OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, August 13, 2017


ब्लू वेयिल् नाम चलदूरवाणि क्रीडा - केरलस्य मुख्यमन्त्री प्रधानमन्त्रिणे पत्रं प्रेषितवान्।
 अनन्तपुरी > ब्लू वेयिल् नाम चलदूरवाणि क्रीडायाः प्रचारः प्रतिरोद्धुं अवश्यं कर्माणि स्वीकरणीयानि इति केरल राज्यस्य मुखमन्त्री श्रीमान् पिणरायि विजयः प्रधानमन्त्रिणे मोदिमहोदयाय पत्रं प्रेषितवान्। बालकान् लक्ष्यीकृत्य विनोदार्थं निर्मिता इयं क्रीडा बुद्धिभ्रमं उत्पाद्य  सङ्ख्याधिकानां बालकानां जीवाः अपहृताः। क्रीडेयं निरुद्ध्य अन्तर्जाले अनुपलब्धिं कृत्वा विविध सर्वकारीयविभागाः क्रियाविधयः स्वीकरणीयाः इति च मुख्यमन्त्रिणा अभ्यर्थितः।
अध्यापकाः मार्गदर्शिनः भवन्तु - प्रोफ. शान्तकुमारी
गुरुवायूपुरम्> इदानीन्तनलोके अध्यापकाः छात्राणां मार्गदर्शिनः भवन्तु। एतदर्थं संस्कृताध्यापकानाम् उत्तरदायित्वम् अधिकतया अस्ति इति प्रोफ. शान्त कुमारी महाभागा अवदत्। संस्कृत-अध्यापक फेडरेषनस्य प्रप्रथमस्य राज्यस्तरीय वनितासङ्गमस्य उद्घाटन सन्दर्भे अध्यक्षभाषणं कुर्वन्ती आसीत् सा। उत्तम छात्राणां सृष्टिः अध्यापकाश्रितः भवति इत्यपि अनया महाभागया उक्तम्। त्रिश्शिवपेरूर् जिलापञ्चायत्त् अध्यक्षा श्रीमती षीला विजयकुमारमहाभागा सम्मेलनस्य उद्घाटनं कृतवती। डी के सन्तोष् कुमारः, श्रीमती निर्मला केरलन्, श्रीमती षैलजा देवन् , शोभा हरिनारायणन्, डॉ विश्वजा एस् नायर्। श्रीमती लतिका श्रीमती रती प्रमृतयः वनिता प्रमुखाः भागं स्वीकृतवन्तः। माध्यम मण्डलेषु संस्कृतभाषायाः स्वाधीनता इति विषयमधिकृत्य वार्तावतारिका अश्वतीविजयमहाभागा सङ्गोष्ठीं चालितवती। अध्यापकानां सेवाकार्य सम्बन्ध विषयेषु संशयनिवृतिः च  श्रीमता नारायणमहोदयेन कृतम् ।

ईजिप्ते रेल्यानानि सङ्घट्य पञ्चविंशति: जना: मृतवन्त:, अनेके व्रणिताश्च।।
 केय्रो>ईजिप्तस्य तीरदेशनगरस्य अलक्सान्ड्रियाया: समीपे रेल्यानद्वयम् सङ्घट्य पञ्चविंशति: जना: मृतवन्त:, उपपञ्चषष्टि: जना: व्रणिताश्च। केय्रोत: प्रस्थितं रेल्यानम् पोर्ट् सेय्दिलत: प्रस्थितेन रेल्यानेन सह साक्षात् घट्टित्वा एव अपघात:। मरणसङ्ख्या वर्धेत् इति सूचना। अपघातकारणम् अव्यक्तमेव। रक्षाप्रवर्तनाय विदग्धसङ्घ: अपघातस्थानम् प्राप्त:। खोर्षिद्रेल्स्थानकस्य प्रान्तप्रदेशे एव रेल्याने परस्परं घट्टिते इति माध्यमा: न्यवेदयन्।

Saturday, August 12, 2017

भारत-चीन राष्ट्रयोः संघर्षः- सीमायां सैनिका: अधिकतया विन्यस्थाः।
सिक्किम्> भारतचीनयोः मिथः जायमानः तर्कविषयः इदानीं सङ्घर्षकलुषितः जातः इत्यनेन सीमायां भारतेन चतुशतोत्तर एकसहस्रं किलोमीट्टर् भागेषु अधिकाः सैनिकाः विन्यस्थाः। सिक्किम् अरुणाचल प्रदेशेषु एव सेनाविन्यासः। अतीवजाग्रता निर्देश: अपि सेनायै घोषितः। सीमनि विद्यमानां अवस्थां परिगणय्य एव एतादृशनिर्देशः। पञ्चचत्वारिंशत् सहस्रं सैनिकाः एवं विन्यस्थाः इति सैनिककेन्देण उक्तम्। वार्ता - PTI

Friday, August 11, 2017

भारतमहासमुद्रस्य सुरक्षायै साह्यं कर्तुं चीनः सन्नद्धः
नवदिल्ली> भारतमहासमुद्रस्य सुरक्षावर्धनाय चीनः भारतेन सह सख्यं कर्तुं सन्नद्धा इति चीनस्य नाविकसेना। भारतस्य समुद्रमण्डले चीनस्य स्वाधीनतां वर्धते इत्याशङ्कायाम् आसीत् एतादृशं वाग्दानमिति अद्भुतः। चीनस्य सौत् सी फ्लीट् बेस् नाम स्थाने सन्दर्शनाय भारतस्य माध्यमप्रवर्तकाः चीनेन निमन्त्रिता। ऐदंप्राथम्येन एव आसीत् चीनस्य पक्षतः एतादृशं प्रवर्तनम्। भारतमहासमुद्रः राष्ट्रान्तरसमूहस्य सार्वजनीनप्रदेशः इति चीनस्य पीप्पल्स् लिबरेषन् आर्मि नाम सैन्यविभागेन उक्तम्। लोके सर्वत्र चीनस्य नाविकसेनायाः सान्निद्ध्यं भवतु इति नयानुसारमेव भवति अयं निदेशः इति अनुमीयते।

Thursday, August 10, 2017

खत्तर् राष्ट्रं प्रति डयितुं इदानीं 'वीसा' नावश्यकी। भारतीयानां त्रिंशत् दिनानां 'वीसा' अनुकूलता लभ्यते।
नवदेहली> खत्तर् राष्ट्रं सन्दर्शितुं इदानीं वीसा नावश्यकी। भारतेन सह अशीति राष्ट्राणां जनानां वीसारहितं प्रवेशनं दातव्यमिति खत्तरेण निर्णीतम्। झटित्येव निर्णयमिदं कार्यान्वयीकरिष्यति। भारतात् आगतानां कृते प्रथमं त्रिंशत् दिनानां वीसा रहित अनुमतिः लभ्यते। अनन्तरं त्रिंशत् दिनानां कृते आवेदनं दातव्यम्। खत्तर विनोदसञ्चाराध्यक्षेण हसन् अल् इब्राहिमेन उक्तमिदम्।
  भारतमतिरिच्य यु.एस्, ब्रिट्टन्, कानटा, दक्षिणाफ्रिक्का, सीषेल्स्, ओस्ट्रिया, न्यूसिलाण्ड् इत्यादि अशीति राष्ट्राणां जनानां वीसा अनुकूलता प्रख्यापिता। एतेषां राष्ट्राणां जनानां वीसायाः अनिवार्यता नास्ति। व्योमयानक्षेत्रे तथा जलनौकास्थाने वा गमनागमन पत्रं तथा षण्मासकालावधिवान् पास्पोर्ट् समर्पिष्यति चेत् वीसा अनुकूलता रेखां दातुमेव अधिकृतैः आलोच्यते। वीसा अनुकूलता द्विप्रकारेण स्यात्। भारतेन सह सप्तचत्वारिंशत् राष्ट्राणां  प्रथमं त्रिशत् दिनानां वीसा अनुकूलता लभ्यते। ओस्ट्रियया सह त्रस्त्रिंशत् राष्ट्राणां कृते प्रथमं नवति दिनानां वीसा अनुकूलता लभ्यते आहत्य अशीत्युत्तर एकशतदिनानां वीसा अनुकूलता लभ्यते। यु.एस् ब्रिट्टन् च अस्मिन् सूच्यां वर्तेते।

Wednesday, August 9, 2017

संस्कृतवाद्यवृन्दस्य प्रस्तुतिः
नवदेहली>मंगलवासरे राजधान्यां नवदिल्ल्यां संस्कृतसप्ताहमहोत्सवमभिलक्ष्य दिल्ली-संस्कृत-अकादम्या दिल्ली विश्वविद्यालयस्य अङ्गभूते  जाकिरहुसैन्  सान्ध्यमहाविद्यालये विशिष्टः आधुनिक संस्कृतसंगीतकार्यक्रमः समायोजितः। कार्यक्रमस्य मुख्यातिथित्वं नवभारतटाइम्स इति वार्तापत्रस्य सहायकसम्पादकेन डॉ.अश्विनी शास्त्रिणा सम्भालितम्। कार्यक्रमस्य अाध्यक्षं महाविद्यालस्य प्राचार्येण डॉ. मशरूर-अहमद-वेगेन विहितम्।  नादप्रकर्षसंस्कृतवाद्यवृन्दस्य मनोहरप्रस्तुतिम् आस्वाद्य श्रोतृवृन्देन भृशं संगीत रसावगाहनं कृतम्।  अस्मिन्नवसरे मुख्यातिथिवर्येण प्रोदीरितं यत् नादप्रकर्षवाद्यवृन्दस्य सदस्यैः स्वीयमनोरमप्रस्तुतिबलेन तानि सर्वाण्यपि मिथकानि निराकृतानि यानि संस्कृतस्य प्रतिष्ठायां प्रश्नचिह्नान्युपस्थापयन्ति स्म।  कार्यक्रमस्याध्यक्षेण छिन्ने मूले नैव वृक्षो न शाखा  इति श्लोकयता  प्रतिपादितं यत् साम्प्रतिकसमस्यानां प्रमुखकारणं मूलात् पृथग्भवनमेव वर्तते, अतः सर्वसधारणजनै: स्वीयप्रतिष्ठामुपस्थापयितुं संस्कृतभाषया सह सम्पृक्तिः परमावश्यकी।                       
मरुभूमौ बेल्जियाद् महन्नगरं निर्मातुं  सज्जीभूय सौदी।
रियाद् > तैलविपणिः सौदी अरेब्यायाः सम्पद्घटनायाः कशेरुका भूत्वा अर्धशतकमतीतम् । किन्तु अद्यत्वे तैलविपणौ सौदिराष्ट्रस्य लक्षितलाभप्राप्तिः नास्ति। अतः स्वराज्यस्य अपरां प्रकृतिसम्पदं मरुभूमिं सिकतां च अत्यन्तम् उपयोक्तुं   सज्जीभवति सौदी।
सहस्रशः चतुरश्रकिलोमीटर् यावत् व्याप्य तिष्ठन्तीषु मरुभूमिषु सिकतानगराणि सज्जीकर्तुम् उद्यता अस्ति सौदि अरेब्या| नूतनाजीविकासाधानानि स्रष्टुं सम्पद्घटनायै ऊर्जं प्रदातुम् च नूतना पद्धतिः आविष्क्रियते।

Tuesday, August 8, 2017

श्रीशान्तस्य अभिशापः उच्चन्यायालयेन निरस्तः।
कोच्ची > पणाय अन्वचरत् इत्यारोप्य पूर्वतन भारतीयक्रिक्कट् क्रीडकस्य  श्रीशान्तस्य भारतीय क्रिक्कट् नियन्त्रण समित्या [बि सि सि ऐ] आयोजितः अभिशापः उच्चन्यायालयेन निरस्तः। श्रीशान्तः बि सि सि ऐ संस्थायाः व्यवहारनीतिम् उल्लङ्घितवान् इत्यस्य प्रमाणानि न विद्यन्ते इति एकाङ्गनीतिपीठेन निर्दिष्टम्।
    परस्परव्याजक्रीडायै श्रीशान्तः सन्नद्धः अभवत् इत्यस्य किमपि प्रमाणं नोपलब्धमिति न्यायासनेन निरीक्षितम्। व्याजक्रीडार्थं पणकेन उन्नीतेषु निर्देशेषु न परिपालितेषु समित्या इतःपरम् अवधानतया प्रमाणानि स्वीकर्तव्यानि आसन्निति नीतिपीठेन उक्तम्।
काश्मीरे अनधिकृतप्रवेशाय यतमानान् पञ्च आतङ्कवादिनः सैन्यम् अहन्। 
श्रीनगारम् >जम्मूकाश्मीरस्थे माच्च् सेक्टर् इत्यस्मिन्  अनधिकृतप्रवेशाय यतमानान् पञ्च आतङ्कवादिनः भारतसैन्यम् अहन्। महान् अनधिकृतप्रवेशयत्नः एव सैन्येन पराजितः इति प्रतिरोधविभागवक्ता अवदत्। हतातङ्कवादिभ्यः बहूनि आयुधानि लब्धानि। मेखलासु सैन्यं परिशोधयत् अस्ति इति प्रतिरोधमन्त्रालयवक्ता केणल्  राकेष् कालिया अवदत् । अस्मिन् वर्षे नियन्त्रणरेखायां ४० आतङ्कवादिनः एव सैन्यम् इतः पर्यन्तं हतवत् ।