OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 2, 2017

दिल्यां  मालिन्यश्रृङ्गस्य पतनेन द्वाै मृतौ।
नवदिल्ली > दिल्यां गासिपुरम् इत्यत्र  मालिन्यचयं पतित्वा पतित्‍वा द्वौ मृतौ अभवताम्। शुक्रवासरे मध्याह्नात्परमेव इयं दुर्घटना। प्रदेशे अस्मिन् दिनद्वयं यावत् वृष्टिः आसीत्। इतोऽप्यधिकतया बहवः जनाः मालिन्यचयस्य अधः बन्धिताः इति सूच्यते।  एतेषां कृते अन्वेषणं प्रचलदस्ति।  पञ्च वाहनानि समीपस्थां कुल्यां प्रति प्रवहितानि। पञ्चाशत् पादमितः उन्नतः मालिन्यचयः एव  पतितः।  द्वौ मृतशरीरौ लब्धौ इति दिल्लीस्थः आरक्षकः प्रमाणीकृतवान्। इमां दुर्घटनां अधिकृत्य अन्वेषणमारब्धम्|

         दिल्लीनगरस्य मालिन्यानि सामान्येन गासिपुरम्, ओख्ल, फाल्स्व इत्‍येतेषु स्थानेषु निक्षिप्यन्ते। किन्तु मालिन्य-संभरणशेषिमतीत्य पर्वतवत् जातम्। अनन्तर-प्रक्रियायाः कालः च अतीतः आसीत्।