OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 1, 2025

 विरामकालः समाप्तः 

केरले विद्यालयाः श्वः उद्घाट्यन्ते। 

अनन्तपुरी> ग्रीष्मकालीनविरामानन्तरं केरले सामाजिकविद्यालयाः जूण् द्वितीये दिने सोमवासरे पुनरुद्घाट्यन्ते। प्रवेशनोत्सवैः सर्वेषु विद्यालयेषु २०२५ - २६ शैक्षिकवर्षस्य प्रवर्तनानि समारभ्यन्ते। राज्यस्तरीयं प्रवेशनोत्सवं आलप्पुष़ा कलवूर् सर्वकारीयोच्चविद्यालये मुख्यमन्त्री पिणरायि विजयः उद्घाटयिष्यति। 

  अस्माद् वर्षादारभ्य उच्चस्तरीयकक्ष्यासु  अर्धहोरायाः अधिकः शैक्षिककालः कल्पितः। प्रतिवर्षं १२०० होराणां पठनकालः इति निर्णयं दृढीकर्तुमेवायं परिष्कारः। षट् शनिवासराः अपि प्रवृत्तिदिनानि भविष्यन्ति।