लण्डन् नगरे महामनीषी बालः एकः, सोऽपि भारतीयः।
लण्डन्> मनीषायां अनितरसाधारणाः कुशलाः अनेके समर्पिताः लोकाय भारताम्बया। तस्मिन् बुद्धिमतां गणे राहुलनामकः द्वादशवर्षीयः बालोऽपि अधुना योजितः वर्तते। "चतुर्थी सरणिः" ( चानल् ४) नाम ब्रिटीष् शृङ्खलया चाल्यमाने "चल्डि जीनियस्" नामकस्य वस्तुनिष्ठप्रदर्शनस्य प्रथमचक्रे भारतवंशज: राहुल: उज्वलविजयम् प्राप्तवान्। पृष्टानां चतुर्दशप्रश्नानां यथायोग्यम् प्रत्युत्तरं दत्वा राहुल: द्विषष्ट्युत्तरशतम् इति ऐ क्यू परिधिम् प्राप्तवान्। एषा परिधि: तु आल्बर्ट् ऐन्स्टीनस्य, स्टीफन् होकिङ्ङस्य च परिधेरपेक्षया उन्नता एवेति गण्यते।।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, August 22, 2017
विशाल् सिक्का इन्फोसिस् सी ई ओ स्थानं त्यक्तवान्।।
नवदिल्ली> प्रमुखाया: ऐ टी संस्थाया: इन्फोसिस् संस्थाया: सी ई ओ तथा प्रबन्धकप्रमुख: च विशाल् सिक्क: स्थानं त्यक्तवान्। तत्स्थाने प्रवीण रावु किञ्चित्कालं य़ावत् पदव्यां नियुक्त:। विशाल् सिक्कस्य त्यागपत्रं संस्थया स्वीकृतमिति संस्थाया: कार्यदर्शी ए जी एस् मणिकन्द: व्यक्तीकृतवान्। विशाल् सिक्क: इत: परं संस्थाया: कार्यनिर्वहणविभागस्य उपाध्यक्षपदम् अलङ्करिष्यति इत्यपि मणिकन्द: उक्तवान्।
राष्ट्रे २६% यावत् वृष्टेः न्यूनता।
नवदिल्ली > कालवर्षे अर्धांशे अतीते भारतस्य पादांशप्रदेशेषु वृष्टिः बहुन्यूना एव। ओगस्ट् १९ दिनाङ्कपर्यन्तं लब्धाः सूचनाः अनुसृत्य राष्ट्रस्य भूरिषु राज्येषु २६% यावत् साधारणताम् अपेक्ष्य वृष्टिः न्यूना अभवत्। राष्ट्रे आहत्य प्रतिशतं पञ्च परिमितस्य न्यूनता जाता। मध्यप्रदेशः, केरलं, महाराष्ट्रा, कर्णाटकं, उत्तरप्रदेशस्य पश्चिम भागः इत्येतेषु प्रदेशेषु वृष्टिः न्यूनातिन्यूना आसीत्। बीहार् असम् गुजरात् राज्येषु अतिवृष्ट्या जलोपप्लवः दुरन्ताश्च अनुवर्तन्ते।
त्रिपरंपराणाम् आकाशकुटुंबं शतकं यावदुड्डीतवत् ।
अतिशुभ्रवर्णयुक्तः गणवेषः,अभिमान: यावत् औन्नत्येन तिष्ठत् शिरस्त्राणं , स्कन्धे चिह्नितौ लोलकौ, नेत्रयो:मनसि च विमानयात्राया: आनंद: उत्साह: च। आकाशयात्रायां भासिन्कुटुंबम् एकं शताब्दं यापितवत्। आकाशयात्राया: षट्सप्ततिसहस्रोत्तराष्टलक्षघंटा:। सीमारहितानाम् आकाशयात्राणाम् स्वप्नम् दृष्ट्वा जीवितत्वेन परिगणय्य सहकृतवत् भवति भारतीयं भासिन्कुटुंबं,पितामहेन क्याप्टन्जयदेव भासिन् महोदयेन आरब्धं वैमानिकजीवितम् इदानीं परम्पराद्वयम् अतीत्य पौत्रेषु प्राप्तम्।Monday, August 21, 2017
किङ्ङ् ऑफ् ग्लोरी - भीत्यां चैनदेशः , क्रीडारताः सैनिकाः कथं युद्धं करिष्यन्ति।
बैजिङ् > विश्वस्य वरिष्ठ शक्तिः इति स्वयं आहूतः चीनस्य सेना इदानीं प्रतिसन्धौ पतितम्। भारतं विरुद्ध्य शीतयुद्धं प्रख्यापितम्। किन्तु युयुत्सवः सैनिकाः इदानीं समर्थकरदूरवाण्यां क्रीडोत्सुकाः भूत्वा तिष्ठन्तः सन्ति। इदानीं चीनस्य शत्रू करदूरवाणीक्रीडा एवI सैनिकाः वस्तुतया किङ्ङ् ऑफ् ग्लोरी नाम प्रसिद्धा करदूरवाणिक्रीडा सैनिकानां मनसि आलस्यमुद्पाद्य तान् भृत्यवत् कुर्वन्तिIराष्ट्रसुरक्षायै भीषा उद्पाद्यमानां क्रीडां नियन्त्रणविधेयां कर्तुं सैनिकाधिकारिणः प्रयतन्ते| विरामकालेषु क्रीडार्थं अनुज्ञा अस्ति। किन्तु सैनिकाः शिबिरे उषित्वा अनुस्यूतं क्रीडन्तीति चीनस्य एका दिनिकी पत्रिकया आक्षेपम् आरोपितम् I ४० घण्डा पर्यन्तम् अनुस्यूतक्रीडारताः अपि सैन्येषु सन्तीति पत्रिकया व्यक्तीक्रियते।
विमान-समानो अतिलघु वस्तु देहली विमान निलयः स्थम्भितः I
नव दिल्ली > इन्दिरागान्धी अन्ताराष्ट्र-विमान-निलयस्य समीपे अतिलघु विमानरुपं अपशयत् इति आवेदितःI अनेन कारणेन पिधानं कृतस्य विमाननिलयस्य धावनमार्गः उद्घाटितःI स्तगितः विमानगतागतः पुनः आरम्भः कृतः। सायंकाले एव ड्रोणस्य समानं वस्तु दृष्टम् इति एयर् एष्यायाः वैमानिकेन आवेदितम्। सायं सप्तवादने एव घटना। विमानावतारणसमये तृतीये प्रवेशद्वारे एव तद्वस्तु दृष्टिपदमागतम् इत्यासीत् वैमानिकस्य आवेदनम्। घटनायाः अनन्तरं विमानानां पन्थानः व्यत्ययं कारितम्। तदनन्तरं कर्कश-निरीक्षणानन्तरं अष्टवादने गतागतं पुनरारम्भं कृतम्। घटनानुबन्धतया एयर् इन्ट्याया द्वौ विमानौ लख्नौ तथा अहम्मदाबादं प्रति मार्गव्यत्ययं कृतौ।प्रतिदिनं द्विशताधिक एकसहस्रं विमान सेवाः सन्ति अस्मिन् निलये। प्रतिघण्डां ७० विमानानि डयन्ते अत्र। त्रीणी धावनपन्थानः च अत्र सन्ति ।
Sunday, August 20, 2017
डोक्लाम्; भारताय जापानस्य साहाय्यहस्त:।
टोक्यो>चैनया सह विवादे वर्तमाने डोक्लामे भारतस्य निर्णयाय आलम्बनत्वेन जपान् देशस्य हस्ताश्रयः। वर्तमानस्थितौ किमपि राज्यम् बलप्रयोगेन सैन्यं अपसारयितुं नार्हतीति जपान् उदघोषयत्। सिकिमस्य सीमासमीपे भूटानप्रदेशे वीथीनिर्माणाय कृतस्य चीनादेशस्य प्रयत्नम् उपरुद्ध्य स्वीकृतस्य भारतस्य उपरोधम् आनुकूल्य एव जपानस्य इदं प्रतिकरणम्। जापानस्य नयतन्त्रज्ञ: केन्जी हिरामाट्सु: एव विषये तेषां निर्णयं न्यवेदयत्। भूटानस्य चैनाया: मध्ये तर्ककेन्द्रितप्रदेश: डोक्लाम्। अत्र भारतम् सन्धिनियमान् अनुसृत्य प्रवर्तते इति स्वकीयज्ञानमपि अस्तीति केन्जी हिरामाट्सु: अवदत्।Saturday, August 19, 2017
क्रीडायै स्थानं नास्ति; प्रधानमन्त्रिणे पत्रमलिखत् द्वितीयकक्ष्याच्छात्रा।
नवदिल्ली> सम्मर्दपूर्णनगरे देहल्यां नव्या सिंह: नामिका बालिका शैशवात् प्रभृति इष्यमाणं स्थानकम् भवति क्रीडाङ्कणम्, यत्र सा बहुधा क्रीडति स्म। किन्तु एकदिनाभ्यन्तरे स्थानमेतत् नष्टम् भवति इति विचार: प्रधानमन्त्रिणे पत्रम् प्रेषयितुम् एतस्या: द्वितीयकक्ष्याच्छात्राया: प्रेरणादायक: अभवत्। देहल्यां रोहिणीमेखलायां नव्या वसति। नव्यामिव प्रदेशवासिनां तथा बालानां च आश्वासदायक: आसीत् हरिताभकेन्द्रं तत् क्रीडाङ्कणम्। किन्तु अकस्मात् एकस्मिन् दिने निरावृतं व्यायामकेन्द्रमिति क्रीडाङ्कणस्य कश्चन भाग: उपयुक्त:।बालानां क्रीडाङ्कणम्, विश्रमस्थानं च व्यायामकेन्द्रेण अपहृतम्। परन्तु सभ्यस्थानस्य (ओडिट्टोरियम्) निर्माणाय क्रीडाङ्कणस्य विशालभागश्च देहली विकसनसमित्या अधीनमकरोत्। तत्पश्चादेव प्रधानमन्त्रिणे पत्रं लेखितुं नव्यया निर्णीतम्। क्रीडाङ्कणे निर्माणप्रवर्तनेषु आरब्धेषु समीपवासिन: प्रतिषेधै: रङ्गप्रवेशं कृतवन्त: चेदपि नगरसभया तत् अवगणितम्। तदेव न, समीपवासिनां शिशूनां च क्रीडाङ्कणम् प्रति प्रवेशोपि निषिद्ध:।।Friday, August 18, 2017
स्थलसेनाध्यक्षः बिपिन् रावतः लडाक् सम्दृश्यते।
नवदिल्ली> दो क्लों घटनायां भारत-चीनयोः मध्ये तर्कः रूक्षः इत्यस्मिन् पृष्टभूमौ स्थलसेनाध्यक्षःबिपिन् रावत्तः लडाक् देशं संद्रष्टुं सज्जः भवति। सीमा याः इदानीन्तन गति-विगतयः अधिकृत्य सुज्ञानाय भवति ၊ त्रिदिक्सस्य सन्दर्शानाय भवति गमनम्। ज्येष्ठ सैनिकैः सह मिथभाषणं च करिष्यति स: । गतदिने पान् गोग् सीमायाम् अतिक्राम्य प्रविष्टुं चीनेन कृतश्रमः भारतसैनिकैः विफलः कृतः। तदनन्तरं प्रवृत्तः पाषाणविक्षेपः रावतस्य सन्दर्शनस्य कारणं अभवत्। Thursday, August 17, 2017
राष्ट्रिय गीतम् इतः परं अष्टवादने भविष्यति। नगरमिदं निश्चलं स्थास्यति।
हैदराबादः> प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतश्रवणे आबालवृद्धं जनाः सादरं उत्तिष्ठन्ति। ख्यातिरियं स्ववशं कारयितुं प्रयत्नं करोति तेलड्काना राज्यस्य करींनगर जनपदे जम्मीकुण्डेति लघुनगरम्। गतस्वतन्त्रतादिनादारभ्य प्रतिदिनं प्रातः अष्टवादने राष्ट्रिय गीतं श्रुत्वा नगरवासिनः सर्वे सादरं उत्थास्यन्ति इत्याशयः अत्र कार्यान्वितः। जम्मिकुण्डा आरक्षक-वृत्ताधिकारी पी प्रशान्त रेट्टी अस्ति पद्धत्याः अस्याः बुद्धिकेन्द्रम्। प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतं भविष्यति। तदानीं सर्वे सादरं उत्थास्यन्ति। इच्छा चेत् सार्धं आलपिष्यन्ति । एषा भवति पद्धतिः। वाहनयात्रिकाः वाहनं निश्चलं कारयन्ति। विद्यार्थिनः तत्रैव निश्चलं स्थास्यन्ति। अन्ये कर्मकाराः कर्मसु द्विपञ्चाशत् क्षणस्य विरामं दत्वा राष्ट्रियगीतं आदरं करिष्यन्ति।
Subscribe to:
Comments (Atom)