'गोदार्द् आस्ट्रोनोटिक्स्' पुरस्कारः चन्द्रयानं-३ इत्यस्मै लभ्यते। गुरुवासरे वाषिङ्टण् डि सि इत्यत्र सम्पन्ने प्रौढगम्भीरे कार्यक्रमे अमेरिकायां भारतस्य स्थानपतिः विनय क्वात्र नामकः ऐ एस् आर् ओ संस्थायै पुरस्कारं स्वीकृतवान्।

   AIAA संस्थायाः 'Ascent 2026' नामके मेलने आसीत् पुरस्कारोद्घोषणम्। चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकावतारणं कारितवत् प्रथमराष्ट्रं भवति भारतम्। २०२३ तमे वर्षे चन्द्रयानं-३ दौत्यस्य विक्रमनामकं पेटकं चन्द्रोपरितले मृदुपतनं कृत्वा चन्द्रमधिकृत्य बह्व्यः शास्त्रीयसूचनाः सङ्कलितवत्।

Friday, May 22, 2026

 पुल्वामा भीकराक्रमणं

मुख्यसूत्रधारः अज्ञातैः हतः। 

श्रीनगरं> २०१९ तमे वर्षे पुल्वामा भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः हंसा बुर्हान नामकः पाक्-अधीनकाश्मीरे अज्ञातैः हतः। पुल्वामा निवासी, 'डोक्टर्' इति आहूयमानः अयं अल् बदरनामके भीकरसंघटने अंगमासीत्। २०२२ तमे वर्षे केन्द्रगृहमन्त्रालयेन भीकरः इति अयमुद्घोषितः आसीत्।

 इरानयुद्धम् 

 ट्रम्प - नेतन्याहोर्मध्ये अस्वारस्यः?

वाषिङ्टणः> इरानयुद्धस्य भविष्यदधिकृत्य यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः इस्रयेलस्य प्रधानमन्त्री बञ्चमिन नेतन्याहुः इत्यनयोर्मध्ये अनैक्यं जातमिति यू एस् वार्तामाध्यमेन 'आक्सियोस्' नामकेन वृत्तान्तीकृतम्। कुजवासरे उभयोरपि नेत्रोः मध्ये सम्पन्नस्य दूरवाणीसम्भाषणस्य अनन्तरं नेतन्याहुः चिन्ताधीनः आसीदिति पूर्वोक्तमाध्यमेन निगदितम्। 

 इराने आक्रमणं पुनरारम्भणीयमिति नेतन्याहोः मतम्। किन्तु शान्तिसन्धौ एव ट्रम्पस्य तात्पर्यम्। अस्वारस्य हेतुः एतदेवेति मन्यते। कुजवासरे इराने निश्चितमाक्रमणं खत्तरः,यू ए  ई, सौदी अरेबिया राष्ट्राणाम् अभ्यर्थनानुसारं स्थगीभूतमिति ट्रम्पेन उक्तमासीत्।

Thursday, May 21, 2026

 केरले मन्त्रिणां शासनीयविभागाः निश्चिताः। 

मुख्यमन्त्री वित्तमन्त्री च, गृहविभागः रमेशाय।

तिरुवञ्चूर् राधाकृष्णः सभापतिः। 

अनन्तपुरी> केरले यू डि एफ् संयुक्तदलस्य मन्त्रिमण्डले शासनीयविभागान् निश्चित्य राज्यपालस्य उद्घोषणं बहिरागतम्। मुख्यमन्त्री वि डि सतीशः वित्तं, नियमः, महानौकाश्रयः, सामान्यशासनम् इत्येतानां विभागानां कार्यभारं वक्ष्यति। वरिष्ठः कोण्ग्रस् नेता रमेश चेन्नित्तला गृहमन्त्री भवति। गुप्तान्वेषणविभागः अपि तस्यास्ति। के मुरलीधरः (कोण्ग्रस्) स्वास्थ्य-देवस्वविभागयोः मन्त्री अस्ति। 

  मुस्लींलीगस्य वरिष्ठनेता पि के कुञ्ञालिक्कुट्टी भवति उद्योगमन्त्री। एन् षंसुदीनः (मुस्लींलीगः) सामान्यशिक्षणस्य कार्यभारं वक्ष्यति। एवं मुख्यमन्त्रिणमतिरिच्य  आहत्य २० मन्त्रिणामपि विभागाः निश्चिताः।

कोण्ग्रस् दलस्य वरिष्ठनेता तिरुवञ्चूर् राधाकृष्णः  नूतनः सभापतिः भविष्यति। कोण्ग्रस् नेत्री षानिमोल् उस्मानः उपसभानाथा भविष्यति। शुक्रवासरे अस्ति एतयोः स्थानयोः निर्वाचनम्।

 केरलम्। 

सदस्यानां सत्यशपथम् अद्य। 


जि  सुधाकरः ह्रस्वकालसभापतिः।

अनन्तपुरी> १६ तम केरलविधानसभायाः सदस्याः गुरुवासरे सत्यशपथं करिष्यन्ति। शासनपक्षविभागे वरिष्ठतमः सामाजिकः जि  सुधाकरः ह्रस्वकालिकसभापतिरूपेण [Pro term Speaker] ह्यः लोकभवने राज्यपालस्य राजेन्द्र आर्लेकरस्य समक्षे प्रतिज्ञावाचनं कृतवान्। शुक्रवासरे सम्पद्यमानाः सभानाथनिर्वाचनपर्यन्तं प्रक्रमाः अल्पकालीयसभानाथस्य नेतृत्वे सम्पत्स्यन्ते। 

Wednesday, May 20, 2026

 नेय्मरः ब्रसीलस्य विश्वचषकपादकन्दुक्रीडासंघे।


रियो डि जनैरो> आशङ्का-आकांक्षादीनां विरामः। ब्रसीलराष्ट्रस्य विश्वचषकपादकन्दुकक्रीडासंघे विख्याः क्रीडकः नेय्मर् जूनियर् अन्तर्भूतः। लयणल् मेस्सी, क्रिस्ट्यानो रोणाल्डो इत्येताभ्यां क्रीडकाभ्यां सह नेय्मरः अपि क्रीडाङ्कणे दर्शनीयः भविष्यति। ब्रसीलस्य परिशीलकः कार्लो आञ्चलोट्टी नेय्मरम् अन्तर्भाव्य क्रीडादलं उदघोषयत्। 

  २०२३ तम वर्षस्यानन्तरं ब्रसीलस्य संघे आहतात् नेय्मरः न क्रीडितवान्। १२८ अन्ताराष्ट्रियस्पर्धाभ्यः सः ७९ लक्ष्यकन्दुकानि [goals] सम्प्राप्तवान्। ५९ लक्ष्यकन्दुकेभ्यः मार्गदर्शकश्च [assist] अभवत्। त्रिषु विश्वचषकेषु क्रीडितवान् सः १३ स्पर्धाभ्यः ८ लक्ष्यकन्दुकानि प्राप्तवान्।  चतुर्णां लक्ष्यकन्दुकानां मार्गभूतश्चाभवत्।

 अनाथशुनकेभ्यः 'दयावधम्' अनुमोद्य सर्वोच्चन्यायालयः


नवदिल्ली> वीथिषु अटनं कुर्वन्तः आक्रमणकारिणः विषबाधिताः शमनरहितव्याधियुक्ताः च अनाथशुनकाः दयावधाय अर्हाः इति भारतस्य  सर्वोच्चन्यायालयेन आदिष्टम्। ते मानवजीवनाय सुरक्षायै च भीषाकारिणः तर्हि निर्दिष्टप्रक्रमान् परिपाल्य नियमानुसारं तान् हन्तुं सर्वोच्चन्यायालयेन अनुज्ञा लब्धा। सर्वोच्चन्यायालयस्य भूतपूर्वान् आदेशान् विरुध्य समर्पिताः अभियाचिकाः निरस्य अस्ति अयं नूतनविधिः।

 पेट्रोलियेन्धनमूल्यं पुनरपि वर्धापितम्। 

कोच्ची> राष्ट्रे पेट्रोल्, डीसल् तैलेन्धनस्य मूल्यं पुनरपि वर्धापितम्। पञ्च दिनानामाभ्यन्तरे द्वितीयवारमेव मूल्यवर्धनम्। पेट्रोल् तैलस्य मूल्यं कोच्ची नगरे १०९. ७१ रूप्यकाणि, डीसलेन्धनस्य मूल्यं ९८. ६ रूप्यकाणि च भवन्ति। राष्टस्य भिन्नप्रदेशेषु ईषद्भेदाः वर्तन्ते।

Tuesday, May 19, 2026

 वि डि सतीशप्रशासनम् अभिषिक्तम्। 

वी डी सतीशः राज्यपालस्य पुरतः प्रतिज्ञावाचनं करोति।

कार्यविभागाः न विभक्ताः। 

वाग्दानेषु द्वे उद्घोषिते । प्रथममन्त्रिमण्डले जनप्रियनिर्णयाः।

अनन्तपुरी> कोण्ग्रस् नेतुः वि डि सतीशस्य नेतृत्वे यू डि एफ् सख्यस्य प्रशासनं प्रतिज्ञावाचनं कृत्वा पदमारूढवत्। सतीशेन सह २० मन्त्रिणः अपि प्रतिज्ञावाचनमकुर्वन्। ४० संवत्सरेभ्यः परं प्रथमतया एव सम्पूर्णमन्त्रिमण्डलस्य प्रतिज्ञावाचनम्। राज्यपालः राजेन्द्र आर्लेकरः प्रतिज्ञावाचनम् अकारयत्।  किन्तु सार्धदिवसस्य अनन्तरमपि कार्यविभागाः सम्पूर्णतया न विभक्ताः। राजनैतिकदलानाम् अन्तर्गृहेषु चर्चाः अनुवर्तन्ते। बुधवासरे लोकभवनात् कार्यविभागानां विज्ञप्तिः आगमिष्यतीति श्रूयते। 

  प्रतिज्ञानन्तरं सम्पन्ने प्रथमे मन्त्रिमण्डले यू डि एफ् सख्यस्य निर्वाचनवाग्दानेषु द्वे उद्घोषिते। सर्वकारीयबस् यानेषु महिलानां निश्शुल्कयात्रा जूण् १५तमदिनाङ्कादारभ्य प्रवृत्तिपथमागमिष्यति। विस्तृतसूचनाः परं भविष्यन्तीति वार्ताहरसम्मेलने मुख्यमन्त्रिणा वि डि सतीशेन प्रोक्तम्। वाग्दानान्तरं, वयोवृद्धजनानां योगक्षेमाय सविशेषं कार्यविभागं रूपीकर्तुं निर्णयः अभवत्। 

   तदतिरिच्य कतिपयानि उद्घोषणान्यपि सम्पन्नानि। 'आशा'प्रवर्तकानां वेतने त्रिसहस्ररूप्यकाणां वर्धनं प्रघोषितम्। तथा च अङ्कणवाटि सेविकाः, विद्यालयानां पाककर्मकराः, पूर्वविद्यालयाध्यापिकाः इत्येतेभ्यः सहस्ररूप्यकाणि अधिकतया लप्स्यन्ते।

 तिरुवनन्तपुरं-निसामुद्दीन् राजधानी एक्स्प्रेस् रेल् याने अग्निबाधा। 

प्राणहानिः नास्ति; उपस्कराः दग्धाः। 


नवदिल्ली> अनन्तपुरीतः निसामुद्दीन् प्रति सञ्चरत् राजधानी एक्स्प्रेस् रेल् याने अग्निबाधा। राजस्थाने कोट्टा प्रदेशे रविवासरस्य प्रत्युषसि ५. १५ वादने आसीत् दुर्घटना। कारणम् अव्यक्तं वर्तते। 

  यानस्य पृष्ठस्थे कक्षाद्वये आसीत् अग्निबाधा। वातानुकूलितकक्षायां वृत्ताः सर्वे यात्रिकाः सुरक्षितेन बहिर्नीताः। किन्तु भाण्डसम्भाराः दग्धाः अभवन्। घटनामधिकत्य रेल् यानमन्त्रालयेन अन्वेषणमुद्घोषितम्।

 नरेन्द्रमोदिने नोर्वेराष्ट्रस्य सर्वोच्चबहुमतिः।

नोर्वेराष्ट्रस्य परमोच्चपुरस्कारं मोदिवर्याय समर्पयति। 

ओ स्लो> नोर्वेराष्ट्रं संपश्यते भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने राष्ट्रस्य सर्वोच्चः नागरिकपुरस्कारः  संज्ञया 'Grand cross of the Royal Novegion order of Merit' समर्पितः। राष्ट्रस्य राजा हेराल्ड् पञ्चमः सोमवासरे पुरस्कारं समर्पितवान्। मोदिने लब्धा ३२ तमा अन्ताराष्ट्रीयबहुमतिः भवत्येषा। 

  ४३ वर्षेभ्यः परमासीत् कस्यचन भारतप्रधानमन्त्रिणः नोर्वे सन्दर्शनम्। नोर्वेराष्ट्रस्य प्रधानमन्त्री स्टूर् वर्यः विमाननिलयं प्राप्य मोदिनं स्वीकृतवान्। ततः व्यापारः, निक्षेपः, कार्बणरहितोर्जः, समुद्रसम्पत् इत्यादिमण्डलेषु चर्चा विधत्ता। कुजवासरे सम्पद्यमाने भारत-नोर्वे उच्चशिखरे उभावपि राष्ट्रनेतारौ भागं करिष्यतः।

Monday, May 18, 2026

 केरलम्। 

यू डि एफ्  संयुक्तदल प्रशासनम् अद्य प्रतिज्ञां करोति।

+ सम्पूर्णमन्त्रिमण्डलस्य सत्यप्रतिज्ञा। 

+ कार्यक्रमः अनन्तपुरी 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे। 

+इतरे कोण्ग्रस् मुख्यमन्त्रिणः राष्ट्रियनेतारश्च भागं करिष्यन्ति। 

वि डि सतीशः ह्यः पत्रकारमेलनं करोति।

अनन्तपुरी> केरले कोण्ग्रस् दलस्य नेतृत्वे वर्तमानं 'ऐक्य जनाधिपत्यमुन्नणि' [UDF] नामकं राजनैतिकदलसख्यं कोण्ग्रस् नेतुः वि डि सतीशस्य  नेतृत्वे सम्पूर्णं मन्त्रिमण्डलं सोमवासरे प्रतिज्ञावाचनं करोति। प्रभाते दशवादने 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे कार्यक्रमः विधास्यति। राज्यपालः विश्वनाथ आर्लेकरः प्रतिज्ञावाचनं कारयिष्यति।  मुख्यमन्त्रिरूपेण वि डि सतीशः चितः आसीत्। तेन सह २० मन्त्रिणः अपि अद्य प्रतिज्ञां करिष्यन्ति। 

  ४० संवत्सरेभ्यः परमेव सम्पूर्णमन्त्रिमण्डलं संभूय प्रतिज्ञावाचनं करेति। द्वे महिले मन्त्रिमण्डले अन्तर्भवतः।   मन्त्रिसभायाम् भूरिशः युवकाः सन्ति।

  कोण्ग्रस् राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे, राहुल गान्धी, कर्णाटकम्, तेलुङ्कानम् इत्यादीनां कोण्ग्रस्प्रशासनराज्यानां मुख्यमन्त्रिणः इतरे राजनैतिकनेतारश्च कार्यक्रमे भागं करिष्यन्तीति वि डि सतीशः पत्रकारमेलने अवदत्।

Sunday, May 17, 2026

 होर्मुस्-जलान्तरालं तीर्त्वा भारतस्य एकादशतमा पण्यनौका; २०,००० मीट्रीक्-टण् परिमितम् एल्.पी.जी. वायुं नीत्वा 'सिमी' गुजरात्ततटं प्राप्रवती।

​नवदेहली> होर्मुस्-जलान्तराले कृतप्रतिरोधानन्तरं तन्मार्गेण विनाक्लेशं तीर्त्वा एतावत्पर्यन्तं भारतस्य एकादश पण्यनौकाः  गुजरातराज्यं प्राप्तवत्यः। २०,००० मेट्रिक्-टण् परिमितं द्रवीकृत-पैट्रोलियम्-वायुं (LPG) नीत्वा 'सिमी' नामिका पण्यनौका रविवासरे गुजरात्तस्य कण्डलास्थितं 'दीनदयाल' पत्तनं संप्राप्ता।

​इयं नौका कत्तर् देशस्य 'रास् लफान्' टर्मिनल्-तः प्रस्थिता आसीत्। मेय् मासस्य १३ दिनाङ्के एषा होर्मुस्-जलान्तरालं तीर्णवती अपि मेय् १७ दिनाङ्के एव गुजरात्तराज्यं प्राप्तवती। भारतस्य पाकवायु-वितरणे (LPG) वर्तमानस्य न्यूनतायाः निवारणाय एतस्मिन् नौकायां स्थितायां २०,००० मेट्रिक्-टण् परिमितेन पाकवायुना महती साहाय्यं भविष्यति।

 'नीट्' प्रश्नपत्रपरिस्रवणं

द्वौ शिक्षकौ अभिव्याप्य नव निगृहीताः। 

नवदिल्ली‌> वैद्यशास्त्रे स्नातकबिरुदसम्पादनाय विधत्तायाः प्रवेशनपरीक्षायाः (NEET UG) प्रश्नपत्राणि परिस्रवितानि इत्यस्मिन् प्रकरणे द्वौ कलालयशिक्षकौ सि बी ऐ संस्थया निगृहीतौ। आहत्य  नव जनाः अस्मिन् प्रकरणे निगृहीताः। 

 पूने मध्ये जीवशास्त्रविषये  (Biology) प्राचार्या मनीषा गुरुनाथ मन्थारे नामिका शनिवासरे निगृहीता। नीट् परीक्षासंयोजकसमित्यां NTA संस्थया नियुक्ता विषयकुशला (subject expert) आसीदेषा। लात्तूर् प्रदेशात्  पी वी कुल्कर्णी इत्येषः रसतन्त्रप्राचार्यः गतदिने निगृहीतः आसीत्। एषोSपि परीक्षसमित्यां विषयप्रवीणः आसीत्। एतौ द्वौ प्राचार्यौ छात्रेभ्यः परिशीलनं प्रत्यक्षतया परोक्षतया वा दत्तवन्तौ इति सी बी ऐ संस्थया प्रत्यभिज्ञातम्।

 वर्षाकालः आन्टमानं सम्प्राप्तः।

अनन्तपुरी> दक्षिण-पश्चिमवर्षाकालः नाम्ना 'मण्सूण् वर्षाकालः' आन्तमान् निकोबार् द्वीपसमूहं सम्प्राप इति ऋतुविज्ञानीयविभागेन निगदितम्। २६ तमे दिनाङ्के केरलं सम्प्राप्तुं अनुयुक्ता अवस्था विद्यते। परन्तु ग्रीष्मकालीनवर्षः कतिपयदिनान्यपि अनुवर्तिष्यते।

 नेतर्लान्टस्य राज्ञा सह नरेन्द्रमोदिनः मेलनम्। 

प्रधानमन्त्रिणः नेतर्लान्डराजेन राज्ञ्या च सह मेलनम्। 

हेग्> नेतर्लान्टराष्ट्रं पर्यटन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी तत्रत्यः राजा विलेम् अलक्सान्डरः, राज्ञी माक्सिमा इत्येताभ्यां सह मिलितवान्। उभयोरपि राष्ट्रयोः हितकराः विषयाः चर्चिताः। 

  यू ए ई सन्दर्शनानन्तरं  शुक्रवासरे आसीत् मोदिनः नेतर्लान्टप्राप्तिः। व्यापारः, साङ्केतिकविद्या, प्रतिरोधः, पुनरुपयोग्यमाणः ऊर्जः इत्येतेषु मण्डलेषु परस्परसहयोगं प्रबलीकर्तुमुद्दिश्य एव प्रधानमन्त्रिणः सन्दर्शनम्। 

  राज्ञा सह मेलनात्पूर्वं नेतर्लान्टस्थं भारतीयसमाजं मोदी अभिसम्बोधितवान्। भारतस्य उत्कर्षोपेतं परस्परसहवर्तित्वधिकृत्य मोदी तान्  प्राबोधयत्। नेतर्लान्डीयक्रिकट् संघे अन्तर्भूतान्  भारतीयवंशजान् मोदिवर्यः नामभिः परामृष्टवान्।



Saturday, May 16, 2026

 मणिप्पुरे संघर्षः अनुवर्तते।

त्रयः धर्मनेतारः हताः, ३८ जनाः बद्धाः। 

इम्फालं> मणिप्पुरराज्ये कुकी-नागविभागयोः संघर्षः तीव्रतरा वर्तते। गते बुधवासरे काङ् पोक् पि जनपदे त्रयः क्रैस्तवधर्मनेतारः अक्रमिणां भुषुण्डिप्रयोगेण हताः। तदनन्तरं राज्ये कुकी-नागविभागयोः संघर्षः तीव्रतरः अभवत्। उभावपि परस्परं ग्रामीणान् बन्धनस्थान् अकुरुताम्। उभयोरपि विभागयोः उपचत्वारिंशत् जनाः बन्धनस्थाः जाताः। अनिष्टघटनाः अपाकर्तुं केन्द्र - राज्यसुरक्षासेनाः विन्यस्ता‌ः।

 एस् ऐ आर् - तृतीयचरणं २० तमादारभ्य। 

नवदिल्ली > समग्र मतदायकावलीसंशोधनस्य  [SIR] तृतीयचरणं मेय्मासस्य २० तमे दिनाङ्के आरप्स्यते इति केन्द्र निर्वाचनायोगेन निगदितम्। १६ राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च अस्मिन् चरणे एस् ऐ आर् विधास्यते।

  एतेभ्यः ८ राज्येषु दिल्ल्यां च २० तम दिनाङ्कतः अधिकारिणां परिशीलनकार्यक्रमाः इतराणि सज्जीकरणानि चारभ्यन्ते। ३७. ७३ कोटि संख्याकाः मतदानिनः एषु राज्येषु केन्द्रप्रशासनप्रदेशेषु च वर्तन्ते। 

  आन्ध्रप्रदेशः, अरुणाचलप्रदेश‌ः, हरियानं, झार्खण्डः, कर्णाटकं, महाराष्ट्रं, मणिपुरं, मेघालयः, मिसोरामः, नागालान्डः, ओडीशा, पञ्चाबः, सिक्किमः, त्रिपुरं, तेलङ्कानम्, उत्तरखण्डः, दिल्ली, चण्डीगढः, दाद्री नगरं हवेलि-दामन्दियू इत्येतेषु राज्येषु केन्द्रप्रशासनप्रदेशेषु च SIR प्रक्रियायाः तृतीयचरणं सम्पत्स्यते।

 शबरिगिरिः - वादप्रतिवादः पूर्णः।

शबरिगिरि मन्दिरम्।

नवदिल्ली>  केरले शबरिगिरिः धर्मशास्तृमन्दिरे युवतीप्रवेशं सम्बन्धेषु अभियाचनेषु सर्वोच्चन्यायालये वादप्रतिवादः पूर्णं विधाय विध्युद्घोषणाय कल्पितः। मुख्यन्यायाधिपस्य सूर्यकान्तस्य अध्यक्षत्वे नवाङ्गोपेतेन नीतिपीठेन १६ दिनानि दीर्घिताः वादप्रतिवादाः श्रुताः। अभियाचिकाकाराणां विशदानि वादमुखानि विलिख्य समर्पितुं मेय् २९ दिनाङ्कपर्यन्तं कालः अनुज्ञितः। 

  वयोभेदं विना शबरिगिरिमन्दिरे महिलाभ्यः प्रवेशः दातव्यः इति २०१८ तमे वर्षे सर्वोच्चन्यायालयस्य पञ्चाङगोपेतपीठेन विहितमासीत्। एतं विरुध्य समर्पिताः याचिकाः पूर्णनीतिपीठं प्रति समर्पिताः। तस्मिन् वादप्रतिवाद एव पूर्तीकृतः। जूलैमासात्परं विधिः भविष्यतीति मन्यते।

Friday, May 15, 2026

 केरलम्। 

पिणरायि विजयः विपक्षनेता। 


अनन्तपुरी> १६ तम केरल विधानसभा याद. विपक्षनेतृरूपेण भूतपूर्वः मुख्यमन्त्री सी पी एम् दलस्य वरिष्ठनेता च पिणरायि विजयः निश्चितः।    सी पी एम् दलस्य राज्यसमितिमेलनाभ्यन्तरे  आसीत् वि डि सतीशं मुख्यमन्त्रिरूपेण निश्चितं विज्ञापनं  बहिरागतम्। अचिरेणैव दलस्य सचिवप्रमुखस्य एम् ए बेबिवर्यस्य नेतृत्वे राज्यसचिवमण्डलं मिलित्वा पिणरायि  विजयं दलस्य सभानेतृरूपेण निश्चितः। ततः अयं  निर्णयः राज्यसचिवः एम् वि गोविन्देन संस्थानसमित्यां प्रस्तुतवान्, समित्या अङ्गीकृतश्च।

 भारतध्वजोपेतां महानौकां प्रति आक्रमणम्।

 नवदिल्ली> भारतध्वजोपेता पण्यमहानौका  ओमानीयसमुद्रतटसमीपे आक्रमणाधीना अभवदिति  विदेशकार्यमन्त्रालयेन दृढीकृतम्। बुधवासरे आसीदाक्रमणम्। आक्रमणकारी कः इति न स्पष्टीकृतम्। महानौकायाः सर्वे कार्यकारिणः सुरक्षिताः भवन्ति। 

  आक्रमणं भारतस्य विदेशकार्यमन्त्रालयेन अपलपितम्। महानौकास्थान् भारतीयकर्मकरान् रक्षां कृतवते ओमानप्रशासनाय भारतं कृतज्ञतां व्याहरोत्।

 केरलम्। 

यू डि एफ् सर्वकारस्य प्रतिज्ञावाचनं सोमवासरे।

सम्पूर्णमन्त्रिमण्डलस्य  प्रतिज्ञा भवेत्। 

मन्त्रिमण्डलरूपीकरणाय अर्थनापत्रं समर्पयन् वि डि सतीशः। समीपे कोण्ग्रस् नेतारौ सण्णि जोसफः, दीपा दास् मुन्षी च। 

अनन्तपुरी> केरलस्य २४ तममुख्यमन्त्रिरूपेण कोण्ग्रस् दलस्य नेता 'वडश्शेरि दामोदरन् सतीशः' -  वि डि सतीशः - सोमवासरे प्रतिज्ञावाचनं करिष्यति। विधानसभामन्दिरस्य समीपे 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे प्रभाते दशवादने प्रतिज्ञाकार्यक्रमः भविष्यति। मुख्यमन्त्रिणा सह  सम्पूर्णमन्त्रिमण्डलस्य प्रतिज्ञां विधातुं प्रक्रमाः आरब्धाः। मन्त्रिमण्डले २०  मन्त्रिणः भविष्यन्ति। 

  गुरुवासरे विधानसभापक्षनेतृरूपेण चितः वि डि सतीशः ततःपरं कोण्ग्रस् नेतृभिः सह लोकभवनं प्राप्य मन्त्रिमण्डलरूपीकरणाय अभ्यर्थनापत्रं राज्यपालाय समार्पयत्। सतीशस्य मन्त्रिसभारूपीकरणवादं राज्यपालः अङ्गीकृत्य आमन्त्रितवान् च।

Thursday, May 14, 2026

 वि डि सतीशः केरलस्य मुख्यमन्त्री।

    नवदिल्ली> वि डि सतीशः केरलस्य नूतननायकः भविष्यति। बहुदिनानि यावत् दीर्घिकृतायाः अनिश्चितावस्थायाः तथा नाटकीय चर्चायाः अनन्तरम् अधिकारयुद्धस्य पर्यवसानरूपेण कोण्ग्रस् हैकमाण्डेन वि डि सतीश् महोदयः मुख्यमन्त्रीरूपेण  विज्ञप्तः। अद्य मध्याह्ने द्वादशवादने देशीय कोण्ग्रस् संघटनस्य (ए ऐ सि सि )आस्थाने सम्पन्ने वार्तामेलने दीपा दास् मुन्षि महोदयया एव सतीश् वर्यस्य नाम ख्यापितम्॥

 डोनाल्ड ट्रम्पः चीने; ट्रम्प-षि मेलनम् अद्य। 

डोनाल्ड ट्रम्पाय अनुगामिसंघाय बीजिंगे लब्धं स्वीकरणम्। 

बीजिंग> आयातकरप्रतिसन्धेः इरानयुद्धस्य च मध्ये यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः चीनस्य राष्ट्रपतिना षि जिन् पिङ् वर्येण सह मेलितुं बुधवासरे चीनराजधानीं - बीजिंग् - प्राप्तवान्। यू एस् प्रशासने प्रमुखाः, 'टेस्ला' संस्थायाः अध्यक्षः इलोण मस्कः, 'आप्पिल्' संस्थायाः अध्यक्षः टिं कुक्कः, 'एन् विडिया' इत्यस्य अधिकारी जेन्सण् ह्वाङ् इत्यादयः ट्रम्पम् अनुगच्छन्ति। ट्रम्प-षि मेलनम् अद्य भविष्यति।


  इरानयुद्धं, परस्परव्यापारयुद्धं, तैवानं इत्येते मुख्यचर्चाविषयाः भविष्यन्ति। बीजिंगे 'कापिटल्' अन्ताराष्ट्रियविमाननिलये ट्रम्पाय अनुगामिसंघाय च रक्तवर्णास्तरणेन हृद्यं स्वीकरणं लब्धम्। चीनस्य उपराष्ट्रपतिः हान् चेङ् इत्येषः तान् विशेषातिथीन्   स्वीकर्तुं विमाननिलयं प्राप्तवान्। इतःपूर्वं २०१७ तमे वर्षे आसीत् कस्यचन यू एस् राष्ट्रपतेः चीनसन्दर्शनम्।

Wednesday, May 13, 2026

 केरलम्। 

तटित्प्रपातेन ४ युवकाः मृताः। 

मलप्पुरं> मलप्पुरं जनपदस्थे मङ्कटप्रदेशे वेल्लिला इत्यत्र पर्वतोपरिस्थे 'कुरङ्ङन् चोला' दर्शनस्थाने [view point] चत्वारः युवकाः तटित्प्रपातेन मृताः। त्रयः कठिनतया आहताः। १८ - २० वयस्काः भवन्ति मृत्युमुपगताः। सर्वेSपि दुर्घटनास्थानस्य समीपप्रदेशवासिनः सन्ति।  कुजवासरे सायं पञ्चवादने प्रकृतिदर्शनार्थं सर्वे सुहृदः यदा  दर्शनस्थानं प्राप्ताः तदा आसीदियं दुर्घटना।

 प्रश्नपत्रपरिस्रवणं - 'नीट् यू जी' परीक्षा निरस्ता। 

पुनःपरीक्षा विधास्यते। 

नवदिल्ली> वैद्यशास्त्रे स्नातकबिरुदसम्पादनाय विधत्तायाः प्रवेशनपरीक्षायाः [NEET UG] प्रश्नपत्राणि परिस्रवितानि इति प्रमाणीकृृतस्य आधारे मेय् मासे तृतीयदिनाङ्के विधत्ता परीक्षा निरस्ता। पुनःपरीक्षा अचिरेण विधास्यते, दिनाङ्कादिकं परं विज्ञापयिष्यतीति नीट् परीक्षाविधानसंस्थया एन् टि ए [National Testing Agency] इत्यनया प्रस्तुतम्। 

  प्रश्नपत्रपरिस्रवणम् अधिकृत्य अन्वेषणं सि बी ऐ संस्थया स्वीकृतम्। परिस्रवणस्य सूत्रधारः इति मन्यमानः राजस्थानीयः  राकेश् कुमारः अन्वेषणसंघेन निगृहीतः। एनमतिरिच्य पञ्च जनाः अपि निगृहीताः। एषु चत्वारः नीट् परीक्षायै सज्जाः छात्राः इति सूच्यते।

Tuesday, May 12, 2026

 सोमनाथमन्दिरे अमृतमहोत्सवः सम्पन्नः। 

प्रधानमन्त्रिणा महापूजा कृता।

सोमनाथमन्दिरे प्रधानमन्त्रिणे नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

सोमनाथः> गुजरातराज्ये वर्तमाने प्रसिद्धे सोमनाथमन्दिरे अमृतमहोत्सवः सम्पन्नः। गिरि सोमनाथजनपदस्थं मन्दिरं पुनर्निर्माणानन्तरं उद्घाटितस्य ७५ तमवार्षिकोत्सवस्य अंशतया आसीत् महोत्सवः आयोजितः। 

 गतदिने प्रधानमन्त्री नरेन्द्र मोदी मन्दिरं सम्प्राप्य महापूजां व्यदधात्। व्योमसेनायाः 'सूर्यकिरण एय्रो बाटिक्' संघस्य नेतृत्वे  आकाशदृश्यानि [Air show] विधत्तानि। 

  मुहम्मद गस्नी इत्यादीनां वैदेशिकानाम् आक्रमणैः विनाशप्रायं मन्दिरं पुनर्निर्मीय १९५१ तमे वर्षे पुनःप्रतिष्ठां विधत्तस्य ७५ तमवर्षीयः उत्सव एव अमृतमहोत्सवरूपेण आयोजितः।

 पश्चिमेष्यासंघर्षः - शान्तिः विदूरे।

इरानस्य शान्तिनिर्देशाः ट्रम्पेन निरस्ताः। 

वाषिङ्टणः> फेब्रुवरि २८ तमे दिनाङ्के आरब्धस्य युद्धस्य शाश्वतान्त्यं स्थापयितुं इरानेन समर्पिताः निर्देशाः "पूर्णतया अस्वीकार्याः" इति ट्रम्पेन निरस्ताः। यू एसेन समर्पितस्य निर्देशस्य प्रत्युत्तररूपेण आसन् इरानस्य निर्देशाः। अनेन पश्चिमेष्यासंघर्षे शान्तिः विदूरे वर्तते। 

  इरानस्य शान्तिनिर्देशाः के इति ट्रम्पेन न स्पष्टीकृताः। होर्मुसस्य पुनरुद्घाटने आशङ्का वर्धिता। युद्धम् इतोSपि दृढतरं भवेदिति आशङ्का अधिका जाता। असंस्कृतस्य तैलेन्धनस्य मूल्यं पुनरपि उदगच्छत्।

 यूरेनियं स्थानान्तरणं कर्तुं सन्नद्धा:। अणुनिलयानि न भञ्जयिष्यामः। यु एस् निर्देशेषु इरानस्य नूतननिर्णयः।

   टेह्रान्> पश्चिमेष्यायाम् अनुवर्तमानस्य युद्धस्य पर्यवसानाय समायोजितासु चर्चासु स्वाधीनं सम्पुष्टीकृतं युरेनिय-संग्रहं अन्यराष्ट्रं प्रति स्थानान्तरं कर्तुम् इरानेन सम्मतिः प्रदत्ता। अमेरिक्केन प्रदत्तानां शान्तिनिर्देशानां प्रतिकरणरूपेण एव इरानेन अयं नयः स्वीकृतः इति 'वाल्स्ट्रीट् जेर्नल्' इत्यस्य प्रतिवेदनमस्ति।

Monday, May 11, 2026

 असमे हिमन्तप्रशासनस्य शपथं श्वः। 

नवदिल्ली> असमराज्ये हिमन्त बिश्वशर्मणः नेतृत्वे नूतनः एन् डि ए सर्वकारः मङ्गलवासरे शपथवाचनं करिष्यति। तृतीयवारमेव राज्ये एन् डि ए सर्वकारः अधिकारं प्राप्नोति। हिमन्तस्य मुख्यमन्त्रिपदप्राप्तिः द्वीतीयवारं च भवति। 

  श्वस्तनकार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी, अमित शाहः, राज नाथसिंहः, इत्यादयः केन्द्रमन्त्रिणश्च भागं करिष्यन्ति।

 चलच्चित्ररीत्या विजयस्य स्थानारोहणम्। 

नूतने आदेशत्रये प्रतिज्ञावेदिकायामेव हस्ताक्षरीकरणम्।

विजयः राज्यपालस्य आर्लेकरस्य सान्निध्ये शपथवाचनं करोति।

चेन्नै> तमिलनाटे सर्वथा संशुद्धशासनस्य नवयुगप्रतीक्षां ददन् 'तमिष़क वेट्रि कष़कं' - टि वि के - दलस्य स्थापकनेता सि जोसफ् विजय् नामकः चलच्चित्राभिनेता विजय् - विजयः- राज्यस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। तमिलनाटस्य नूतनं जननायकं आराधकाः अत्यन्तं विकारनिर्भरारावैः स्वीकृतवन्तः। 

  नेहरु क्रीडाङ्कणे सम्पन्ने स्थानारोहणकार्क्रमे राज्यपालः राजेन्द्र आर्लेकरः नूतनमुख्यमन्त्रिणे शपथवाक्यं वाचयति स्म। दृष्टिवाचनस्य स्थाने हृदिस्थीकृतं शपथवाक्यानि अङ्गविक्षेपैः सह विजयः अनुवाचनमकरोत्। विजयमतिरिच्य टि वी के दलस्य धुरन्धराः एन् आनन्दः, आधव् अर्जुनः, सी टी आर् निर्मलकुमारः, के ए सेङ्कोट्टय्यः, के जी अरुणराजः, पि वेङ्कट्टरमणः, ए राज मोहनः, टि के प्रभुः, एस् कीर्तना इत्येते नव अपि मन्त्रिरूपेण प्रतिज्ञामकुर्वन्। कार्यक्रमे कोण्ग्रस् नेता राहुलगान्धिनम् अभिव्याप्य बहवः राजनैतिकदलनेतारः भागं कृतवन्तः। 

   नूतनेषु त्रिषु आदेशेषु शपथवेदिकायामेव विजयः हस्ताक्षरमकरोत्। २०० यूणिट् मितः विद्युदुपभोगः निश्शुल्कः भविष्यति। महिलासुरक्षायै 'सिङ्कप्पेण्' नामिका दौत्यसेना। उन्मादकवस्तुव्यापननिरोधाय आराज्यं सविशेषदत्यसंघरूपीकरणम् इत्येते विजयप्रशासनस्य नवीनाः त्रयः आदेशाः।

Sunday, May 10, 2026

 केरलमुख्यमन्त्री

अनिश्चितत्वम् अनुवर्तते। 

[वामतः] मुख्यमन्त्रिपदकांक्षिणः रमेश् चेन्नित्तला, वि डी सतीशः, के सि वेणुगोपालः च। 

कोच्ची> निर्वाचनपरिणामम् उद्घोष्य सप्त दिनानि अतीतान्यपि मुख्यमन्त्री कः इति विषये अनिश्चितत्वम् अनुवर्तते। कोण्ग्रसदलात् ७८ स्थानाशिनः विजिताः सन्ति। तेषु यू डि एफ् सख्यस्य अध्यक्षः तथा विपक्षनेता च वि डी सतीशः, वरिष्ठनेता तथा  भूतपूर्वः विपक्षनेता रमेश् चेन्नित्तला च विधानसभासदस्यौ मुख्यमन्त्रिपदकामिनौ च स्तः। एताभ्यां सह  ए ऐ सि सि इत्यस्य राजनैतिककार्यसचिवप्रमुखः वर्तमानीनः संसद्सदस्यः के सी वेणुगोपालश्च मुख्यमन्त्रिस्थानम् अभिलषति, तदर्थं गूढप्रक्रमान् आचरति च। एवं त्रयः 'भैमीकामुकाः' केरलस्य मुख्यमन्त्रिपदनिर्णयं सङ्कीर्णं कुर्वन्ति। 

  गुरुवासरे देशीय कोण्ग्रस् संघटनस्य [ए ऐ सि सि] निरीक्षकाः केरलमागत्य सर्वान् कोण्ग्रससदस्यान् पृथक् पृथक् सम्मिल्य तेषामभिमतं विलिख्य  यू डि एफ् पक्षस्य दलनेतृजनान् इतरान् वरिष्ठनेतॄः च अभिमुखीकृत्य तेषां मनोपस्थितिं च सम्पादितवन्तः। तथापि निर्णयाय क्लेशे जाते विषयः 'हैकामान्ड्' स्तराय समर्पितः। ततः त्रीनपि स्थानमोहिनः दिल्लीमाहूय चर्चा कृता अपि निर्णयः नाभवत्। राहुलगान्धि-मल्लिकार्जुनखार्गेवर्ययोः निर्णयाय समर्पितमिदानीम् एतद्विषयः। दिनद्वयाभ्यन्तरे मुख्यमन्त्रिपदकलहाय परिहारः भवेदिति प्रतीक्षा वर्तते। एतदाभ्यन्तरे पूर्वोक्त'भैमीकामुकानाम्' अनुकूलिभिः केरले सर्वत्र दिल्ल्यां च एतेषां कृते विज्ञप्तिपत्रप्रचाराः सामाजिकमाध्यमद्वारा प्रस्तावाःआरब्धाः। तस्मिन् प्रकरणे देशीयनेतृत्वं अतृप्तिं प्रकटयामास च।

 लेफ्टिनेंट जनरल् राजसुब्रह्मणिः 

संयुक्तसेनाधिकारी। 

नियुक्तः संयुक्तसेनाधिपः राज सुब्रह्मणिः। 

नवदिल्ली> स्थलसेनायाः भूतपूर्वः उपाधिकारी तथा वर्तमानीनः राष्ट्रिय सुरक्षासमित्याः सैनिकोपदेष्टा च लेफ्टिनेंट जनरल् पदीयः एन् एस् राजसुब्रह्मणिः नूतनः संयुक्तसेनाधिकारिरूपेण केन्द्रप्रशासनेन नियुक्तः। सैनिककार्यमन्त्रालयस्य सचिवकार्यमपि तेन वक्ष्यति। 

  वर्तमानीनः संयुक्तसेनाधिकारी अनिल चौहानः अस्मिन् मासे ३० तमे दिनाङ्के निवर्त्तिष्यते। तत्स्थाने अस्ति राजसुब्रह्मणेः नियुक्तिः। 

  नौसेनायाः अधिकारिरूपेण वैस् अड्मिरल् पदीयः कृष्ण स्वामिनाथः नियुक्तः। सेवायाः निवृत्तमानस्य अड्मिरल् दिनेश् कुमार त्रिपाठेः स्थाने अस्ति अस्य नियुक्तिः।

 विजयस्य प्रतिज्ञावाचनम् अद्य। 

१२० सदस्यानां सहयोगः दृढीकृतः। 

चेन्नई> तमिलनाटे इदंप्रथमतया डि एम् के, ए ऐ ए डि एम् के इतरप्रशासनम् अधिकारपदं प्राप्नोति। आराधकैः 'इलय दलपति' [कनिष्ठः सेनानायकः] इति प्रकीर्त्यमानः  चलच्चित्रनटः विजय् इत्यनेन रूपीकृतस्य टि वी के नामकस्य राजनैतिकदलस्य नेतृत्वे रविवासरे प्रभाते दशवादने शपथवाचनं करोति। विजयः मुख्यमन्त्री भविष्यति। तेन सह ९ मन्त्रिणः अपि प्रतिज्ञावाचनं करिष्यन्तीति सूच्यते। चेन्नै जवाहर लाल नेह्रु अन्ताराष्ट्रिय क्रीडाङ्कणे अस्ति कार्यक्रमः।

Saturday, May 9, 2026

 कालादग्रे सञ्चारी, अपूर्वव्यक्तिप्रभावशाली अशोकन् पुरनाट्टुकर महोदयः।

​भारतमुद्रापुरस्कारसमारोहे अशोकन् पुरनाट्टुकर महाभागस्य अनुस्मरणभाषणं कुर्वन् केरलसंस्कृतअकादमीसचिवः गुरुवायूपुर-देवस्वस्य- पूर्वाध्यक्षश्च डॉ. वी. के. विजयन् महोदयः उक्तवान्। प्रौद्योगिकविद्यायाः व्यापकरूपेण प्रयोगात् पूर्वमेव संस्कृतमाध्यमक्षेत्रे अशोकन् महोदयेन बहवः प्रयोगाः कृताः।

अस्मिन् संवत्सरस्य '​भारतमुद्रापुरस्कारः सुप्रसिद्धया कथाकारिण्या अनुवादकुशलिन्या रमा मेनन् महोदयया डॉ. एम. वी. नटेशन् वर्याय समर्पितः। पुरस्कारे ११,१११ रूप्यकाणि, प्रशस्तिपत्रं, फलकं च अन्तर्भूतम् अस्ति।

​माडम्प् कुञ्ञुकुट्टन् महोदयस्य 'महाप्रस्थानम्' इति कथाग्रन्थस्य संस्कृतानुवादग्रन्थः के. अम्बिकायै प्रदाय रमा मेनन् विमोचनं कृतवती। डॉ. एस्. एन्. महेष् बाबु पुरस्कारजेतारं सदसि परिचायितवान्। सी. मनोजः, रमेशनम्बिशः इत्यादयः शुभाशंसाः अर्पितवन्तः।

​के. रामदास महोदयः 'महाप्रस्थानम्' इति कृतिं सदस्यान् परिचायितवान्। पी. के. राजन् मास्टर् महोदयस्य अध्यक्षतायां प्रवृत्ते अस्मिन् योगे एन्. राजगोपालः स्वागतभाषणं कृतवान्, लिबि पुरनाट्टुकर महोदयः धन्यवादं व्याहृतवान् च।

 सुवेन्दु अधिकारिणः प्रतिज्ञावाचनम् अद्य। 


कोल्कोत्ता> पश्चिमवंगे भाजपादलस्य प्रथममुख्यमन्त्रिरूपेण सुवेन्दु अधिकारी शनिवासरे स्व प्रतिज्ञावाचनं करिष्यति। कोल्कोत्तायां 'ब्रिगेड्' क्रीडाङ्कणे प्रभाते दशवादने आयोज्यमाने कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रगृहमन्त्री अमित शाहः इत्यादयः भागं करिष्यन्ति। अतीतविधानसभायां विपक्षनेता आसीत् सुवेन्दु अधिकारी।

 पश्चिमेष्या पुनः प्रक्षुब्धा।

होर्मुसे यू एस्-इरानयोः प्रतिद्वन्द्वः। 

टेहरानं> प्रशान्तिसन्धेः साध्यतायाम् आशङ्कां जनयन् होर्मुस् समुद्रसन्धौ पुनरपि यू एस्-इरानयोः प्रतिद्वन्द्वः। समुद्रधुन्यां वर्तमानाः स्वकीयमहानौकाः प्रति, इरानस्य समुद्रतीरेषु च यू एसेन व्योमाक्रमणं विधत्तमिति इरानेन आरोपितम्। स्वकीयां पण्यमहानौकां प्रति विधत्ते आक्रमणे १० नाविकाः व्रणिताः इति इरानेन निगदितम्।

  किन्तु स्वकीयमहानौकां विरुध्य इरानेन विधत्तस्य  आक्रमणस्य प्रतिक्रिया एव जाता इति यू एसेन च प्रतिभाषितम्।

Friday, May 8, 2026

 विश्वसंस्कृत प्रतिष्ठानस्य राज्यस्तरीयं सम्मेलनं ९, १० दिनाङ्कयोः। 

काञ्ञङ्ङाट्> संस्कृतभारत्याः केरलप्रान्तीयांशः नामतः विश्वसंस्कृतप्रतिष्ठानम् इत्यस्य राज्यस्तरीयं सम्मेलनं मेय् ९, १० दिनाङ्कद्वये कासरगोड् जनपदे  काञ्ञङ्ङाट् प्रदेशस्थे चिन्मय विद्यालये सम्पत्स्यते। 

 ९ तमे दिनाङ्के अपराह्ने द्विवादने महाकवेः पि कुञ्ञिरामन् नायर् वर्यस्य जन्मगृहात् सम्मेलननगरीं प्रति दीपशिखाप्रयाणं विधास्यति। चतुर्वादने सम्पद्यमानं संस्कृतसंगमं राज्यसभासदस्यः सि सदानन्दः उद्घाटयिष्यति। प्रतिष्ठानस्य राज्याध्यक्षः डो पि के शङ्करनारायणः अध्यक्षो भविष्यति। ग्रन्थप्रकाशनं कानायि कुञ्ञिरामः सि सदानन्दवर्यः च मिलित्वा निर्वक्ष्यतः। 

 दशमदिनाङ्के सम्पद्यमाने प्रतिनिधिसम्मेलने २०० प्रतिनिधयः भागं करिष्यन्ति। पत्रकारसम्मेलने संघाटकसमित्याः अध्यक्षः के दामोदरः, कर्मनिरताध्यक्षः [working president] डो के सि के राजा, कार्यनिर्वाहकप्रमुखौ सि पी सुरेष् बाबुः, एं माधवः, सहकार्यनिर्वाहकः के अरुण कुमारः इत्येते भागं कृतवन्तः।

Latestnews

 वंगविधानसभा राज्यपालेन भग्ना। 

ममतायाः त्यागपत्रसमर्पणवैमुख्यं विफलमभवत्। 

कोल्कोत्ता> विधानसभानिर्वाचने पराजिता अपि मुख्यमन्त्रिपदं ममता बैनर्जी वर्या न परित्यक्तवती इत्यतः शासनसंविधानस्य अधिकारम् उपयुज्य पश्चिमवंगस्य राज्यपालः आर् एन् रविमहोदयः सभां भग्नीकृत्य उद्घोषणं बहिर्नीतवान्। 

  स्वस्य दलस्य च पराजयकारणं निर्वाचनायोगस्य कूटनीतिवशात् इत्यारोप्य ममता स्थानत्यागाय न सन्नद्धा आसीत्। मेय् सप्तमदिनाङ्कः ममताप्रशासनस्य अन्तिमदिनमासीत्। 

  अत्रान्तरे, भा ज पा सर्वकारस्य शपथकार्यक्रमः  शनिवासरे सम्पत्स्यते। सुवेन्दु अधिकारी मुख्यमन्त्री भविष्यति इति सूच्यते।

Thursday, May 7, 2026

 'वन्दे मातरं' देशीयगानतत्तुल्यं पदं प्राप्नोति। 

अवगणनापहासादयः दण्डनीयापराधाः।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सम्पन्नं मन्त्रिमण्डलम्। 

 

नवदिल्ली> भारतस्य राष्ट्रगीतं 'वन्दे मातरं' इत्यस्मै राष्ट्रगानस्य 'जन गण मन ---' इत्यस्य स्थानं प्रदातुं केन्द्रसर्वकारेण निश्चितम्। अनेन प्रक्रमेण राष्ट्रगीताय राष्ट्रगानेन सह ऐकरूप्यं नियमपरिरक्ष-आदरादिकं लप्स्यते। 

   एतदर्थं राष्ट्रियचिह्नानाम् अवहेलनादिकं प्रतिरुद्ध्यमाने नियमे अपेक्षितानि शुद्धीकरणानि विधातुं केन्द्रमन्त्रिमण्डलेन अङ्गीकारः दत्तः। एतदनुसृत्य वन्देमातरगीतालापं ये अपमानयन्ति, निवारयन्ति  ते कारागृह-द्रव्यदण्डादीनाम् अर्हाः भवेयुः। वन्देमातरगानरचनायाः १५० तमवार्षिकवेलायामस्ति अयं निर्णयः।

 यू एस् वशीभूतम्। 

'प्रोजेक्ट् फ्रीडं' समापितम्। 

होर्मुस् समुद्रधुनिः। 

वाषिङ्टणः> होर्मुस् समुद्रसङ्कोचे लग्नाः महानौकाः लक्ष्यस्थानं गमयितुं यू एसेन आरब्धां 'प्रोजेक्ट् फ्रीड'मिति प्रक्रियां अल्पकालिकेन स्थगयितुं यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः आदिष्टवान्। 

  शान्तिसन्धिमधिकृत्य प्रचाल्यमानासु चर्चासु प्रगतिः जायते इत्यस्मात् उभयसम्मतिना एवायं निर्णय इति ट्रम्पेन प्रोक्तम्। किन्तु होर्मुसे यू एसेन अभिमुखीकृतेन अनुस्यूतपराजयेन एव ट्रम्पस्य अपसरणमिति इरानस्य राष्ट्रियमाध्यमेन वृत्तान्तीकृतम्। 

   इरानेन होर्मुसे पिहिते समुद्रे लग्नान् ८७ राष्ट्रेभ्यः २३,००० सामान्यजनान् रक्षितुम् इति प्रकथनेन आसीत् प्रोजेक्ट् फ्रीडमित्यस्य आरम्भः। परन्तु समुद्रधुनिः स्वस्य नियन्त्रणे अस्ति, अतिक्रामितुम् उद्दिश्यमानाः विदेशमहानौकाः आक्रमणाधीनाः भवेयुः इति इरानस्य भीषा अपि आसीत्।

 पञ्चाबे सैनिककार्यालयसमीपं स्फोटनम्। 

चण्डीगड्> राष्ट्रे 'ओपरेषन् सिन्दूरस्य' वार्षिके सम्पद्यमाने जलन्धरे बी एस् एफ् आस्थानस्य समीपे अमृतसरस्थे खासा सैनिककार्यालयस्य समीपे च कुजवासरस्य रात्रौ स्फोटनं सञ्जातम्। एकः व्रणितः। राष्ट्रिय-अन्वेषण-संस्थया [एन् ऐ ए] अन्वेषणमारब्धम्। 

  स्फोटनद्वये अपि ऐ ई डी नामकं वस्तु उपयुक्तमिति निर्णीतम्। द्वौ अन्वेषणसंघस्य बन्धने वर्तेते इति सूच्यते। खलिस्थान लिबरेषन् आर्मी नामिकया भीकरसंस्थया स्फोटनस्य उत्तरदायित्वं स्वीकृतमिति कथ्यते।

Wednesday, May 6, 2026

 केरले भाजपादलस्य चरित्रोपलब्धिः।

त्रिभिः स्थानैः पदसंस्थापनम्। 

नियुक्ताः भाजपासदस्याः - वामतः वी मुरलीधरः, राजीव चन्द्रशेखरः, बी बी गोपकुमारः। 

कोच्ची> केरले भा ज पा दलः तस्य पदं दृढीकरोति। २०१६ तमे वर्षे अनन्तपुरीजनपदस्थे 'नेमं' मण्डले ओ राजगोपालवर्येण इदं प्रथमतया विधानसभाङ्गत्वं लब्धमपि पुनःप्रवेशाय दशकाब्दस्य प्रतीक्षा आवश्यकी अभवत्। अस्मिन् निर्वाचने त्रिभिः स्थानैः प्रशोभमानः विजयः केरलस्य भाजपादलस्य जातः। वामपक्षीयसख्यस्य वर्तमानीनस्थानेषु नेमं, कष़क्कूट्टं, चात्तन्नूर् इत्येतेषु एव भाजपास्थानाशिनः विजयीभूताः। 

  'नेमं' मण्डले सम्पन्ने अतिशक्ते त्रिकोणप्रतिद्वन्द्वे दलस्य राज्याध्यक्षः राजीव चन्द्रशेखरः ४९७८ मतैः केरलस्य शिक्षामन्त्रिणं वि शिवन् कुट्टिमहोदयं पराजापयत। कष़क्कूट्टं मण्डले दलस्य वरिष्ठनेता भूतपूर्वः केन्द्रमन्त्री च वि मुरलीधरः केरलस्य भूतपूर्वं मन्त्रिणं कटकंपल्लि सुरेन्द्रं 'फोटो फिनिष्' इति विशेष्यमाणे मतगणनस्य अन्तिमचरणे ४२८ संख्यकैः मतैः  पराजित्य सदस्यत्वं प्राप। कोल्लं जनपदस्थे चात्तन्नूर् मण्डले अपि अभूतपूर्वा त्रिकोणस्पर्धा जाता। सि पि ऐ दलस्य नेता वर्तमानीनसदस्यः आर् राजेन्द्रः भाजपा दलस्य स्थानाशिना बि बि गोपकुमारेण ४३९८ मतैः पराजितः। 

  अपि तु राज्ये षट्सु मण्डलेषु भाजपादलं द्वितीयस्थानं प्राप च। २० मण्डलेषु २०% अधिकं मतानि सम्प्राप्तानि च।

 तमिलनाटे प्रशासनरूपीकरणप्रक्रिया आरब्धा। 

टि वी के दलस्य नेतृत्वे सख्यपक्षसर्वकारः! 

विजयस्य शपथवाचनं श्वः भवेत्। 


चेन्नै> विरुद्धपक्षान्तर्भूतानां लघुदलानां सहयोगेन मन्त्रिमण्डलरूपीकरणाय 'तमिल् वेट्रि कष़कं' - टि वी के - दलेन प्रयत्नः आरब्धः। परिश्रमे सफले प्राप्ते ७० संवत्सराणाम् अनन्तरं सख्यपक्षसर्वकारः  तमिलनाटे अधिकारं प्राप्स्यति। 

  टिवीके दलेन अभ्यर्थिताः दलाः तेषां स्थानानि एवं - कोण्ग्रस् - ५, सि पि एम् - २, सि पि ऐ - २, वि सि के - २, मुस्लीं लीग्- २, डि एम् डि के- १, पि एम् के - ४।

  तमिलनाटे आहत्य विधानसभास्थानानि २३४ भवन्ति। सर्वकाररूपीकरणाय आवश्यकानि न्यूनातिन्यूनस्थानानि ११८। टिवेके दलाय १०८ स्थानानि लब्धानि। किन्तु मण्डलद्वये विजितेन विजयेन एकस्मिन् स्थाने परित्यक्ते अंगसंख्या १०७ भविष्यति।