अतिवृष्टिदुष्प्रभावेन केरले ह्यः अष्ट मरणानि।
सप्ताहे २६ मरणानि; कोटिशः रूप्यकाणां विनाशः।केरले प्रलयसमाने अतिवृष्टिदुष्प्रभावे लग्नं परिवारः रक्षासेनया अभयस्थानं नीयते।
अनन्तपुरी> केरलराज्य गतसप्ताहेन अनुवर्तमानेन घोरवर्षेण आहत्य षड्विंशति जनाः मृत्युमुपगताः। शुक्रवासरे राज्यस्य विविधस्थानेषु अष्ट जनाः मृताः। विष़िञ्ञं प्रदेशात् मत्स्यबन्धनाय गतवन्तः नव धीवराः समुद्रे मत्स्यबन्धननौकोत्प्लुतेन अप्रत्यक्षाः अभवन्।
राज्यमशेषे निम्नप्रदेशाः जलनिमग्नाः जाताः। शतशः परिवाराः अभयस्थानानि नीताः। शतशः वासगृहाणि भग्नानि जातानि।
अतिवृष्ट्या सह प्रचण्डवातस्य च दुष्प्रभावेण बहुत्र विद्युत् स्थगिता। यातायातानि निश्चलीभूतानि। केदाराणि जले निमज्य द्विशतकोट्यधिकरूप्यकाणां कृषिनाशोSभवदिति कृषिविभागेन निगदितम्।
अद्य त्रिषु जनपदेषु रक्तजागरूकता निर्दिष्टा। अन्येषां जनपदानां 'पीत'जागरूकता निर्दिष्टा। शनिवासरतः वृष्ट्याः तीव्रता आकुञ्चिष्यते इति पर्यावरणविभागेन सूच्यते।