OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 17, 2017

राष्ट्रिय गीतम् इतः परं अष्टवादने भविष्यति। नगरमिदं निश्चलं स्थास्यति।
हैदराबादः> प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतश्रवणे आबालवृद्धं जनाः सादरं उत्तिष्ठन्ति। ख्यातिरियं स्ववशं कारयितुं प्रयत्नं करोति तेलड्काना राज्यस्य करींनगर जनपदे जम्मीकुण्डेति लघुनगरम्। गतस्वतन्त्रतादिनादारभ्य प्रतिदिनं प्रातः अष्टवादने राष्ट्रिय गीतं श्रुत्वा नगरवासिनः सर्वे सादरं उत्थास्यन्ति इत्याशयः अत्र कार्यान्वितः। जम्मिकुण्डा आरक्षक-वृत्ताधिकारी पी प्रशान्त रेट्टी अस्ति पद्धत्याः अस्याः बुद्धिकेन्द्रम्। प्रतिदिनं प्रातः अष्टवादने राष्ट्रियगीतं भविष्यति।  तदानीं सर्वे सादरं उत्थास्यन्ति। इच्छा चेत् सार्धं आलपिष्यन्ति । एषा भवति पद्धतिः। वाहनयात्रिकाः वाहनं निश्चलं कारयन्ति। विद्यार्थिनः तत्रैव निश्चलं स्थास्यन्ति। अन्ये कर्मकाराः कर्मसु द्विपञ्चाशत् क्षणस्य विरामं दत्वा राष्ट्रियगीतं आदरं करिष्यन्ति।