OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 29, 2025

 भारतेन सह चर्चायै सज्जमिति पाकिस्थानम्।

शहबास शरीफः। 

टेह्रान्> काश्मीरं, जलोपभोगः, व्यापारः इत्यादीनां दीर्घकालीयसमस्यानां परिहाराय भारतेन सह चर्चायै सज्जमिति पाकिस्थानस्य प्रधानमन्त्री शहबास शरीफः प्रोक्तवान्। तेन कृते इरानसन्दर्शने राष्ट्रपतिः मसूद पेसेष्की इत्यनेन सह विधत्ते वार्ताहरसम्मेलने भाषमाणः आसीत् शहबासः। पाकिस्थानं शान्तिमभिलषतीति तेनोक्तम्। 

  भारतेन सह संघर्षे पाकिस्थानम् अनुकूलितवत् तुर्कीराष्ट्रं सम्पश्यानन्तरमासीत् शहबासस्य इरानं प्रति  प्राप्तिः।