OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 9, 2016

इरानीयः आणवशास्त्रज्ञः मृत्युपाशेन व्यापादितः। 
टेह्रान् >स्वकीयानि सुप्रधानानि आणवरहस्यानि अमेरिक्काये समार्पयत् इत्यारोप्य इरान् राष्ट्रेण स्वाणवशास्त्रज्ञः षह्राम् अमीरी नामकः मृत्युपाशेन मारितः। इरानस्य न्यायालयवक्त्रा एषा घटना स्थिरीकृता।
    इरान् राष्ट्रस्य आणवपद्धतिमधिकृत्य सूक्ष्मज्ञानम् आर्जितवान् अमीरी २००९ तमे मक्का तीर्थाटनकाले अप्रत्यक्षः आसीत्। संवत्सरैकानन्तरं सः अमेरिक्कायां दृष्टः । ततः २०१०तमे तम् आघोषपूर्वं स्वीकृत्य स्वदेशम् इरानं प्रत्यानीतवन्तः। अमेरिक्कया अपहृतः सः इरानस्य आणवरहस्यानि विज्ञापयितुं निर्बन्धितः इति तेनैव निगदितम्। किन्तु सः स्वयमेव अमेरिक्कां प्राप्य रहस्यानि दत्तवानिति अमेरिक्कया विज्ञापितम्।
    अनन्तरं कृते अन्वेषणे अमीरिणा चारवृत्तिः कृता इति विज्ञाय सः मृत्युदण्डेन विहित इति इरान् राष्ट्रेण स्पष्टीकृतम्।