OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 13, 2017

अध्यापकाः मार्गदर्शिनः भवन्तु - प्रोफ. शान्तकुमारी
गुरुवायूपुरम्> इदानीन्तनलोके अध्यापकाः छात्राणां मार्गदर्शिनः भवन्तु। एतदर्थं संस्कृताध्यापकानाम् उत्तरदायित्वम् अधिकतया अस्ति इति प्रोफ. शान्त कुमारी महाभागा अवदत्। संस्कृत-अध्यापक फेडरेषनस्य प्रप्रथमस्य राज्यस्तरीय वनितासङ्गमस्य उद्घाटन सन्दर्भे अध्यक्षभाषणं कुर्वन्ती आसीत् सा। उत्तम छात्राणां सृष्टिः अध्यापकाश्रितः भवति इत्यपि अनया महाभागया उक्तम्। त्रिश्शिवपेरूर् जिलापञ्चायत्त् अध्यक्षा श्रीमती षीला विजयकुमारमहाभागा सम्मेलनस्य उद्घाटनं कृतवती। डी के सन्तोष् कुमारः, श्रीमती निर्मला केरलन्, श्रीमती षैलजा देवन् , शोभा हरिनारायणन्, डॉ विश्वजा एस् नायर्। श्रीमती लतिका श्रीमती रती प्रमृतयः वनिता प्रमुखाः भागं स्वीकृतवन्तः। माध्यम मण्डलेषु संस्कृतभाषायाः स्वाधीनता इति विषयमधिकृत्य वार्तावतारिका अश्वतीविजयमहाभागा सङ्गोष्ठीं चालितवती। अध्यापकानां सेवाकार्य सम्बन्ध विषयेषु संशयनिवृतिः च  श्रीमता नारायणमहोदयेन कृतम् ।