विख्यातः व्याघ्रसंरक्षकः वाल्मीक थाप्परः दिवंगतः।
नवदिल्ली> व्याघ्रसंरक्षणाय स्वजीवनं समर्प्य 'व्याघ्रमानवः' [The Tiger man] इति विख्यातः पर्यावरणप्रवर्तकः वाल्मीक थाप्परः (७३) नवदिल्ल्यां दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत् परिचर्यायामासीत्।
१९५२ तमे वर्षे पत्रकारदम्पत्योः रोमेष् थापर राजथापरयोः पुत्रत्वेन लब्धजन्मा वाल्मीक थापरः पञ्चाशत् संवत्सराणि वन्यजीविसंरक्षणाय स्वजीवनं निनाय। राजस्थानस्थे रणथम्भोर् व्याघ्रसङ्केतस्य संरक्षणाय १९८७ तमे वर्षे 'रणथम्भोर् फौण्टेषन्' इति संस्थां रूपीचकार। 'लान्ड् ओफ् टैगर्', भारतोपभूखण्डस्य स्वतश्चरितं, Tiger fire - 500 years of Tiger in India इत्यादयः ३२ ग्रन्थाः तेन विरचिताः।