OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 23, 2016

आगमानन्दस्वामिनः जीवनदर्शनं नववंशीयेभ्यः मार्गदर्शकम् - एम् वि नटेशः।
आगमानन्दपुरस्कारेण अय्यम्पुष़ा हरिकुमारः के सुतः च समादृतौ।

कालटी> अद्वैतवेदान्तिश्रेष्ठस्य तथा समाजपरिष्कर्तुः आगमानन्दस्वामिनः आध्यात्मिकजीवनं जीवनदर्शनं च नूतनपरम्परायां युवकेभ्यः मार्गदर्शकं भवतीति श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागप्राचार्यः एम् वि नटेशः।आदिशङ्कराचार्यस्य जन्मना पवित्रीकृतायाम् अद्वैतभूम्यां कालट्यां समायोजितं १२१तमम्  आगमानन्दजयन्तिसम्मेलनम् उद्घाटनं कृत्वा भाषमाणः आसीत् नटेशवर्यः। समाजोद्धारणं - विशिष्य दलितवंशीयानां प्रगतिः - संस्कृतप्रचारणं च तस्य महानुभावस्य श्वासोच्छ्वासौ आस्तामिति तेनानुस्मृतम्।
      अस्मिन् कार्यक्रमे सर्वोत्तमसंस्कृतप्रचारकाय दीयमानः आगमानन्दपुरस्कारः सम्प्रतिवार्तायाः मुख्यसम्पादकाय अय्यम्पुष़ा हरिकुमाराय दत्तः।अचिरेणैव कालेन सम्प्रतिवार्ताः इति अन्तर्जालदिनपत्रिका आभारतं संस्कृतानुरागिणां मध्ये प्रशंस्यमाना वर्तते, अपि च इदंप्रथमतया छात्राणां वार्तावाचनसंप्रेषणमपि संयोज्य अध्यापकेषु छात्रेषु च नवोत्साहं जनयन्ती वर्तते इति हरिकुमारस्य संस्कृतप्रचरणं परिचाययन् आगमानन्दस्मारकसमित्याः कार्यकर्तृप्रमुखः प्रोफ. पि वि पीताम्बरः अब्रवीत्।
  दलितविभागक्षेमप्रवर्तकाय दीयमानः पुरस्कारः कूवप्पटि स्वदेशिने के. सुताय समर्पितः। कार्यक्रमे अस्मिन् समित्याः अध्यक्षःप्रोफ. के एस् आर् पणिक्कर् महाशयः अध्यक्ष पदमलंकृतवान्। आचार्यः एम् के कुञ्ञालः, संस्कृतपपण्डितः एम् के वावुक्कुट्टिवर्यः, प्रोफ.टि.एन् शङ्करप्पिल्लै वर्यः , केएन् चन्द्रप्रकाशः च भाषणं कृतवन्तः।