OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 23, 2017

पाकिस्थान् 'टररिस्थान्' इति ऐक्यराष्ट्रसभायां भारतम्। 
युणैटड् नेषन्स् > ऐक्यराष्ट्रसभायाः सार्वदेशीयसम्मेलनवेदिकायां पाकिस्थानं विरुध्य अतिरूक्षवाक्प्रहारेण भारतम्। भीकरवादं व्यापारवत्कृतः पाकिस्थानदेशः नाम्नि 'टेररिस्थान्' अभवदिति यू एन् सभायां भारतस्य स्थिरदौत्यसङ्घस्य प्रथमसचिवा ईनं गभीर् वर्या उक्तवती। काश्मीर् विषये भारतं विमृष्टवते पाकिस्थान् प्रधानमन्त्रिणः षाहिद् खाकान् अब्बासिवर्याय दत्ते प्रत्युत्तररूपेणैव ईनं गभीरवर्यायाः अयं प्रस्तावः।
     भीकरवादस्य उत्पादनं  विदेशनयनं भुवनव्यापारकरणम् इत्यादिषु प्रवर्तनेषु पाकिस्थानस्य भागभागित्वं समानरहितं भवतीति ईनं वर्या आक्षिप्तवती। सैनिकशिबिरेषु सर्वत्रापि भीकरसंरक्षणमेव पाकिस्थानस्य सम्प्रदायः इति सा अवदत्।