OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, September 27, 2017

सौदिराष्ट्रे वनिताभ्यः यानचालनाय अनुज्ञा।
रियाद् > सौदिराष्ट्रे यानचालनाय वनिताभ्यः अनुज्ञां दत्वा राज्ञः सल्मानस्य आदेशः। १०१८तमे जूण्मासतः आदेशः प्रबलः भविष्यति इति राष्ट्रस्य दृश्यवाहिनिना आवेदितः I आदेशस्य प्रवर्तनाय आभन्तर-धन-कर्म-सार्वजनिक-विभागानां प्राधिनित्येन सह उन्नताधिकार-समितिः अपि आयोजिता।  तैः त्रिंशत् दिनाभ्यन्तरेण आवेदनं करणीयम्।
शनिवासरे आयोजिते राष्ट्रियदिनाघोषे रियादस्य  'राज -फहदः' नाम क्रीडाङ्कणे इदं प्रथमतया शतशतं विनताः अपि मिलिताः इति श्रद्धेयः आसीत्। इतः पूर्वं सार्वजनिकमेलने स्त्री पुरुषाणाम् एकत्र मेलनं निसस्तमासीत्।
अद्य केरले लक्ष्यकन्दुकताडनमहोत्सवः। 
          कोच्ची > 'फिफा अण्टर् १७' भुवनचषकपादकन्दुकस्पर्धायाः प्रचारणार्थं केरले सर्वत्र अद्य दशलक्षं लक्ष्यकन्दुकाः प्रहार्यन्ते। केरलस्य सर्वेषु ग्रामेषु निश्चितस्थानेषु सज्जीकृतानि लक्ष्यकन्दुकस्थानानि लक्ष्यीकृत्य आबालवृद्धम् आराधकैः अद्य सायं त्रिवादनादारभ्य सप्तवादनपर्यन्तं दशलक्षं लक्ष्यकन्दुकाः पातयिष्यन्ते। 
          तिरुवनंतपुरं सेन्ट्रल् स्टेडियं मध्ये आयोज्यमाने कार्यक्रमे मुख्यमन्त्री पिणरायी विजयः उद्घाटनं करिष्यति। ९४१ ग्रामेषु , ८७ नगरेषु, ६ महानगरेषु तथा सर्वेषु विद्यालयेषु कलालयेषु च लक्ष्यकन्दुकस्तम्भाः एतदर्थं सज्जीकृताः सन्ति।
GST नाम करव्यवस्थायाम् आयोज्य मृत्तैलस्य मूल्यनियन्त्रणम् ।
‍                 त्रिश्शिव पेरूर्> मृत्तैलानां मूल्यं पण्यकर सेवननियमे अन्तर्भावयति चेत् (जि एस् टि ) मुल्यनियन्त्रणं शक्यते इति पेट्रोलियं मन्त्री धर्मेन्द्र -प्रधानः अवदत्I एतदर्थं पेट्रोलियंमन्त्रालयः केन्द्रसर्वकाराय पत्रं प्रेषितवान् इति मन्त्रिणा वार्तासम्मेलने उक्तम्।
                आयः न्यूनीकृत्य मूल्यं न्यूनीकर्तुम्   मृत्तैलशालाः आदिष्टाः च। राज्यसर्वकारेण तेषां आयवर्धनाय करः २६% तः ३४% इति वर्धितः।  एतदेव मूल्यवर्धनस्य मुख्यं कारणम् इति सः अवदत्।

Tuesday, September 26, 2017

‘मन की बात’ अथवा “मनोगतम्” Episode 36  (प्रसारण-तिथि:- 24.09.2017) 

[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                
भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर 

मम प्रियाः देश-वासिनः !
             भवद्भ्यः सर्वेभ्यः नमस्कारः | आकाशवाणी-माध्यमेन ‘मन की बात’ इति ‘मनोगतम्’ प्रसारयन् वर्ष-त्रयं पूर्णतां नीतवान् | अद्य इदं षट्-त्रिंशत्तमम् आख्यानं वर्तते | ‘मन की बात’ इति प्रसारणं हि, भारतस्य सकारात्मक-शक्त्या, देशस्य प्रत्येकमपि कोणेषु संभरिताभिः भावनाभिः, इच्छाभिः, अपेक्षाभिः, कुत्रचिच्च परिदेवनैः, समुच्छलद्भिः जनानां मनोभावैः च, साकं मां संयोजितवत् | अमुना प्रसारण-व्याजेन एतैः सर्व-विध-भावैः साकं आत्मानं संयोजयितुम् अद्भुतमेकम् अवसरमहं प्राप्तवान् | नाहं कदापि एतद् अवोचम् यत् इदं हि मम मनोगतं वर्तते | इदं मनोगतं हि देशवासिनां मनोभिः मनोभावैः च सार्धं संपृक्तम् अस्ति | तेषाम् आशाभिः अपेक्षाभिः च साकं संपृक्तं वर्तते | मनकी बात-प्रसारणे यान् विषयान् अहं प्रस्तौमि, ते विषयाः देशस्य प्रायेण प्रत्येकमपि कोणेभ्यः जनैः प्रेषितेषु विविध-विषयेषु प्रायेण अन्यतमान् कांश्चन एव अत्र उपस्थापयितुं प्रभवामि, परञ्च अहन्तु बहु लाभान्वितो भवामि | भवतु नाम ईमेल्-माध्यमं वा दूरभाष-सन्देशः, आहोस्वित् भवतु Mygov, वा NarendraModiApp - इति, एतान् विविधान् विषयान् अहम् अवाप्नोमि | एतेषु अधिसंख्यन्तु मह्यं प्रेरणादायि एव, अधिकतमाः च विषयाः भवन्ति प्रशासन-परिष्कारार्थम् |
सम्पद्मण्डलं श्रेयस्कर्तुं उपदेशकसमितिः। 
नवदिल्ली > राष्ट्रस्य आर्थिकस्थितिम् अवलोकयितुम् अपेक्षिताः क्रियाविधयः निर्देष्टुं च आर्थिकोपदेशसमितिः प्रधानमन्त्रिणा नरेन्द्रमोदिना रूपवत्कृता। वृद्धिमाने न्यूने अङ्किते सत्वरपदक्षेपाणां निर्देशाय एव समित्याः रूपवत्करणम्। नीति आयोग योजनायाः अङ्गेषु अन्यतमः डो. बिबेक् देब्रोयी समित्याः नेता भविष्यति।
राष्ट्रे विद्युत् विप्लवः । दरिद्रपरिवाराणां कृते मुक्तविद्युत्।
नवदेहली> राष्ट्रे सर्वत्र विद्युत् नेतुं पद्धतिः प्रधानमन्त्रिणा प्रख्यापिता। २०१९ मार्च् ३१ पर्यन्तं सर्वेषु परिवारेषु विद्युत् लभ्येयुः। बि पी एल् पत्रं येषां अस्ति तेषां कृते मुक्तरूपेण विद्युत् दास्यति। तदर्थं १६,३२० कोटिव्ययः भविष्यतीति तेन व्यक्तीकृतम्।  सौभाग्य योजना, दीनदयाल ऊर्जाभवनम एतयोः उद्घाटनवेलायां आसीत् तस्य इदं प्रख्यापनम्।

Monday, September 25, 2017

षार्जा सुल्त्तान् केरलं सम्प्राप्तः। 
अनन्तपुरी > षार्जादेशस्य शासनाधिकारी डो. शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमि औद्योगिकसन्दर्शनार्थं केरलं सम्प्राप्तः। तिरुवनंतपुरं विमानपत्तने मुख्यमन्त्रिणः पिणरायी विजयस्य नेतृत्वे तस्मै ऊष्मलं स्वागतमदात्।
    अद्य राज्यपालेन न्याया. सदाशिवं वर्येण सह मेलनं भविष्यति।अनन्तरं मुख्यमन्त्रिणा सह प्रवासिसम्बन्धिनः विविधविषयानधिकृत्य चर्चा भविष्यति।
   श्वः कोष़िक्कोट् विश्वविद्यालयेन दीयमानं 'डि लिट्' बिरुदं सुल्त्तान् वर्यः स्वीकरिष्यति। केरलसर्वकारस्य अतिविशिष्टातिथिः भवत्ययम्।

Sunday, September 24, 2017

मृत्तैलानां मूल्यं पञ्चाशत् ५० तः न्यूनीकर्तुं शक्यते- भाजपा नेता सुरेन्द्रः
कोषिकोट् -केरलम्> मृत्तैलानां मूल्यं पञ्चाशत् ( ५० ) रुप्यकादपि न्यूनीकर्तुं शक्यते इति भाजपा दलस्य केरल राज्यस्यनेता के सुरेन्द्रः । एतदर्थम् राज्य सर्वकारेण कृतम् अधिककरवर्धनम् प्रतिगृणीयम् नो चेत् जि एस् टी क्रमस्य परिधौ निबन्धनीयम्।
 १०१० तमे कोण्ग्रस् सर्वकारेण एव सर्वकारस्य मूल्यनिर्णयाधिकारः परित्यक्तः। साधैकवर्षाभ्यन्तरे एकवारमपि मोदिसर्वेकारेण करमूल्यं न वर्धितम् इति सुरेन्द्रः वदति। मृतैलानां मूल्यवर्धनविषये अन्येषां राजनैतिक दलानां जनानां पुरतः विप्रतिपत्ति प्रकाशनं विमृश्य आसीत् अस्य भाषणम्
नारिकेलस्य जनितकनिगूढता निर्णीता। 
कासर्कोट् > नारिकेलवृक्षस्य पारम्पर्य -स्वभावसविशेषताः निर्णीयमाना जनितकरीतिः भारतीयशास्त्रज्ञैः विश्लेषीकृता। केरलस्य कार्षिकमण्डले अनन्तसाध्यताम् उद्घाटयतीदं गवेषणफलम्।
      कासरगोडस्थ केन्द्रकैदार्य-गवेषणकेन्द्रस्य  नवदिल्लीस्थ राष्ट्रियकैदार्य जनितक-साङ्केतिकविद्यागवेषण केन्द्रस्य च वैज्ञानिकानां नेतृत्वे आसीदयमधिगमः। नारीकेलवृक्षस्य उन्नतिः, फलस्य वर्णः , बाध्यमानाः रोगाः, नारीकेलतैलस्य मानः गुणः इत्यादीन् आधारघटकान् निर्णीयमानाः जनितकांशाः [जीन्] शास्त्रज्ञैः प्रत्यभिज्ञाताः।

Saturday, September 23, 2017

पाकिस्थान् 'टररिस्थान्' इति ऐक्यराष्ट्रसभायां भारतम्। 
युणैटड् नेषन्स् > ऐक्यराष्ट्रसभायाः सार्वदेशीयसम्मेलनवेदिकायां पाकिस्थानं विरुध्य अतिरूक्षवाक्प्रहारेण भारतम्। भीकरवादं व्यापारवत्कृतः पाकिस्थानदेशः नाम्नि 'टेररिस्थान्' अभवदिति यू एन् सभायां भारतस्य स्थिरदौत्यसङ्घस्य प्रथमसचिवा ईनं गभीर् वर्या उक्तवती। काश्मीर् विषये भारतं विमृष्टवते पाकिस्थान् प्रधानमन्त्रिणः षाहिद् खाकान् अब्बासिवर्याय दत्ते प्रत्युत्तररूपेणैव ईनं गभीरवर्यायाः अयं प्रस्तावः।
     भीकरवादस्य उत्पादनं  विदेशनयनं भुवनव्यापारकरणम् इत्यादिषु प्रवर्तनेषु पाकिस्थानस्य भागभागित्वं समानरहितं भवतीति ईनं वर्या आक्षिप्तवती। सैनिकशिबिरेषु सर्वत्रापि भीकरसंरक्षणमेव पाकिस्थानस्य सम्प्रदायः इति सा अवदत्।