OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 31, 2025

 अतिवृष्टिदुष्प्रभावेन केरले ह्यः अष्ट मरणानि। 

सप्ताहे २६ मरणानि; कोटिशः रूप्यकाणां विनाशः।

केरले प्रलयसमाने अतिवृष्टिदुष्प्रभावे लग्नं परिवारः रक्षासेनया अभयस्थानं नीयते। 

अनन्तपुरी> केरलराज्य गतसप्ताहेन अनुवर्तमानेन घोरवर्षेण आहत्य षड्विंशति जनाः मृत्युमुपगताः। शुक्रवासरे राज्यस्य विविधस्थानेषु अष्ट जनाः मृताः। विष़िञ्ञं प्रदेशात् मत्स्यबन्धनाय गतवन्तः नव धीवराः समुद्रे मत्स्यबन्धननौकोत्प्लुतेन अप्रत्यक्षाः अभवन्। 

 राज्यमशेषे निम्नप्रदेशाः जलनिमग्नाः जाताः। शतशः परिवाराः अभयस्थानानि नीताः। शतशः वासगृहाणि भग्नानि जातानि। 

  अतिवृष्ट्या सह प्रचण्डवातस्य च दुष्प्रभावेण बहुत्र विद्युत् स्थगिता। यातायातानि निश्चलीभूतानि। केदाराणि जले निमज्य द्विशतकोट्यधिकरूप्यकाणां कृषिनाशोSभवदिति कृषिविभागेन निगदितम्। 

  अद्य त्रिषु जनपदेषु रक्तजागरूकता निर्दिष्टा। अन्येषां जनपदानां 'पीत'जागरूकता निर्दिष्टा। शनिवासरतः वृष्ट्याः तीव्रता आकुञ्चिष्यते इति पर्यावरणविभागेन सूच्यते।