OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 2, 2025

 उत्तरपूर्वीयराज्येषु भीषणवृष्टिः।

एकत्रिंशत् प्राणहानिः। 

गुहावती> दिनद्वयेन अनुवर्तमानायाः घोरवृष्ट्याः दुष्प्रभावेण भारतस्य उत्तरपूर्वीयराज्येषु एकत्रिंशत् जनाः मृत्युमुपगताः। असमः, सिक्किमः, अरुणाचलप्रदेशः, मेघालयः, मिसोरामः, नागालान्ट् त्रिपुरम् इत्यादिषु राज्येषु एव वृष्टिदुष्प्रभावः अधिकतया दुरापन्नः।  सहस्रशः जनानां वासपरिवर्तनं विधत्तम्। बहूनि वासस्थानानि भग्नानि। 

  बहवः ग्रामाः वीथयः केदाराश्च जलसञ्चये निमग्नाः। ब्रह्मपुत्रः, बराक् इत्याद्यः नद्यः जलोपप्लवभीषायां वर्तन्ते।