OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 27, 2017

अद्य केरले लक्ष्यकन्दुकताडनमहोत्सवः। 
          कोच्ची > 'फिफा अण्टर् १७' भुवनचषकपादकन्दुकस्पर्धायाः प्रचारणार्थं केरले सर्वत्र अद्य दशलक्षं लक्ष्यकन्दुकाः प्रहार्यन्ते। केरलस्य सर्वेषु ग्रामेषु निश्चितस्थानेषु सज्जीकृतानि लक्ष्यकन्दुकस्थानानि लक्ष्यीकृत्य आबालवृद्धम् आराधकैः अद्य सायं त्रिवादनादारभ्य सप्तवादनपर्यन्तं दशलक्षं लक्ष्यकन्दुकाः पातयिष्यन्ते। 
          तिरुवनंतपुरं सेन्ट्रल् स्टेडियं मध्ये आयोज्यमाने कार्यक्रमे मुख्यमन्त्री पिणरायी विजयः उद्घाटनं करिष्यति। ९४१ ग्रामेषु , ८७ नगरेषु, ६ महानगरेषु तथा सर्वेषु विद्यालयेषु कलालयेषु च लक्ष्यकन्दुकस्तम्भाः एतदर्थं सज्जीकृताः सन्ति।