OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 25, 2017

षार्जा सुल्त्तान् केरलं सम्प्राप्तः। 
अनन्तपुरी > षार्जादेशस्य शासनाधिकारी डो. शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमि औद्योगिकसन्दर्शनार्थं केरलं सम्प्राप्तः। तिरुवनंतपुरं विमानपत्तने मुख्यमन्त्रिणः पिणरायी विजयस्य नेतृत्वे तस्मै ऊष्मलं स्वागतमदात्।
    अद्य राज्यपालेन न्याया. सदाशिवं वर्येण सह मेलनं भविष्यति।अनन्तरं मुख्यमन्त्रिणा सह प्रवासिसम्बन्धिनः विविधविषयानधिकृत्य चर्चा भविष्यति।
   श्वः कोष़िक्कोट् विश्वविद्यालयेन दीयमानं 'डि लिट्' बिरुदं सुल्त्तान् वर्यः स्वीकरिष्यति। केरलसर्वकारस्य अतिविशिष्टातिथिः भवत्ययम्।