OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 29, 2017

नरेश्वराय २०संवत्सराणां कारागारवासः। 
नवदिल्ली > बलात्कारविषये देरा सच्चा सौदा नामिकायाः संस्थायाः नेत्रे गुर्मीत् राम रहीम सिंहाय नरेश्वराय विंशतिसंवत्सराणां कठोरं कारागारवासादण्डनं विहितम्। त्रिशत् लक्षं रूप्यकाणां धनशुल्कदण्डनमपि विहितम्। द्वौ वनितानुयायिनौ २००२तमे संवत्सरे रामरहीमः  बलात्कारं कृतवान् इति विषयद्वये एव सि बि ऐ संस्थायाः सविशेषन्यायालयस्य न्यायाधीशेन जग्दीपसिंहेन पृथक् पृथक् दण्डनं विहितम्।
   प्रत्येके विषये दशसंवत्सराणां कारागृहवासः १५लक्षं रूप्यकाणां शुल्कदण्डनं च नीतिपीठेन विहितम्। कारागारवासः पृथक् पृथक् अनुभोक्तुं विहितः।