'ओखि' दुरन्तेषु १४ जनाः मृताः १२६ जनाः इतःपर्यन्तम् अदृश्याः।
कोच्ची >केरलतीरेषु आधिम् संवर्ध्य ओखि चक्रवातानन्तरावेदनानि। समुद्रे मत्सबन्धनायगतेषु १२६ संख्याकाः धीवराः इतःपर्यन्तम् न प्रत्यागताः। एतेषु १२० जनाः तिरुवनन्तपुरं जनपदस्य विविधकेन्द्रात् गताः एव। षट् पञ्चाशतधिक नवनवशतं जनाः अष्टषष्ठि नौकासु मुम्बै तीरं प्राप्राः इति महाराष्ट्रमुखमन्त्री देवेन्द्रभट्नाविस् अवदत् । चक्रवातेन इतःपर्यन्तं मृतानां संख्या केरलेषु चतुर्दश एव। चक्रवातघटना राष्ट्रदुरन्तत्वेन गणयितुं केन्द्रसर्वकारं प्रति केरलसर्वकारः निवेदनं अयच्छत् ।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, December 3, 2017
Saturday, December 2, 2017
'ओखि' चक्रवातः १३५ किलोमीट्टर् वेगेन लक्षद्वीपे।
कल्पेनी> कन्याकुमारी - केरलतीरेषु नाशं वितीर्य ओखि' चक्रवातः पच्च त्रिंशत्यधिक एकशतं (१३५) किलोमीट्टर् वेगेन लक्षद्वीपे वाति। द्वीपेषु सर्वत्र वार्ता विनिमय संविधानानि भग्नानि। सुरक्षानुबन्धतयया विद्युत् प्रवाहहः रोधितः च।
पूर्वसूचनानुसारं सुरक्षायै क्रियाविधयः स्वीकृताः आसीत् I गृहाणि बहूनि भग्नानि। पादपाः विपादो भुत्वा पतिताः दुरितबाधितान् जनान् सुरक्षित स्थानेषु प्रापयन् अस्ति। चक्रवातभीषा दिद्वयं यावत् अनुवर्तिष्यते इति वातावरण आवेक्षण केन्द्रेण उक्तम्।
नरेन्द्रमोदी भारतस्य एकतायै निष्ठति इति ओबाम ।
भारतस्य एकतानिमित्तम् नितान्त परिश्रमम् कुर्वन् आस्ति नरेन्द्रमोदी इति अमेरिक्काराष्ट्रस्य भूतपूर्व राष्ट्रपतिः ओबोम वर्यः। राष्ट्रस्य पुरोगत्यै यत् अनिवार्यमस्ति तत्कार्यम् नरेन्द्रमोदिना क्रियते इत्यापि तेनोक्तम् । निर्धनानां धनिकानां च मध्ये विद्यमानां निम्नोन्नतां लघूकर्तुम् अभौराष्ट्रौ मिलित्वा शक्यते। राष्ट्रद्वययोः संयुक्तप्रवर्तनेन अपरिहार्यः किमपि नास्तीति ओबामवर्येण सूचितं च।
विश्वचषकपादकन्दुकक्रीडानां गणनिर्णयः कृतः
मोस्को > २०१८तमे रूस् राष्ट्रे सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः गणनिर्णयकार्यक्रमः मोस्कोनगरस्थे क्रम्लिन् राजभवने सम्पन्नः। इङ्लण्ट् राष्ट्रस्य पादकन्दुकेतिहासः गारी लिनेक्करः अवतारकः आसीत्।
आहत्य ३२दलानि अष्ट गणेषु विभक्तानि। गणकल्पना एवमस्ति - "A"- रूस्, सौदि अरेबिया, ईजिप्ट् , उरुग्वे। "B" गणः - पोर्चुगल्, स्पेयिन्, इरान्, मोरोक्को। C गणः - फ्रान्स्, आस्ट्रेलिया, पेरु, डेन्मार्क्। D गणः- अर्जेन्टीना, ऐस्लान्ट्, क्रोयेष्या, नैजीरिया। E गणः - ब्रसील्, स्विट्सर्लान्ट्, कोस्टारिक्का, से सर्बिया । F गणः - जेर्मनी, मेक्सिक्को, स्वीडन्, दक्षिणकोरिया। G गणः - बल्जियम्, इङ्लण्ट्, टुणीष्या, पनामा। । H गणः - पोलण्ट्, कोलम्बिया, सेनगल्, जप्पान्।
Friday, December 1, 2017
ओखि चक्रवातेन समुद्रे २६२ यन्त्रनौकाः अप्रत्यक्षाः अभवत् ।
पून्तुर देशे सर्वकारं विरुद्ध्य प्रक्षोभः।
अनन्तपुरी > अतिवर्षा समुद्रक्षोभः च अनुवर्त्यमाने सन्दर्भे मस्यबन्धनाय गताः नौकाः न प्रत्यागताः ताः कुत्र इति ज्ञातुं सूचनापि नास्ति। कोच्ची देशात् द्विशतं नौकाः मत्स्यबन्धनाय निर्गताः सन्ति। पून्तुरातः संख्याधिकाः धीवराः निर्गताः ते न प्रतिनिवर्ताः। सर्वकारेण पूर्व सूचना यथाकालं न दत्ता इत्युक्त्वा पून्तुरादेशे जनाः प्रतिषेधं कुर्वन्तः सन्ति। रक्षा-प्रवर्तनानि यथाविधि कर्तुं सर्वकारः पराजितः इत्युक्तवा प्रदेशवासिनः मार्गस्य रोधनमकुर्वन् ।
आधारपत्रं भूमितस्करान् विरुद्ध्य आयुधः - भारतस्य प्रधानमन्त्री।
नवदिल्ली > भूमितस्करान् बन्धितुम् अनुयोज्यम् आयुधं भवति आधरपत्रमिति प्रधानमन्त्रणा नरेन्द्र-मोदिना उक्तम्। आधार-पत्रानुबन्धतया केचन असत्यावेदनानि जनानां मध्ये प्रचारयन्ति। धान्य वितरणम् छात्रवृत्तिं निवृत्त कर्मवृत्तिं, सर्वकारस्य अन्ये अर्थसाहाय्याः च यथाविधं जनेषु प्रापयितुम् अत्यन्तमुपकारप्रदमस्ति आधारपत्रद्वारा सम्प्रदायः इत्यपि मोदिना दिल्याम् उक्तम्। जङ्गमदूरवाणीसंख्यायाः आधारपत्रेण सह संबन्धनं जनधन वित्तलेखानां स्थापनं च समूहेषु नूतनक्रमस्य सौलभ्यस्य सन्दर्भः अदात्I पूर्व कालेषु निवृत्तकर्मवृत्तिः व्याजवित्तलेखेषु गच्छन् आसीत्। अधुना भूतस्करान् प्रतिरोद्धुम् अनुयोज्यम् आयुधं भवति आधारपत्रम् इत्यपि प्रधानमन्त्रणा नरेन्द्रमोदिना उक्तम्।
Thursday, November 30, 2017
केरलतीरेषु चक्रवातः वाति, शक्ता वर्षा, चत्वारः मृताः।
जाग्रता निर्देशः प्रसारितः ।
अनन्तपुरम्> कन्याकुमारी देशस्य समीपे भारत महासमुद्रे सञ्जातेन न्यूनमर्देन केरलस्य दक्षिण जनपदेषु मध्यकेरलेषु च शक्तावर्षा I कन्याकुमारी नागर् कोविल् मण्डलेषु चक्रवातः वाति इदानीं। चक्रवातस्य वेगाः प्रति घण्टायां पञ्चसप्ततिः इति। पञ्चाशतधिकाः धीवराः मत्स्यबन्धनाय समुद्रं गत्वा इतःपर्यन्तं नागताः । मण्डलस्य वैद्युतबन्धः भग्नः। गिरिशिखरदेशेषु रात्रिकाल-यात्रा निरुद्धा अस्ति।
वनितासंरम्भकानाम् उन्नत्यर्थं लिङ्गसमत्वम् अनिवार्यम् - इवान्का ट्रम्पः।
हैदराबाद् > उद्योगमण्डलं प्रति वनितासंरम्भकान् आकर्षितुं तेषाम् उन्नमनाय च समाजे लिङ्गसमत्वम् आवश्यकमिति इवान्का ट्रम्पः। हैदराबादे प्रचाल्यमाने आगोल संरम्भत्व उच्चशिखरे 'स्त्रीशाक्तीकरणम्' इतिविषयमधिकृत्य भाषमाणा आसीत् अमेरिक्कायाः राष्ट्रपतेः पुत्री इवान्का।
लिङ्गसमत्वाय प्रगतिरूपाः व्यवस्थाः आवश्यिक्यः। राष्ट्रस्य आर्थिकविकासाय तदनिवार्या। आगोलतले वनितासंरभकाणां संख्या वर्धते एव। विश्वजनसंख्यायाः अर्धभागः महिलाः सन्ति। अतः महिलानां समस्याः न केवलं तासां समस्याः किन्तु मानवीयसमस्याः भवन्ति - इवान्का अवदत्।
कदलीफलस्य कवचेन भाग्यं विन्दति बालिका।
विशेषवार्ता -
चतस्रवयस्का बालिका स्वस्य महत्तरा कर्मणा प्रसिद्घा अभवत्। इतानीं एषा बलिका उत्तराखण्ड राज्यस्य द्वानी नगरपालिकायाः दूतिका वर्तते। मालिन्यागरेण सम्पूर्ण पल्ली निवासिनी इयं बालिका नामधेयेन स्वभावेन च लक्ष्मी एव भवति।
घटना एवमेव आसीत्-
विगते ओक्तोबर् मासस्य एकत्रिंशत् दिनाङ्के द्वानि देशस्ते प्रसिद्धे रामलीला भूतले सर्दार् वल्ल्भायी पट्टेलस्य जयन्ती समारोहः प्रचलत् आसीत्। शिशुवाटिकातः आरभ्य उन्नत विद्यालयछात्राः प्रौढाः च बहवः तत्र सन्निहिताः आसन् । सङ्घाटकैः सदसि विद्यमानाः सर्वाः अपि कदलीफल-पानीयादिभिः सत्कृताः चl सर्वैः खाद्यपानीयादीनि आस्वाद्यनन्तरं फलकवचाः तथा चषकाश्च असन्तस्य अधः वा स्वस्थानस्य समीपभागे च स्थापिताः आसन् । किन्तु इयं बालिका लक्ष्मी, फलकवचं, उपयोगरहितं चषकं च दूरस्थम् अवकरकण्डोले न्यक्षिपत्। एषा स्वमेधया एतत् प्रक्रिया कृता आसीत् । वेदिकायां सदसि च विद्यमानेषु यः कोऽपि चषकः फलकवचं च अवक्षयपात्रे स्थापयितुं न उद्युक्ताः। लक्ष्म्याः सत्कर्मः कम्मीषणर् हर्बीर् सिहेन दृष्टम् । सः ताम् वेदिकायां आहूय अभिनन्दितवान्। सर्वे जनाः ताम् आदर्श रूपेण स्वीकर्तुंम् उपादिशत् च। लज्जिताः जनाः स्वस्य अवक्षिप्तानि अवक्षय पात्रे न्यक्षिपन् च। नगरपालिकाध्यक्षेण एषा लक्ष्मी तदा एव नगरस्य दूतिका रूपेण प्रखापिता। तस्याः अध्ययनं वस्त्रादीनां व्ययः च नगरपालिका संस्थया वोढुमपि निश्चितः अस्ति।
Wednesday, November 29, 2017
हट्ताल्- नष्टपरिहारम् आहर्तुं सर्वेषु राज्येषु न्यायालयाः अवश्यकाः - सर्वोच्चन्यायालयः।
नवदिली> हट्ताल् नाम कर्मप्रतिरोधक्रियया जायमानस्य नष्टस्य गुरुत्वं गणयित्वा नष्टपरिहारं आहर्तुं सर्वेष्वपिराज्येषु तथा केन्द्रशासनप्रदेशेषु च न्यायालयस्य आयोजनाय उच्च न्यायालयेन आदिष्टः। उच्चन्यायालयेन सह संलोच्य एकं वा द्वे जनपद न्यायाधिपानां एतस्य उत्तरदायित्वं देयम् ।सार्वजनिकवस्तूनां नाशनं निवारयितुं नियमानां परिष्कारे एषः नियमः अपि निवेशनीयः इति न्यायाधिपौ ए के गोयल्, यु यु ललित् च आदिशताम्। हट्तालं विरुद्ध्य न्यायवादिनः कोशि जेक्कब् महोदयस्य व्यवहारे निर्णयं कृत्वा आसीत् सर्वोच्च न्यायालयस्य एतादृश आदेशः।
जापानस्य सागरतीरं लक्ष्यीकृत्य उत्तर-कोरिय राष्ट्रेण पुनरपि अग्निसायकं विक्षिप्तम्।
सोल्> लोकान् युद्धभीत्यां पातयित्वा उत्तरकोरियस्य 'बालिस्टिक्' सायकः जापानस्य तीरे पतितः। पञ्चाशत् मिमेषपर्यन्तं डयनं कृत्वा एव पतितः। स्थितिम् आलोकयितुं जापानस्य प्रधानमन्त्री षिन् सो आबे झटित्येव मन्त्रिमण्डलम् आहूतवान् ।
दक्षिणकोरियस्य वार्ताहरसंस्थया योन्हाप् इत्यनेन एव सायक-विक्षेपण वार्ता प्रथमं प्रकाशिता। अनन्तरं तत्रत्याः सेनया तथा यु एस् राष्ट्रेण च वार्तेऽयं प्रमाणीकृता। उत्तरकोरियस्य राजधानीस्थ पोङ्सोङ्तः एव विक्षितः। एतस्य प्रत्युत्तरवत् दक्षिणकोरियः समानशक्तियुत सायकस्य विक्षेपणम् अकरोत्। विगते सेप्तंबर् मासे जापानस्य आकाशमार्गेण उत्तर कोरियराष्ट्रम् अग्निसायकविक्षेपणं कृतमासीत्।
गोवा अन्ताराष्ट्रचलच्चित्रमेला समाप्ता।
पनजी > अष्टचत्वारिशत्तमा गोवा अन्तर्देशीया चलनचित्रमेला समाप्ता। 'एय्ड्स्' रोगं विरुध्य प्रतिरोधप्रवर्तनानि आधारीकृत्य आविष्कृतं '१२० बीट्स् पेर् मिनिट्' नामकं फ्रन्च् देशीयं चित्रं श्रेष्ठतमचित्राय समर्प्यमाणं 'सुवर्णमयूरं' पुरस्कारं प्राप्तवत्। श्रेष्ठः नटः अपि अस्मिन् चित्रे षोण् डाल्मासो नामकं कथापात्रम् अवतारितः नाहुल् पेरस् नामकः अस्ति।
श्रेष्ठा अभिनेत्री इत्यस्य 'रजतमयूरं' पुरस्कारं कैरलीभाषायां साक्षात्कृते 'टेक् ओफ्' नामके चलनचित्रे समीरा नामिकाम् अनुवैद्याम् अनश्वरां कृतवती पार्वती प्राप्तवती। टेक् ओफ् चित्रेण विधिकर्तृृणां सविशेषपुरस्कारः अपि प्राप्तः।
संस्कृतविचारसभायाः अद्य शुभारम्भः।
अनन्तपुरी> संस्कृतभाषां सार्वजनिकं कर्तुमुद्दिश्य केरलसर्वकारस्य सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी अद्य अनन्तपुर्यां उद्घाटयिष्यति। विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् एव कार्यक्रमः।
अद्य प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् महोदयस्य आध्यक्ष्ये केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथवर्येण संगोष्याः उद्घाटनं क्रियते। नगरपालः वी.के.प्रशान्तेन मुख्यातिथिरूपेण वर्तिष्यते। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् महोदयः, राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निर्देशकः डो. जे. प्रसादः च भागभाजः भविष्यति। डो. पी. नारायणन् नम्पूतिरिवर्यः, प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धावतारणं करिष्यतः॥
Tuesday, November 28, 2017
सहिष्णुतया सह स्वीकार्यता च स्वामि विवेकनन्द्रः पाठितवान् - सन्यासिः मोक्षव्रतानन्दः ।
अनन्तपुरी > सहिष्णुतया सह स्वीकार्यता च स्वामि विवेकनन्द्रः पाठितवान् इति श्रीरामकृष्ण मठस्य सन्यासिवर्यः मोक्षव्रतानन्दः अवदत्। स्वामी विवेकानन्दस्य पञ्चविंशत्यधिकशताब्दिपर्वणानुबन्धतया आयोजिते राज्यस्तरीय मेलने भाषमाणः आसीत् सः । त्यागः सेवा च भवतः भारतस्य आत्मा इति स्वामि विवेकानन्देन स्वजीवनेन उद्बोधितः इति च सः अवदत् I
अपरिमितकोटिजनानां मानसेषु अधुनापि जीवति विवेकानन्दः इति केरलस्य मुख्यमन्त्री पिणरायि विजयः अवदत् । राज्य सर्वकास्य सांस्कृतिक-कार्य-विभागेन कार्यक्रमोऽयम् आयोजितः।
उदरे त्रिषष्ट्युत्तरद्विशतम् नाणकैस्सहितम् पञ्चकिलोमितम् अय: ; स्तब्धा: वैद्या:।।
भोपालम्> मध्यप्रदेशीयस्य युवकस्य उदरात् शस्त्रक्रियया त्रिषष्ट्युत्तरद्विशतम् नाणकानि शतम् आणी: तथा आहत्य पञ्चकिलोमितम् अय: बहिर्निष्कासितम्। उदरवेदनया आतुरालयम् प्रवेशितस्य पञ्चत्रिंशत् वयस्कस्य मुहम्मद् मकसुदीनस्य उदरादेव पञ्चकिलोमितानि अयोवस्तूनि प्राप्तानि। एक्स्रे मध्ये अयस्सान्निध्यं दृष्ट्वा शस्त्रक्रियायै एनं विधेयमकरोत्
वृद्धकोशानामपि तारुण्सामर्थ्यम् विज्ञाय गवेषकाःI
नवयौवनं सर्वेपि इच्छन्ति एव l आरोग्ययुक्त आयु: सम्पादनाय मनुष्यशरीरस्य पलितकोशान् अपि उपयोक्तुं शाक्यते इति लण्टन् एक्सटर् विश्वविद्यालयस्य गवेषकाः । रक्तवर्ण आसव-पानीये चाकलेहे द्राक्षाफले च अन्तर्लीन रवरसाट्रोलिनस्य शक्तिः असाधारणा भवति इति तैः निरीक्षितम् । बि एम् सि सेल् बयोलजि नाम पत्रिकायां अध्ययनमिदं प्रकाशितम्।
एकाधिपतयः निर्वाचनं उद्घण्ठाजनकम् - रघुराम् राजः
नव दिल्ली> निर्वाचितः सर्वकारः स्वस्य अधिकारिणः वाचं एव निशम्य प्रवर्तने निरतः चेत् स्कलिते पतितुं सन्दर्भः भविष्यति इति रिज़र्व बैङ्कस्य भूतपूर्वाध्यक्षः रघुराम राजः वदति। एतस्य परिहाराय सर्वेषां अभिमतानि ज्ञात्वा शासकाः वार्तिष्यमाणाः भवन्तु। निर्वाचन प्रक्रियया स्वेच्छाधिपतयः शासने मा आगच्छेयुः एवं चेत् तत् उद्घण्ठास्पदं भवति इत्यपि रघुरामराजेन अभिप्रेतम्।
करः सर्वे दातव्यम् । सर्वकाराः जनेभ्यः सेवनसुविधा: विधातुं स्पर्ष्यमाणः भूयात् । प्रतिषेध प्रकाशनाय सन्दर्भः जनाधिपत्य संविधानस्य पोषणाय भवति इत्यपि अवदत् रघुरामराजः।Monday, November 27, 2017
अग्निपर्वतविस्फोटनम् - पूर्व सूचना दत्ता - बालि विमाननिलयं पिधानं कृतम् ।
जक्कार्ता >विनोदाय बालिद्वीपं गतवन्तः तत्रैव प्रतिबन्धिताः I अग्नि पर्वत शिखरात् भस्मः धूमः च बलि अन्ताराष्ट्र विमाननिलयस्य समीपं प्राप्तौ इत्यनेन विमाननिलयं पिधानं कृतम्। अत एव यात्रिकाः प्रतिबन्धिताः अभवन्। बालिद्वीपस्य मौण्ट् अगुङ् अग्निपर्वतेन एव भीषा उद्पादिता। जाग्रता निर्देशानुबन्धतया उपशतं विमानाति स्थगितानि। सप्त विमानाति जक्कार्त 'सुरबाय, सिङ्गपुर मार्गण पथपरिवर्तनानि कृतानि।
मार्पाप्पा अद्य म्यान्मार् प्राप्नोति।
याङ्कोण् > रोहिङ्ग्यन् अभयार्थिनां विरुध्य सैनिकक्रियाभिः लोकराष्ट्राणाम् अभिशंसनपात्रं म्यान्मार् राष्ट्रं अद्य फ्रान्सिस् मार्पाप्पावर्यः प्राप्नोति। आङ् सान् स्यूची, तिन् क्यो इत्येतैः राष्ट्रनेतृभिः सह पाप्पावर्यः श्वः मेलनं करिष्यति। अपि च राष्ट्रस्य बौद्धधर्मनेतृभिः साकं चर्चां करिष्यति।
आङ् सान् स्यूचिनः प्रधानमन्त्रिपदप्राप्त्यनन्तरं म्यान्मर् राष्ट्रेण सह वत्तिक्कान् राष्ट्रस्य नयतन्त्रबन्धः आरब्धः आसीत्। पाप्पावर्यस्य प्रथमं दक्षिणेष्यन् सन्दर्शनं भवत्येतत्।
विश्वे संस्कृतस्य महत्त्वं वर्धमानम् अस्ति। - डो बलदेवानन्दसागर:
संस्कृतसेवासमितिः एच.के. आर्ट्स-महाविद्यालयः च इत्यनयोः सहयोगेन
मङ्गलवासरे संस्कृतभाषायाः वरिष्ठस्य विदुषः प्रवाचकस्य डो
बलदेवानन्दसागरस्य व्याख्यानस्य आयोजनमभवत्। महोदयेन आकाशवाण्यां दूरदर्शने
च अनेकानि वर्षाणि यावत् प्रवाचन-भाषान्तरादिभिः कार्यैः सेवा दत्ता
अस्ति। आधुनिक-वैज्ञानिकयुगे संस्कृतस्य महत्त्वं प्रस्थापयितुं महोदयेन
उक्तम् यत् संस्कृतस्य महत्त्वं शनैः शनैः वैश्विकस्तरे वर्धितमस्ति।
वैद्युताणविक-सञ्चारमाध्यमेषु न केवलं भारतीयाः अपि तु वैदेशिकाः
संस्कृतभाषां पठितुं प्रयत्नरताः सन्ति। ट्विटर् फेसबुक ब्लोग व्होट्स-एप्
एन्ड्रोइड् यु-ट्युब् इत्यादिषु www इति विश्वव्यापि-जालस्थानेषु
संस्कृतस्य उपयोगः वर्धितः अस्ति। नैके जनाः एतेषु माध्यमेषु संस्कृतस्य
प्रयोगं कुर्वन्ति। अद्यत्वे संस्कृतभाषया जीवितभाषारूपेण जनानां मनस्सु
स्थानं स्वीकृतमस्ति। बालानां नैतिकमूल्यवर्धनाय विविधाः एनिमेटेड् इति
चलचित्रकथाः सरलतया उपलभ्यन्ते। वार्तापत्राणि पत्रिकाः च नियमितं
प्रकाश्यन्ते। चतुर्षु विश्वविद्यालयेषु सञ्चारमाध्यमेषु
संस्कृतपत्रकारितायाः अभ्यासक्रमः चलति। संस्कृतं विश्वभाषारूपेण
सर्वस्वीकृता जायमाना अस्ति।newzviewz
Sunday, November 26, 2017
पाकिस्थाने निजीय दूरदर्शन वाहिन्यः निरोधिताः
इस्लामबाद् > पाकिस्थानस्य राजधान्यां इस्लामबादे प्रतिषेध समरंकृतवतः विरुध्य सेनया कृतायाः प्रतिक्रियायाः तत्समयसंप्रेषणं कृतवन्तः निजीय दूरदर्शनानि। किन्तु अनेन कारणेन एव एतेषां दूरदर्शनानां सम्प्रेषणे बाधा अभवत् । पाकिस्थानस्य विद्युत्माध्यम अयोगस्य एव आदेश: । सैनिक प्रतिक्रियायाः सम्प्रेषणं माध्यम नियन्त्रण-नियमस्य विरुद्धः इत्यनेनैव ह्रस्व -काल नियन्त्रणम् । किन्तु सर्वकारीय दूरदर्शनस्य नियन्त्रणं नास्ति।
द्विसप्ताहं यावत् मार्ग-पिधानं कुर्वन्तः आसीत् जनाः । आरक्षकानाम् उपरि अपि आक्रमणानि कृत्वा आमासीत् प्रतिषेधः। मार्गोबन्धः, पाषाण-खण्डप्रेषणम् च प्रतिषिध्य जनाः कृताः । एतान् स्वाधीनंकर्तुं अश्रु वातः प्रयुक्तवान् सैन्यः । एतत् सर्वं माध्यमैः तत्समयं सम्प्रेषितम् ॥
उच्च न्यायालयेषु वनिता- दलित सान्निध्यं न्यूनं - राष्ट्रपतिः रामनाथ कोविन्दः
नवदिल्ली> उन्नतन्यायालयेषु वनितानां तथा दलित-विभागानां च प्रतिनिध्यं अल्पं एव इत्यनेन उद्घण्ठितः अस्ति इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। लो कम्मीषन् आफ् इन्त्या, नीति आयोग् एतयोः संयुक्त सम्मेलनम् उद्घाटनंकृत्वा भाषमाणः आसीत् सः। ओ बि सि, अनुसूचित-विभागजानां च प्रातिनिध्ये बहुकालादारभ्य न्यूनत्वं असीत् । तत् अस्वीकार्यः एव। वनितानां तु चतुर्षु एका इति क्रमेण भवति, तस्मादपि अधिकं भवतु कालान्तरेण, इत्यपि राष्ट्रपतिना उक्तम्। जानपदीय संसद् न्यायालयस्य न्यायाधिपानां वैभवाः संवर्ध्य तान् उन्नतन्यायालयं प्रति नयेत् । अस्य उत्तरदायित्वमपि उन्नतन्यायालयानाम् एव। किन्तु न्यायविधाने न्यूनता कदापि मास्तु इति च राष्ट्रपतिना अक्तम्।
भारतश्रीलङ्कादलयो: द्वितीयक्रिकेटस्पर्धा
भारतश्रीलङ्कादलयो: तिसृणां क्रिकेटस्पर्धामालिकाया: द्वितीया स्पर्धा नागपुरे प्रवर्तितास्ति । प्रथमपाल्यां प्रथमे दिने श्रीलङ्कया पञ्चोत्तरद्विशतं धावनाङ्का: सम्पादिताः आसन्। लक्ष्यमनुसरता द्वितीयदिवसीयक्रीडावसानं यावत् भारतीयदलेन प्रथमपाल्यां क्रीडकद्वयस्य हानौ द्वादशोत्तरत्रिशतं धावनाङ्का: विनिर्मिता: सन्ति । भारतम् अद्य तृतीये दिवसे सप्तोत्तरैकशतं धावनाङ्कानां वृद्धिपुरस्सरम् अग्रे क्रीडिष्यति ।
विद्यालयेषु नवोत्थानप्रतिज्ञा श्वः।
कोच्ची > केरलराज्ये विद्यालयेषु श्वः छात्रैः नवोत्थानप्रतिज्ञा करणीया इति शैक्षिकविभागस्य आदेशः। स्वामिविवेकानन्दस्य केरलसन्दर्शनस्य १२५तमं वार्षिकं 'विवेकानन्दस्पर्शम्' इति नाम्ना राज्ये आचरिष्यति। अस्य भागतया एव नवोत्थानप्रतिज्ञा करणीयेति निर्देशः।
नवम्बर् २७ दिनाङ्कादारभ्य डिसम्बर् २२ पर्यन्तं सांस्कृतिकविभागस्य नेतृत्वे राज्ये विविधाः कार्यक्रमाः आयोक्ष्यन्ते। सर्वेषु जनपदेषु सांस्कृतिकमेलनानि , कलाप्रदर्शनानि च आयोक्ष्यन्ते इति मन्त्रिणा ए के बालेन निगदितम्।
Subscribe to:
Comments (Atom)





