OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 9, 2017

संस्कृतवाद्यवृन्दस्य प्रस्तुतिः
नवदेहली>मंगलवासरे राजधान्यां नवदिल्ल्यां संस्कृतसप्ताहमहोत्सवमभिलक्ष्य दिल्ली-संस्कृत-अकादम्या दिल्ली विश्वविद्यालयस्य अङ्गभूते  जाकिरहुसैन्  सान्ध्यमहाविद्यालये विशिष्टः आधुनिक संस्कृतसंगीतकार्यक्रमः समायोजितः। कार्यक्रमस्य मुख्यातिथित्वं नवभारतटाइम्स इति वार्तापत्रस्य सहायकसम्पादकेन डॉ.अश्विनी शास्त्रिणा सम्भालितम्। कार्यक्रमस्य अाध्यक्षं महाविद्यालस्य प्राचार्येण डॉ. मशरूर-अहमद-वेगेन विहितम्।  नादप्रकर्षसंस्कृतवाद्यवृन्दस्य मनोहरप्रस्तुतिम् आस्वाद्य श्रोतृवृन्देन भृशं संगीत रसावगाहनं कृतम्।  अस्मिन्नवसरे मुख्यातिथिवर्येण प्रोदीरितं यत् नादप्रकर्षवाद्यवृन्दस्य सदस्यैः स्वीयमनोरमप्रस्तुतिबलेन तानि सर्वाण्यपि मिथकानि निराकृतानि यानि संस्कृतस्य प्रतिष्ठायां प्रश्नचिह्नान्युपस्थापयन्ति स्म।  कार्यक्रमस्याध्यक्षेण छिन्ने मूले नैव वृक्षो न शाखा  इति श्लोकयता  प्रतिपादितं यत् साम्प्रतिकसमस्यानां प्रमुखकारणं मूलात् पृथग्भवनमेव वर्तते, अतः सर्वसधारणजनै: स्वीयप्रतिष्ठामुपस्थापयितुं संस्कृतभाषया सह सम्पृक्तिः परमावश्यकी।