OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 30, 2025

 विश्वविजेत्र्यौ महिले। 

पटवातनौकया विश्वप्रदक्षिणं कृतवद्भ्यां 'भारतस्य धीरपुत्रिभ्यां' उज्वलं स्वीकरणम्।

तरणी इति पटवातनौकायां विश्वप्रदक्षिणं कुर्वन्त्यौ रूपा दिल्ना च। 

 

गोवा> विश्वविजेतृरूपेण द्वे युवमहिले गोवायां समुद्रतीरं प्राप्तवत्यौ। राष्ट्ररक्षामन्त्री ते अभिवाद्य हस्तदानेन स्वीकरोति। अनन्तरं महिलाशक्तिमधिकृत्य मन्त्रिणः नाविकाधिकारिणां च  प्रशंसावाक्यानि! 

    नौसेनायाःतरणीति पवनचालितनौकायां समुद्रसञ्चारेण  भूमिं प्रदक्षणीकृत्य द्वे अपि गुरुवासरे सायं गोवायाः तटे अवातरताम्। नौसेनायां लफ्टनन्ट् कमान्डर् पदीये केरलीया के दिल्ना तमिलनाट् राज्यीया ए रूपा च एतादृशसाहसिककृत्याय उद्युक्तवत्यौ। एते भारतस्य धीरपुत्र्यौ इति रक्षामन्त्रिणा राजनाथसिंहेन प्रशंसितम्। 

  गतवर्षे ओक्टोबर् द्वितीये दिनाङ्के  गोवातः एतयोः समुद्रयात्रा आरब्धा। मासाष्टभिः एते चतुर्भिः भूखण्डैः, त्रिभिः समुद्रैः , त्रिभिः भूकोटिभिः च पञ्चाशत् सहस्रं किलोमीटर् दूरं पावनचालितनौकया यात्रां कृतवत्यौ। 

  गोवाराज्यस्य मुख्यकार्यदर्शी डो वि कान्डवेलुः, सायुधसेनायाः स्वास्थ्यसेवा निदेशिका वैस् अड्मिरल् पदीया आरती सरिनः, दक्षिण नाविक कमान्ड् अधिकारी वैस् अड्मिरल् पदीयः वि श्रीनिवासः, प्रशस्तः पटवातनौकासञ्चारी अभिलाष् टोमी इत्यादयः प्रमुखाः स्वीकरणसमारोहे भागं कृतवन्तः।