OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 10, 2017

खत्तर् राष्ट्रं प्रति डयितुं इदानीं 'वीसा' नावश्यकी। भारतीयानां त्रिंशत् दिनानां 'वीसा' अनुकूलता लभ्यते।
नवदेहली> खत्तर् राष्ट्रं सन्दर्शितुं इदानीं वीसा नावश्यकी। भारतेन सह अशीति राष्ट्राणां जनानां वीसारहितं प्रवेशनं दातव्यमिति खत्तरेण निर्णीतम्। झटित्येव निर्णयमिदं कार्यान्वयीकरिष्यति। भारतात् आगतानां कृते प्रथमं त्रिंशत् दिनानां वीसा रहित अनुमतिः लभ्यते। अनन्तरं त्रिंशत् दिनानां कृते आवेदनं दातव्यम्। खत्तर विनोदसञ्चाराध्यक्षेण हसन् अल् इब्राहिमेन उक्तमिदम्।
  भारतमतिरिच्य यु.एस्, ब्रिट्टन्, कानटा, दक्षिणाफ्रिक्का, सीषेल्स्, ओस्ट्रिया, न्यूसिलाण्ड् इत्यादि अशीति राष्ट्राणां जनानां वीसा अनुकूलता प्रख्यापिता। एतेषां राष्ट्राणां जनानां वीसायाः अनिवार्यता नास्ति। व्योमयानक्षेत्रे तथा जलनौकास्थाने वा गमनागमन पत्रं तथा षण्मासकालावधिवान् पास्पोर्ट् समर्पिष्यति चेत् वीसा अनुकूलता रेखां दातुमेव अधिकृतैः आलोच्यते। वीसा अनुकूलता द्विप्रकारेण स्यात्। भारतेन सह सप्तचत्वारिंशत् राष्ट्राणां  प्रथमं त्रिशत् दिनानां वीसा अनुकूलता लभ्यते। ओस्ट्रियया सह त्रस्त्रिंशत् राष्ट्राणां कृते प्रथमं नवति दिनानां वीसा अनुकूलता लभ्यते आहत्य अशीत्युत्तर एकशतदिनानां वीसा अनुकूलता लभ्यते। यु.एस् ब्रिट्टन् च अस्मिन् सूच्यां वर्तेते।