राजा रविवर्मणः 'यशोदा कृष्णश्च' चित्रं १६७. २ कोटि रूप्यकेभ्यः विक्रीतम्।
भारते कस्मैश्चित् चित्राय लब्धम् उच्चतममूल्यम्। 
राजा रविवर्मा, तेन विरचितं चित्रं च।
मुम्बई> विश्वचित्रकारेषु विख्यातः केरलीयः राजा रविवर्मा इत्यनेन विरचितं 'यशोदा कृष्णश्च' इति कृतनामधेयं वर्णचित्रं भारतीय घोषणपूर्वकद्रव्यविक्रयविपण्याम् अभिलेख्यमूल्यं प्रलब्धम्। १६७. २ कोटि रूप्यकाणि दत्वा 'सिरम् इन्स्टिट्यूट ओफ् इन्डिया' संस्थायाः अध्यक्षः सैरस् पूनावाला चित्रं क्रीणाति स्म। मुम्बई नगरम् आस्थानत्वेन वर्तमाने 'सफ्रोण् आर्ट्' [Saffron Art] नामके घोषणपूर्वकद्रव्यविक्रयकेन्द्रे आसीत् विक्रयव्यवहारः जातः। भारते कस्मैश्चित् चित्राय घोषणपूर्वकद्रव्यविक्रयेण लब्धम् उच्चतममूल्यमस्ति १६७. २ कोटि।
केरले किलिमानूर् राजभवने १८४८ तमे वर्षे लब्धजन्मा रविवर्मा १८९० तमवर्षेषु इदं वर्णचित्रं विरचितवान् इति सूच्यते। पुराणेतिहासकथाः आसन् तस्य चित्राणामितिवृत्तम्।