OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 21, 2017

विमान-समानो अतिलघु वस्तु देहली विमान निलयः स्थम्भितः I
नव दिल्ली > इन्दिरागान्धी अन्ताराष्ट्र-विमान-निलयस्य समीपे अतिलघु विमानरुपं अपशयत् इति आवेदितःI अनेन कारणेन पिधानं कृतस्य विमाननिलयस्य  धावनमार्गः उद्घाटितःI स्तगितः विमानगतागतः पुनः आरम्भः कृतः। सायंकाले एव ड्रोणस्य समानं वस्तु दृष्टम् इति एयर् एष्यायाः वैमानिकेन आवेदितम्। सायं सप्तवादने एव घटना। विमानावतारणसमये तृतीये प्रवेशद्वारे एव तद्वस्तु दृष्टिपदमागतम् इत्यासीत् वैमानिकस्य आवेदनम्। घटनायाः अनन्तरं विमानानां पन्थानः  व्यत्ययं कारितम्। तदनन्तरं कर्कश-निरीक्षणानन्तरं अष्टवादने गतागतं पुनरारम्भं कृतम्। घटनानुबन्धतया  एयर् इन्ट्याया द्वौ विमानौ लख्नौ तथा अहम्मदाबादं प्रति मार्गव्यत्ययं कृतौ।
प्रतिदिनं द्विशताधिक एकसहस्रं विमान सेवाः सन्ति अस्मिन् निलये। प्रतिघण्डां ७० विमानानि डयन्ते अत्र। त्रीणी धावनपन्थानः च अत्र सन्ति ।