OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 1, 2025

 विख्यातः व्याघ्रसंरक्षकः वाल्मीक थाप्परः दिवंगतः। 


नवदिल्ली>  व्याघ्रसंरक्षणाय स्वजीवनं समर्प्य 'व्याघ्रमानवः' [The Tiger man] इति विख्यातः पर्यावरणप्रवर्तकः वाल्मीक थाप्परः (७३) नवदिल्ल्यां दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत् परिचर्यायामासीत्। 

  १९५२ तमे वर्षे पत्रकारदम्पत्योः रोमेष् थापर राजथापरयोः पुत्रत्वेन लब्धजन्मा वाल्मीक थापरः पञ्चाशत् संवत्सराणि वन्यजीविसंरक्षणाय स्वजीवनं निनाय। राजस्थानस्थे रणथम्भोर् व्याघ्रसङ्केतस्य संरक्षणाय १९८७ तमे वर्षे 'रणथम्भोर् फौण्टेषन्' इति संस्थां रूपीचकार। 'लान्ड् ओफ् टैगर्', भारतोपभूखण्डस्य स्वतश्चरितं, Tiger fire - 500 years of Tiger in India इत्यादयः ३२ ग्रन्थाः तेन विरचिताः।