OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 29, 2017

संस्कृतविचारसभायाः अद्य शुभारम्भः।
         अनन्तपुरी> संस्कृतभाषां सार्वजनिकं  कर्तुमुद्दिश्य  केरलसर्वकारस्य सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी अद्य अनन्तपुर्यां उद्घाटयिष्यति। विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् एव कार्यक्रमः।
        अद्य प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् महोदयस्य आध्यक्ष्ये केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथवर्येण संगोष्याः उद्घाटनं क्रियते। नगरपालः वी.के.प्रशान्तेन मुख्यातिथिरूपेण वर्तिष्यते। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् महोदयः, राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निर्देशकः डो. जे. प्रसादः च भागभाजः भविष्यति। डो. पी. नारायणन् नम्पूतिरिवर्यः, प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धावतारणं करिष्यतः॥