OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, June 3, 2025

 राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले। 

नवदिल्ली> केरले कोविड्वैराणुबाधितानां संख्या १४३५ अभवत्। २४ वयस्का महिला गतदिने कोविड्बाधया मृता। राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले इति स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। 

  कोविड्बाधितराज्यानाम् आवल्यां महाराष्ट्रं द्वितीयस्थाने वर्तते। तत्र ५०६ जनाः कोविड्बाधिताः सन्ति। दिल्ल्यां ४८३ जनाः कोविड्बाधया परिचर्यायां वर्तन्ते। कर्णाटके २५३, तमिलनाटे १८९ च जनाः कोविड्बाधिताः सन्ति। अशेषे राष्ट्रे ३९६१ कोविड्रोगिणः सन्ति।

 गासायाम् इस्रयेलस्य आक्रमणम् - चतुर्दश मरणानि। 

डेर् अल् बला> उत्तरगासायां जबलिया इत्यत्र अभयार्थिशिबिरं प्रति इस्रयेलेन विधत्ते बोम्बाक्रमणे सप्त बालकान् अभिव्याप्य चतुर्दश जनाः मृताः। आक्रमणमधिकृत्य इस्रयेलस्य प्रतिकरणं नागतम्। गतदिने राफायां भोज्यवस्तूनि प्रतीक्षमाणाः एकत्रिंशत् पालस्तीनीयाः इस्रयेलसेनया निहताः आसन्। एतदधिकृत्य स्वतन्त्रान्वेषणमावश्यकमिति यू एन् संस्थायाः कार्यदर्शिप्रमुखः अन्टोणियो गुटरसः प्रस्तुतवान्।

Monday, June 2, 2025

 एष्यन् कायिकक्रीडा समाप्ता। 

भारतस्य द्वितीयस्थानम्। 

१०० मी स्प्रिन्ट् स्पर्धायां राष्ट्रियाभिलेखेन कांस्यं प्राप्तवतः अनिमेष् कुजूरस्य आह्लादः। 

गुमी> दक्षिणकोरियायाः गुमीनगरे समायोजिता पञ्चदिवसीया एष्यायाः कायिकक्रीडास्पर्धा शनिवासरे समाप्ता। अन्तिमदिने भारताय त्रीणि रजतानि त्रीणि कांस्यानि चोपलब्धानि। कुन्तप्रक्षेपे सच्चिन् यादवः, महिलानां पञ्चसहस्रं मीटर् मिते धावने पारुल् चौधरी,  ४ × १०० मीटर् अनुक्रामके  महिलाः च भारताय रजतपतकं प्राप्तवन्तः। वनितानां ८०० मीटर् धावने पूजया, ४०० मीटर् अन्तरायधावने [Hurdles] वितृ राम राजेन, १०० मीटर् प्रधावने [Sprint] राष्ट्रीयाभिलेखं प्राप्य अनिमेष् कुजूर् इत्यनेन च भारतं कांस्यानि चालभत। 

  आहत्य अष्ट सुवर्णानि दश रजतानि षट् कांस्यानि चोपलभ्य भारतं द्वितीयस्थानं प्राप। प्रथमे तु नवदश  सुवर्णानि, नव रजतानि, चत्वारि कांस्यानि च लब्ध्वा द्वात्रिंशत् पतकैः चीनः अस्ति।

 चत्वारिंशत् रूसीययुद्धविमानानि भञ्जितानीति युक्रेनः। 

कीव्> सैबीरियायां वर्तमानान् रूसीयव्योमनिलयान् प्रति रविवासरे युक्रेनेन कृते ड्रोणाक्रमणे रष्यायाः चत्वारिंशत् बोम्बवर्षकविमानानि भञ्जितानीति युक्रेनेन अभिमानितम्। तद्राष्ट्रस्य 'एस् बी यू' इति सुरक्षासेवासंस्थया एव वृत्तान्तमिदं निगदितम्। 

  ओपरेषन् स्पैडर् वेब् [Operation Spider Web] इति कृतनामधेये आक्रमणे मुर्मान्क् इत्यस्थं ओलन्या, इर्कुट्स् इत्यस्थं बेलाया इत्यादीनि सैबीरियायाः चत्वारि व्योमनिलयस्थानानि आक्रमितानि। रष्यायाः टि यू ९५, दीर्घदूर शब्दातिशीघ्रविमानं टि यू २२ एम् ३ एस्, ए ५० इत्येतानि युद्धविमानानि भग्नेषु अन्तर्भवन्ति।

 उत्तरपूर्वीयराज्येषु भीषणवृष्टिः।

एकत्रिंशत् प्राणहानिः। 

गुहावती> दिनद्वयेन अनुवर्तमानायाः घोरवृष्ट्याः दुष्प्रभावेण भारतस्य उत्तरपूर्वीयराज्येषु एकत्रिंशत् जनाः मृत्युमुपगताः। असमः, सिक्किमः, अरुणाचलप्रदेशः, मेघालयः, मिसोरामः, नागालान्ट् त्रिपुरम् इत्यादिषु राज्येषु एव वृष्टिदुष्प्रभावः अधिकतया दुरापन्नः।  सहस्रशः जनानां वासपरिवर्तनं विधत्तम्। बहूनि वासस्थानानि भग्नानि। 

  बहवः ग्रामाः वीथयः केदाराश्च जलसञ्चये निमग्नाः। ब्रह्मपुत्रः, बराक् इत्याद्यः नद्यः जलोपप्लवभीषायां वर्तन्ते।

Sunday, June 1, 2025

 विख्यातः व्याघ्रसंरक्षकः वाल्मीक थाप्परः दिवंगतः। 


नवदिल्ली>  व्याघ्रसंरक्षणाय स्वजीवनं समर्प्य 'व्याघ्रमानवः' [The Tiger man] इति विख्यातः पर्यावरणप्रवर्तकः वाल्मीक थाप्परः (७३) नवदिल्ल्यां दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत् परिचर्यायामासीत्। 

  १९५२ तमे वर्षे पत्रकारदम्पत्योः रोमेष् थापर राजथापरयोः पुत्रत्वेन लब्धजन्मा वाल्मीक थापरः पञ्चाशत् संवत्सराणि वन्यजीविसंरक्षणाय स्वजीवनं निनाय। राजस्थानस्थे रणथम्भोर् व्याघ्रसङ्केतस्य संरक्षणाय १९८७ तमे वर्षे 'रणथम्भोर् फौण्टेषन्' इति संस्थां रूपीचकार। 'लान्ड् ओफ् टैगर्', भारतोपभूखण्डस्य स्वतश्चरितं, Tiger fire - 500 years of Tiger in India इत्यादयः ३२ ग्रन्थाः तेन विरचिताः।

 विरामकालः समाप्तः 

केरले विद्यालयाः श्वः उद्घाट्यन्ते। 

अनन्तपुरी> ग्रीष्मकालीनविरामानन्तरं केरले सामाजिकविद्यालयाः जूण् द्वितीये दिने सोमवासरे पुनरुद्घाट्यन्ते। प्रवेशनोत्सवैः सर्वेषु विद्यालयेषु २०२५ - २६ शैक्षिकवर्षस्य प्रवर्तनानि समारभ्यन्ते। राज्यस्तरीयं प्रवेशनोत्सवं आलप्पुष़ा कलवूर् सर्वकारीयोच्चविद्यालये मुख्यमन्त्री पिणरायि विजयः उद्घाटयिष्यति। 

  अस्माद् वर्षादारभ्य उच्चस्तरीयकक्ष्यासु  अर्धहोरायाः अधिकः शैक्षिककालः कल्पितः। प्रतिवर्षं १२०० होराणां पठनकालः इति निर्णयं दृढीकर्तुमेवायं परिष्कारः। षट् शनिवासराः अपि प्रवृत्तिदिनानि भविष्यन्ति।

Saturday, May 31, 2025

 एष्यन् कायिकवीरतास्पर्धा 

भारतं द्वितीयस्थाने। 

दीर्घदूरधावने गुल् वीरसिंहः अभिलेखेन सुवर्णं प्राप्तवान्। 

सुवर्णपतकं प्राप्तवन्तौ पूजासिंहः, गुल वीरसिंहः, तथा राष्ट्रीयाभिलेखेन रजत प्राप्तवती पारुल् चौधरी च।

गुमी> दक्षिणकोरियायां गुमीनगरे सम्पत्स्यमानायाम् एष्यन् कायिकवीरतास्पर्धापरम्परायां शुक्रवासरे भारतेन त्रीणि सुवर्णपतकानि सम्प्राप्तानि। दीर्घदूरधावकः गुल वीरसिंहः पुरुषाणां पञ्चसहस्रं मीटर् धावने एष्यन् क्रीडाभिलेखनेन [Meet record] प्रथमः भूत्वा सुवर्णपतकं सम्प्राप्तवान्। अनेन अस्यां क्रीडायां तेन सुवर्णद्वयं लब्धम्। 

  महिलानाम् उत्कूर्दने [high jump] पूजा सिंहः, स्पर्धासप्तके [Heptathlon] नन्दिनी अगसरा च सुवर्णं प्राप्तवती। 

   अष्ट सुवर्णानि, सप्त रजतानि, त्रीणि कांस्यानि इति क्रमेण आहत्य अष्टादश पतकैः भारतं द्वितीयस्थाने वर्तते। प्रथमस्थाने १५ सुवर्णानि अभिव्याप्य २६ पतकैः चीनराष्ट्रमस्ति।

 अतिवृष्टिदुष्प्रभावेन केरले ह्यः अष्ट मरणानि। 

सप्ताहे २६ मरणानि; कोटिशः रूप्यकाणां विनाशः।

केरले प्रलयसमाने अतिवृष्टिदुष्प्रभावे लग्नं परिवारः रक्षासेनया अभयस्थानं नीयते। 

अनन्तपुरी> केरलराज्य गतसप्ताहेन अनुवर्तमानेन घोरवर्षेण आहत्य षड्विंशति जनाः मृत्युमुपगताः। शुक्रवासरे राज्यस्य विविधस्थानेषु अष्ट जनाः मृताः। विष़िञ्ञं प्रदेशात् मत्स्यबन्धनाय गतवन्तः नव धीवराः समुद्रे मत्स्यबन्धननौकोत्प्लुतेन अप्रत्यक्षाः अभवन्। 

 राज्यमशेषे निम्नप्रदेशाः जलनिमग्नाः जाताः। शतशः परिवाराः अभयस्थानानि नीताः। शतशः वासगृहाणि भग्नानि जातानि। 

  अतिवृष्ट्या सह प्रचण्डवातस्य च दुष्प्रभावेण बहुत्र विद्युत् स्थगिता। यातायातानि निश्चलीभूतानि। केदाराणि जले निमज्य द्विशतकोट्यधिकरूप्यकाणां कृषिनाशोSभवदिति कृषिविभागेन निगदितम्। 

  अद्य त्रिषु जनपदेषु रक्तजागरूकता निर्दिष्टा। अन्येषां जनपदानां 'पीत'जागरूकता निर्दिष्टा। शनिवासरतः वृष्ट्याः तीव्रता आकुञ्चिष्यते इति पर्यावरणविभागेन सूच्यते।

Friday, May 30, 2025

 विश्वविजेत्र्यौ महिले। 

पटवातनौकया विश्वप्रदक्षिणं कृतवद्भ्यां 'भारतस्य धीरपुत्रिभ्यां' उज्वलं स्वीकरणम्।

तरणी इति पटवातनौकायां विश्वप्रदक्षिणं कुर्वन्त्यौ रूपा दिल्ना च। 

 

गोवा> विश्वविजेतृरूपेण द्वे युवमहिले गोवायां समुद्रतीरं प्राप्तवत्यौ। राष्ट्ररक्षामन्त्री ते अभिवाद्य हस्तदानेन स्वीकरोति। अनन्तरं महिलाशक्तिमधिकृत्य मन्त्रिणः नाविकाधिकारिणां च  प्रशंसावाक्यानि! 

    नौसेनायाःतरणीति पवनचालितनौकायां समुद्रसञ्चारेण  भूमिं प्रदक्षणीकृत्य द्वे अपि गुरुवासरे सायं गोवायाः तटे अवातरताम्। नौसेनायां लफ्टनन्ट् कमान्डर् पदीये केरलीया के दिल्ना तमिलनाट् राज्यीया ए रूपा च एतादृशसाहसिककृत्याय उद्युक्तवत्यौ। एते भारतस्य धीरपुत्र्यौ इति रक्षामन्त्रिणा राजनाथसिंहेन प्रशंसितम्। 

  गतवर्षे ओक्टोबर् द्वितीये दिनाङ्के  गोवातः एतयोः समुद्रयात्रा आरब्धा। मासाष्टभिः एते चतुर्भिः भूखण्डैः, त्रिभिः समुद्रैः , त्रिभिः भूकोटिभिः च पञ्चाशत् सहस्रं किलोमीटर् दूरं पावनचालितनौकया यात्रां कृतवत्यौ। 

  गोवाराज्यस्य मुख्यकार्यदर्शी डो वि कान्डवेलुः, सायुधसेनायाः स्वास्थ्यसेवा निदेशिका वैस् अड्मिरल् पदीया आरती सरिनः, दक्षिण नाविक कमान्ड् अधिकारी वैस् अड्मिरल् पदीयः वि श्रीनिवासः, प्रशस्तः पटवातनौकासञ्चारी अभिलाष् टोमी इत्यादयः प्रमुखाः स्वीकरणसमारोहे भागं कृतवन्तः।

 जम्मु काश्मीरे द्वौ लष्करभीकरौ निगृहीतौ। 

श्रीनगरं> जम्मु काश्मीरस्य षोपियानप्रदेशात् आयुधसञ्चयेन द्वौ लष्कर् ई तोय्बाभीकरौ सीमारक्षासेनया निगृहीतौ। द्वौ ए के ५६ शतघ्निनौ, द्वे 'ग्रनेड्' नामकस्फोटके, इतराणि स्फोटकसम्भाराणि च निगृहीतानि।

 पण्यमहानौकायाः दुर्घटना राज्यमहाविपत्। 

अनन्तपुरी>  आरबसमुद्रे कोच्ची तीरसमीपं एम् एस् सि - एल्सा ३ इति पण्यमहानौकायाः निमज्जनेन जाता दुर्घटना राज्यस्तरीयविपद्रूपेण राज्यप्रशासनेन विज्ञापिता। दुर्घटनया ये उपजीवनरहिताः अभवन् तेषां धीवराणां परिवारेभ्यः सहस्ररूप्यकाणि तथा षट् किलोमितं  निःशुल्कान्नपरिमाणं च दातुं निर्णयः जातः। मुख्यमन्त्रिणा पिणरायि विजयेन ह्यः समाकारिते वार्ताहरसम्मेलने  आसीदिदम् उद्घोषणम्।

Thursday, May 29, 2025

 भारतेन सह चर्चायै सज्जमिति पाकिस्थानम्।

शहबास शरीफः। 

टेह्रान्> काश्मीरं, जलोपभोगः, व्यापारः इत्यादीनां दीर्घकालीयसमस्यानां परिहाराय भारतेन सह चर्चायै सज्जमिति पाकिस्थानस्य प्रधानमन्त्री शहबास शरीफः प्रोक्तवान्। तेन कृते इरानसन्दर्शने राष्ट्रपतिः मसूद पेसेष्की इत्यनेन सह विधत्ते वार्ताहरसम्मेलने भाषमाणः आसीत् शहबासः। पाकिस्थानं शान्तिमभिलषतीति तेनोक्तम्। 

  भारतेन सह संघर्षे पाकिस्थानम् अनुकूलितवत् तुर्कीराष्ट्रं सम्पश्यानन्तरमासीत् शहबासस्य इरानं प्रति  प्राप्तिः।

 वंगसमुद्रान्तराले न्यूनमर्दः - अतिवृष्टिरनुवर्तिष्यते।

अनन्तपुरी> वंगसुद्रान्तराले नूतनतया न्यूनमर्दः जातः इत्यतः पञ्च दिनानि यावत् केरले तथा  तमिलनाटस्य कतिपयप्रदेशेषु च अतिवृष्टिः अनुवर्तिष्यते इति केन्द्रपर्यावरणविभागेन निगदितम्। 

  केरले अद्य चतुर्षु जनपदेषु राक्तजागरूकता निर्दिष्टा। इतरेषु जनपदेषु 'ओरञ्ज्' जागरूकता च।

 काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः  आयोक्ष्यते। 

  नवदिल्ली> ओपरेषन् सिन्दूरं समाप्य सप्ताहान्तरं काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः ( moc drill ) आयोक्ष्यते। 

हरियाणासर्वकारः २२ (द्वाविंशतिः) जनपदेषु ओप्परेषन् षील्ड् इति नामनि अनुकृत्यभ्यासः आयोक्ष्यते इत्यस्ति प्रतिवेदनम्। मेय् मासस्य एकोनत्रिंशत् दिनाङ्के भवति कार्यान्वयनम्।

Wednesday, May 28, 2025

 नूतनरीत्या गासायां साहाय्यवितरणं समारब्धम्। 

प्रतिकूलतया हमासः। 

डेयर् अल् बला> गासायाम् इस्रयेलस्य अङ्गीकारेण नूतनं साह्यवितरणसम्प्रदायः प्रवर्तनमारब्धः। अमेरिक्कायाः अनुग्रहेण प्रवर्तमानस्य 'जि एछ् एफ्' [The Gassa Humanitarian Foundation] इत्यस्य संघटनस्य नियन्त्रणे भवतीदं साह्यवितरणम्। 

  निश्चितस्थानेषु वितरणकेन्द्राणि स्थापयित्वा निश्चितकालाय भक्ष्यवस्तूनि शुचित्वपालनसम्भारान् च प्रतिपरिवाराय ददाति। वितरणकेन्द्राणि इस्रयेलसैन्यस्य निरीक्षणे भविष्यन्ति। 

  संयुक्तराष्ट्रसंघटनस्य प्रतिकूलतामतीत्य जि एछ् एफ् संघटनेन चत्वारि केन्द्राणि सोमवासरे आरब्धानि। किन्तु एतानि इस्रयेलसैनिकशिबिराणां समीपे एव।

  नूतनसंविधानेन सह सहकारिता न कार्या इति हमासेन पालस्तीनीयाः निर्दिष्टाः। गासीयान् बलात्कारेण अन्यत्र नेतुमुद्यमः भवत्येष इति हमासीयः आरोपयति। २३लक्षं गासीयेभ्यः भक्षणप्रदानाय एतत्संविधानमपर्याप्तमिति तेषाम् आरोपणम्।

 एष्यीयकायिकक्रीडा

गुल् वीरसिंहस्य सुवर्णपतकम्। 

१०,०००मीटर् धावने सुवर्णं प्राप्तवान् गुल वीरसिंहः। 

गुमी> दक्षिणकोरियायां गुमिनगरे आरब्धायाम् एष्यीयकायिकक्रीडायां प्रथमे दिने भारतस्य सुवर्णशोभा। पुरुषाणां दशसहस्रमीटर् मिते धावनप्रतिद्वन्द्वे उत्तरप्रदेशीयः गुल् वीरसिंहः प्रथमस्थानं प्राप्तवान्। २८ मिनिट् ३८. ६३ सेकन्ड् समयं स्वीकृत्य आसीत् तस्य सुवर्णप्राप्तिः। रजत-कांस्यपतके जापानक्रीडकाभ्यां प्राप्ते।

  २० कि मी  पदचलनस्पर्धायां तमिलनाटनिवासी सेर्विन् सेबास्ट्यनः  भारताय कांस्यपतकं प्राप्तवान्। एकहोराधिक २१ मिनिट् १३. ९० सेकनिड् समयः चलनसमाप्त्यर्थं तेन स्वीकृतः।

 दक्षिणपूर्वेष्याराष्ट्रेेषु कोविड्रोगः व्याप्यते। 

भारते  कोविड्बाधिताः सहस्रमतीताः। 

नवदिल्ली> एष्याभूखण्डस्य दक्षिणपूर्वीयराष्ट्रेषु कोविड् वैराणुः व्याप्यते इति केन्द्रस्वास्थ्य-कल्याणमन्त्रालयेन निगदितम्। भारते कोविड्बाधितानां संख्या नवाधिकसहस्रमभवत्। 

  राष्ट्रे अधिकतमं कोविड्बाधिताः केरले वर्तन्ते  - त्रिंशदधिकचतुश्शतम्। महाराष्ट्रं - २०९, दिल्ली - १०४, गुजरात् - ६९, कर्णाटकं -४७ इत्येवं इतरेषु राज्येषु कोविड्बाधिताः। राजस्थानं, यू पि, वंगराज्येष्वपि कोविड्बाधा दृश्यते। किन्तु राष्ट्रे अष्टादशवयस्कातीताः सर्वे प्रतिरोधवाक्सिनं स्वीकृतवन्तः इत्यतः आशङ्कायाः स्थानं नास्तीति स्वास्थ्यमन्त्रालयेन सूच्यते।