OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 22, 2017

राष्ट्रे २६% यावत् वृष्टेः न्यूनता।
नवदिल्ली > कालवर्षे अर्धांशे अतीते भारतस्य पादांशप्रदेशेषु वृष्टिः बहुन्यूना एव। ओगस्ट् १९ दिनाङ्कपर्यन्तं लब्धाः सूचनाः अनुसृत्य राष्ट्रस्य भूरिषु राज्येषु २६% यावत् साधारणताम् अपेक्ष्य  वृष्टिः न्यूना अभवत्। राष्ट्रे आहत्य प्रतिशतं पञ्च परिमितस्य न्यूनता जाता।
     मध्यप्रदेशः, केरलं, महाराष्ट्रा, कर्णाटकं, उत्तरप्रदेशस्य पश्चिम भागः इत्येतेषु प्रदेशेषु वृष्टिः न्यूनातिन्यूना आसीत्। बीहार् असम् गुजरात् राज्येषु अतिवृष्ट्या जलोपप्लवः दुरन्ताश्च अनुवर्तन्ते।