OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 11, 2017

भारतमहासमुद्रस्य सुरक्षायै साह्यं कर्तुं चीनः सन्नद्धः
नवदिल्ली> भारतमहासमुद्रस्य सुरक्षावर्धनाय चीनः भारतेन सह सख्यं कर्तुं सन्नद्धा इति चीनस्य नाविकसेना। भारतस्य समुद्रमण्डले चीनस्य स्वाधीनतां वर्धते इत्याशङ्कायाम् आसीत् एतादृशं वाग्दानमिति अद्भुतः। चीनस्य सौत् सी फ्लीट् बेस् नाम स्थाने सन्दर्शनाय भारतस्य माध्यमप्रवर्तकाः चीनेन निमन्त्रिता। ऐदंप्राथम्येन एव आसीत् चीनस्य पक्षतः एतादृशं प्रवर्तनम्। भारतमहासमुद्रः राष्ट्रान्तरसमूहस्य सार्वजनीनप्रदेशः इति चीनस्य पीप्पल्स् लिबरेषन् आर्मि नाम सैन्यविभागेन उक्तम्। लोके सर्वत्र चीनस्य नाविकसेनायाः सान्निद्ध्यं भवतु इति नयानुसारमेव भवति अयं निदेशः इति अनुमीयते।