कुडनकुलमपरमाणु-ऊर्जापरियोजनायाः प्रथमम् एककं राष्ट्राय समर्पितम्
नवदेहल्ली>प्रधानमंत्री नरेन्द्र मोदी रूसस्य राष्ट्रपतिः ब्लादिमिर पुतिनः वीडियोकांफ्रेसिंग इति दृश्यश्रव्यसञ्चारमाध्यमेन कुडनकुलमपरमाणु-ऊर्ज़ापरियोजनायाः प्रथमम् एककं देशाय समर्पितम् ।
कार्यक्रमस्मिन् तमिलनाडोः मुख्यमंत्री जयललितापि वीडियोकॉन्फ्रेंसिंग इतिदृश्यश्रव्यसञ्चारमाध्यमेन समुपस्थिता अवर्तत।
अध्यापकशून्यताः सूचिताः-  पी एस् सी  नियमने 
उदासीनतां प्रकटयति ।।
             कोच्ची> अध्यापकानां दौर्लभ्येन   केरळेषु 
सर्वकारीयविद्यालयाः क्लेशमनुभवन्ति । परीक्षायाम् आसन्नायां  स्थितिरेषा 
छात्रानपि कष्टतागर्तं पातयन्ति ।  कण्णूर् मण्डले  एव उप अशीति 70 सङ्ख्यकाः कर्मस्थानानि  रिक्तानि सन्ति । 
 घट्टद्वयेन पी एस् सी अधिकारिणः ज्ञापिताः चेदपि फलं नाभवदिति अत्यन्तं 
कष्टकरम्। 



