OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, September 2, 2017

दिल्यां  मालिन्यश्रृङ्गस्य पतनेन द्वाै मृतौ।
नवदिल्ली > दिल्यां गासिपुरम् इत्यत्र  मालिन्यचयं पतित्वा पतित्‍वा द्वौ मृतौ अभवताम्। शुक्रवासरे मध्याह्नात्परमेव इयं दुर्घटना। प्रदेशे अस्मिन् दिनद्वयं यावत् वृष्टिः आसीत्। इतोऽप्यधिकतया बहवः जनाः मालिन्यचयस्य अधः बन्धिताः इति सूच्यते।  एतेषां कृते अन्वेषणं प्रचलदस्ति।  पञ्च वाहनानि समीपस्थां कुल्यां प्रति प्रवहितानि। पञ्चाशत् पादमितः उन्नतः मालिन्यचयः एव  पतितः।  द्वौ मृतशरीरौ लब्धौ इति दिल्लीस्थः आरक्षकः प्रमाणीकृतवान्। इमां दुर्घटनां अधिकृत्य अन्वेषणमारब्धम्|

         दिल्लीनगरस्य मालिन्यानि सामान्येन गासिपुरम्, ओख्ल, फाल्स्व इत्‍येतेषु स्थानेषु निक्षिप्यन्ते। किन्तु मालिन्य-संभरणशेषिमतीत्य पर्वतवत् जातम्। अनन्तर-प्रक्रियायाः कालः च अतीतः आसीत्।

Friday, September 1, 2017

मुम्बै नगरे ११७ संवत्सरं यावत् पुरातनं  अट्टशूलागृहं भग्नम् । मृतानां संख्याः ३४ अभवत् ।
मुम्बै> पुरातनं पञ्च अट्टयुतं प्रासादं भग्नमभवत् । दुर्घटनायां चतु स्त्रिंशत् (३४) संख्याकाः जनाः मृताः।  प्रासादा वशिष्टानां मध्ये पतितान् सर्वानपि बहिरानीताः इति अग्निशमन-सेनया उक्तम्। मृतेषु चतुविंशाति (२४)पुरुषाः नव (९) स्त्रियः विंशति (२०) दिनस्य आयुष्कः शिशुः च अन्तर्भवति।  व्रणिताः पञ्चदशाः (१५) विविधेषु आतुरालयेषु प्रविष्टाः। सप्तचत्वारिंशत् जनाः रक्षिताः च।

    राष्ट्रियदुरन्त-निवारणसेना, अग्निशमनसेना, आरक्षकाः च मिलित्वा कृतेन प्रयत्नेन जीवाः रक्षिताः।  षट् अग्निशमनसेनाङ्गानाङ्गाः एकः त्वरितनिवारणसेनाङ्गः  च व्रणिताः

गुरुवासरे प्रातः एव आसीत् इयं दुर्घटना। एकनवत्यधिक सप्तशतं (७९१) आलयाः दुर्घटनावस्थायां सन्तीति पठनफलाधारेण प्रादेशिकसर्वेकारेण उद्घोषणा प्रसारिता आसीत्
मुम्बैयां भवनसमुच्चयभग्नेन २१जनाः मृताः।
मुम्बई > दक्षिणमुम्बैय्यां भिण्डी चत्वरे षट्तलात्मकभवनं  विशीर्ण्य एकविंशति जनाः मृताः। मृतेषु तिस्रः महिलाः द्वौ बालकौ च अन्तर्भूताः।  आहताः ३० जनाः रक्षास्थानं नीताः। भग्नावशिष्टेषु जनाः इतःपरं लग्नाः इति सन्देहेन रक्षाप्रवर्तनानि अनुस्यूतमानानि वर्तन्ते।
      ह्यः प्रभाते ८.३० वादने आसीत् पाक्मोडिय वीथ्यां ११७ संवत्सरात्मकं भवनसमुच्चयं भग्नमभवत्।
भारतीयदिक्सूचकोपग्रहस्य प्रक्षेपणं विफलीभूतम्
श्रीहरिकोटा>आई आर एन एस एस- वन एच इति भारतीयदिक्सूचकोपग्रहस्य विप्रक्षेपणं विफलीभूतम् । गतदिने पी एस एल वी सी- 39 इति ध्रुवीयप्रक्षेपणयानेन  श्रीहरिकोटान्तरिक्षकेन्द्रात् प्रक्षेपणं विहितम् । भारतीयान्तरिक्षानुसन्धानसंघटनस्य अध्‍यक्षः ए.एस.किरणकुमारः प्रावोचत् यत् प्रक्षेपणयानस्य हीट-शील्‍ड इत्यस्य पृथक्करणमतिरिच्य सर्वम् सामान्‍यमासीत् । सममेव श्रीकुमारः प्रत्यपादयत् यत् प्रक्षेपणसम्बद्धविवरणस्य विस्‍तृतं विश्‍लेषणं भविष्यति।

Thursday, August 31, 2017

ड्रम्पं उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री 
अमेरिकातः पाकिस्थानाय लब्धं धनं भैषम् इव।
इस्लामबादः > आतङ्कवादिनं प्रतिरोद्धुं पाकिस्थानाय कोटिकोटि संख्यामितानि डोलर् धनपत्राणि दत्तानि इति डोणाल्ड् ड्रंपस्य वाचम् उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री। कोटिमितानां धनराशिः न लब्धः। अल्पधनंमेव लब्धम्। शासनदलस्य प्रमुखनेत्रा चौधरी निसार् महोदयेन पाकिस्थानस्य राष्ट्रिय आयोगस्य पुरतः एवं विज्ञापितम्। इदानीन्तन कालपर्यन्तं पाकिस्थानस्य आभ्यन्तरमन्त्री आसीत् एषः। दशवर्षाभ्यन्तरे आमेरिकातः लब्धं धनसाहायं कियन्मात्रमिति गणनीयम् इति च तेन उक्तम्।
यु. एस् राष्ट्रतः धनं स्वीकृत्य अस्माभिः अन्विष्टानां भीकराणां सुरक्षवासस्थानं प्रदत्तम् इति गतवासरे ट्रपेन उक्तमासीत् । भीकरान् विरुद्ध्य  अमेरिक्काराट्रस्य प्रक्रियायै दत्तस्य साहाय्यस्य प्रतिफलरूपेण दत्तमासीत् धनम्। पञ्चाशत् कोटि डोलर् अभ्यर्थितम्। किन्तु विंशति कोटिः एव लब्धम् । चौधरी निसार् महोदयेन उक्तम्।
सुदीर्घसंघर्षान्ते भारतं चीना च सैन्ये प्रतिनिवर्तितवन्तौ। 
नवदेहली > जूण्मासे आरब्धः भारतचीनासीमाविवाद: दोक्लां सीमाया: सेनाप्रतिनिवर्तनेन परिहृतः। चीनायाः मार्गनिर्माणमेव विवादहेतुरासीत् ၊ सैन्यद्वयस्य प्रतिनिवर्तनं संपूर्णमिति विदेशकार्यमंत्रालयेन सूचितं वर्तते। ब्रिक्स् उच्चकोटिकार्यक्रमात्पूर्वं  नयतन्त्रस्तरे संपन्नायाःचर्चायाः अनन्तरमेव सेनाप्रतिनिवर्तननिर्णय: कृतः ।
नितरां वैकारिकतया एव चीनादेशस्य प्रतिस्पन्दः अभवत् । किन्तु भारतमत्यन्तं संयमनमपालयत् । भारतचीनासेनयो‌‌र्मध्ये युद्धाय स्थितिरपि समजायत। १९६२ तमवर्षस्य युद्धं स्मारयित्वा चीनासेना भारतं प्रकोपयितुं यतते स्म ।

Wednesday, August 30, 2017

न्यायाधीश: दीपक् मिश्रः मुख्यन्यायाधीश-पदमारूढवान्
देहलि > भारतस्य पंचचत्वारिंशत्त्तम मुख्य-न्यायाधीशत्वेन चतु-षष्ठिवयस्कः दीपक् मिश्रः नियुक्तः। पूर्वन्यायाधीशः केहार् मिश्रः आसीत् । तस्य स्थानात् विरामे जाते दीपक् मिश्रः तत्स्थाने नियुक्तः वर्तते। राष्ट्रपति भवने आयोजितेषु कार्यक्रमेषु राष्ट्रपति रामनाथ-गोविन्देन सत्यवाक्यानि प्रकाशितानि।  उपराष्ट्रपतिः वेंकय्य नायिडू प्रधानमंत्री नरेन्द्रमोदी भूतपूर्व-प्रधानमंत्री मनमोहन सिंहः कांग्रेस् अध्यक्षा सोनिया गांधी प्रभृतया: भागभाजिन: आसन्।
वृष्टि: शक्ता, जलोपप्लवभीत्याम् मुम्बै।।
 
  मुम्बै> अतिशक्तां वृष्टिमनुवर्त्य  जलोपप्लवभीत्यां वर्तते मुम्बै नगरम्। गतचतुर्दिनेषु तत्र अतिशक्ता वृष्टि: अनुवर्तते। शनिवासरे आरब्धा वृष्टि: मङ्गलवासरे प्रात: अपि अतिशक्त्या अनुवर्तिता। तस्मात् नगरस्य निम्नप्रदेशा: जलेन सम्भृता: अभवन्। मार्गा: बहव: जलान्तर्गता:। नगरस्य बहुषु भागेषु अग्रिमासु अष्टचत्वारिंशत् घण्टासु सुशक्तवर्षस्य साध्यता वर्तते,
 अत्यावश्यानि न सन्ति चेत् वृथा बहिर्गमनम् मास्तु इत्यपि प्रदेशवासिनां कृते निर्देशोपि दत्त:। रेल्- भू मार्गगतागतं विध्नितम्। बहूनि रेल्यानानि विलम्बेन धावन्ति। प्रादेशिकरेल्यानानि पश्चिमरेल्कार्यालयेन स्थगितानि। सुशक्तवृष्टि: जलोपप्लवश्च जनानां जीवनम् कष्टे अपातयत्। सियोण्, अन्धेरी उपमार्ग:(सब् वे) - एतेषु प्रदेशेषु जलसम्भृतभागा: रूपीकृता: इति अपेक्षाद्वयम् प्राप्तमिति च बी एम् सी विज्ञापयत्। किन्तु माट्टुंगा, दादरस्य समीपप्रदेशा:, हिन्द् माता, वाडला, घटकोपर:, मुलुन्द्- एते प्रदेशाश्च जलोपप्लुता:। गतागतविघ्नमपि प्रदेशेषु दृश्यन्ते। जना: वर्षजलोपप्लववार्ता: इतरान् ज्ञापयन्ति ट्विट्टर् माध्यमेन। ट्विट्टर् द्वारा सुरक्षापूर्वसूचना: अपि दीयन्ते। टैफूण् समानवातावरणमिति व्यवसायी आनन्द महीन्द्र: ट्वीट् सन्देशे उक्तवान्। पञ्चोत्तरद्विसहस्रात् परम् अनुभूयमाना सुशक्ता वृष्टिरेव मुम्बै मध्ये इति सूचना।

Tuesday, August 29, 2017

नरेश्वराय २०संवत्सराणां कारागारवासः। 
नवदिल्ली > बलात्कारविषये देरा सच्चा सौदा नामिकायाः संस्थायाः नेत्रे गुर्मीत् राम रहीम सिंहाय नरेश्वराय विंशतिसंवत्सराणां कठोरं कारागारवासादण्डनं विहितम्। त्रिशत् लक्षं रूप्यकाणां धनशुल्कदण्डनमपि विहितम्। द्वौ वनितानुयायिनौ २००२तमे संवत्सरे रामरहीमः  बलात्कारं कृतवान् इति विषयद्वये एव सि बि ऐ संस्थायाः सविशेषन्यायालयस्य न्यायाधीशेन जग्दीपसिंहेन पृथक् पृथक् दण्डनं विहितम्।
   प्रत्येके विषये दशसंवत्सराणां कारागृहवासः १५लक्षं रूप्यकाणां शुल्कदण्डनं च नीतिपीठेन विहितम्। कारागारवासः पृथक् पृथक् अनुभोक्तुं विहितः।
हृदयस्तम्भनेन षष्ठकक्ष्याच्छात्रस्य मरणम्।।
     हैदराबाद्> हृदयस्तम्भनेन षष्ढकक्ष्याच्छात्र: मृतवान्। नादेर्गुले देहली जनकीयविद्यालयस्य छात्र: आदर्श: एव मृतवान्। विद्यालयस्य सोपानावरोहणमध्ये बोधरहित: पतितवान् आदर्श:। झटित्येव आतुरालयम् प्रवेशितश्चेदपि हृदयस्तम्भनमभवदिति विशदनिरीक्षणेन वैद्या: निरणयन्। तत: चिकित्सायाम् आरब्धायाम् शनिवासरे आदर्श: मृतवान्। उत्तमगायक: सन् आदर्श: अन्तर्विद्यालयीयस्पर्धासु भागं गृहीत्वा तृतीयस्थानम् प्राप्तवान् आसीत्।   स्पर्धानन्तरं विस्मृतं स्यूतं स्वीकर्तुं गमनावसरे एव तस्य पतनम्। आदर्शस्य नेत्रे दातुम् पितरौ निश्चितवन्तौ।