OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, August 10, 2025

 जम्मु-काश्मीरे द्वौ सैनिकौ वीरस्वर्गं प्रापतुः।

श्रीनगरं> जम्मु-काश्मीरे कुलगामजनपदस्थे काननक्षेत्रे अखाल् इत्यत्र प्रवृत्ते प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्रापतुः। लान्स् नायिक् पदीयः प्रीत पालसिंहः, सैनिकः हमीन्द्र सिंहश्च एतौ। 

  आगस्टमासस्य प्रथमदिने आरब्धस्य 'ओपरेषन् अखाल्' इति कृतनामधेयस्य सैनिकप्रक्रमस्य अनन्तरं द्वौ भीकरौ सेनया मारितौ। ११ सुरक्षाभटाः आहताश्च। ड्रोण् यन्त्राणि उदग्रयानानि च उपयुज्य वनक्षेत्रे सेनया भीकरेभ्यः अन्वेषणम् अनुवर्तते।

Kashmirtwodead

 भारतस्वतन्त्रतान्दोलनस्य चालकशक्तिः संस्कृतभाषा आसीत् - डो एम् वि . नटेशः। 

डो  एम् वि नटेशः विचारसत्रे  भाषणं करोति। 

  कोच्ची> भारतीयस्वतन्त्रतान्दोलनस्य चालकशक्तिः भगवद्गीतादयः संस्कृतग्रन्थाः तथा तेभ्यः समाहृतानि, प्रसृतानि  मूल्यानि च आसन्निति  संस्कृतविद्वान् डा एम् वि नटेशः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसंस्कृतसप्ताहे चतुर्थदिनस्य भाषणं कुर्वन्नासीत् सः।


संस्कृतभाषाया: चैतन्यशक्तिः तथा अस्ति । भारतीयेषु  ग्रामं ग्रामं जनेषु संस्कृतस्य उपरि तथा प्रीतिः आसीत् । या  सा प्रीतिः ब्रिट्टिष् जनानां न तथा आसीत् । ते तु "कुबुद्ध्या " संस्कृतभाषां तां संस्कृतिं च नाशितवन्तः। भारतीयानां हृदयस्पन्दनं संस्कृतं आसीत् - सः स्पष्टीकृतवान् ।

'संस्कृतं भारतस्वतन्त्रतान्दोलनं च' इत्यस्मिन् विषये विचारसत्रे भाषमाणः आसीत् नटेशवर्यः । 

      सः उक्तवान् यत् स्वामि विवेकानन्दः, महर्षि: अरविन्दः, दयानन्दसरस्वती , बालगंगाधरतिलकः, महात्मागान्धी, सुब्रह्मण्य भारती, सुभाष् चन्द्रबोसः, जवरलाल नेहरू, डो बि आर् अम्बद्करः इत्यादयः सर्वे स्वतन्त्रतान्दोलननेतारः संस्कृतविज्ञानात् प्रेरणां प्राप्तवन्तः आसन् इति। एतेषां कृते संस्कृतभाषा मानुषिबिम्बः इव आसीत्  (विराट्पुरुष: इव) । 


उपनिषद्-महाभारत-भगवद्गीतादिषु ग्रन्थेषु घनीभूतानि धार्मिक-नैतिक-देशीयोद्बोधनवाक्यानि सूक्तानि च तेषां चालकशक्तिरभूवन्। 'वन्दे मातरं, 'सत्यमेव जयते, 'उत्तिष्ठत जाग्रत' इत्येवमादिनि ध्येयवाक्यानि जनानां प्रचोदकानि अभवन् । संस्कृत भाषायाः प्राधान्यं पश्चात् , स्वातन्त्र्यप्राप्तेरनन्तरं सम्यक् अवगत्य काण् ग्रस् सर्वकारः न  स्वीकृतवन्तः इत्यपि प्रभाषकः अवदत् । यदि तथा प्रेत्या स्वीकरणं अकरिष्यत् तर्हि भारतस्य अवस्था एवं न अभविष्यत् इत्यपि सः सूचितवान् ।  भारतस्य अमृतकालं प्रति प्रयाणं कुर्वन्तः स्म वयम् । तत्र गमनं एतान् बिन्दुन् मनसि निधाय भवेत् । संस्कृतज्ञानं महदुत्तरदायित्वमस्ति इत्यपि नटेशः उद्बोधितवान् ।


  विचारसत्रे प्रमुखः चरित्रकारः डो एम् पि अजित् कुमारः अध्यक्षः आसीत्। डो वि के राजकृष्णः स्वागतं, लिजिषा सुधीशः कृतज्ञतां च अवदत्।Latest News

Saturday, August 9, 2025

 संस्कृतसप्ताहः

भारतीयन्यायसंहितायाः प्राग्रूपं ऋग्वेदे दृश्यते - न्यायवादी सजि नारायणः। 

कोच्ची> ऋग्वेदे भारतीयन्यायसंहितायाः प्राग्रूपाणि दृश्यन्ते इति यमयमि संवादः, अधिवक्तृरूपेण इन्द्रस्य उपदेशः इत्यादीन् उपस्थाप्य भारतीय मस्दूर् संघस्य भूतपूर्वः देशीयाध्यक्षः न्यायवादी सजि नारायणः प्रस्तुतवान्। विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहस्य तृतीयदिने 'भारतीय न्यायसंहिता संस्कृतं च' इति विषयमधिकृत्य विचारसत्रे भाषमाणः आसीत् सः। तेन प्रोक्तं यत् रामायणं महाभारतम् इत्यादीन् पौराणिकग्रन्थान् आधारीकृत्य एव अस्माकं नीतिबोधः प्रवर्तते तथापि वैदेशिकाधिपत्यं भारतीयन्यायसंहितायां द्रष्टुं शक्यते। 

  निष्पक्षः नीतिबोध एव भारतस्य सविशेषता इति "पण्डिताः समदर्शिनः" इति गीतावाक्यमुद्धृत्य सजि नारायणः अवदत्। पौराणिकाः नायकाः सर्वे सत्यनीतिधर्माणां प्रवक्तारः आसन्। 

  विचारसत्रे न्यायवादनी के एल् श्रीकला अध्यक्षा आसीत्।

 अद्य विश्वसंस्कृतदिनम्।

   प्रतिवर्षं श्रावणमासस्य पूर्णिमातिथौ विश्वसंस्कृतदिनं महोत्साहेन समायोक्ष्यते। संस्कृतभाषायाः सनातनं माहात्म्यं तस्याः सांस्कृतिकं च वैभवं सर्वान् बोधयितुमेव अयम् उत्सवः।

  इयं हि गीर्वाणवाणी विश्वस्य अतिप्राचीनासु भाषासु अन्यतमा इति मन्यते। अस्यामेव वाण्यां वेदाः उपनिषदः पुराणानि महाकाव्यानि चेति सकलाः वाङ्मयनिधयो विराजन्ते। वस्तुतः सर्वासामपि भारतीयभाषाणां जननीति कीर्त्यत एषा। न केवलं साहित्ये अपितु विज्ञाने गणिते व्याकरणे योगशास्त्रे तथान्येष्वपि बहुषु ज्ञानक्षेत्रेषु अस्याः योगदानं तुलनातीतं वर्तते।

 'ब्लू बेर्ड् - द्वितीयम् उपग्रहविक्षेपः अचिरेण। 

अनन्तपुरी> नासा - इस्रो संस्थयोः संयुक्ताभियोजना नैसार् इत्यस्मात् परं ब्लू बेर्ड् - द्वितीयम् इति अन्योपग्रहस्य विक्षेपः  भारतेन  अचिरेण भविष्यतीति ऐ एस् आर् ओ संस्थायाः अध्यक्षः डो वि नारायणः अवदत्। Indian Institute of Industrial Engineering इत्यस्य राष्ट्रियसम्मेलनम् अनन्तपुर्याम् उद्घाटनं  कुर्वन् भाषमाणः आसीत् सः।

  ब्लू बेर्ड् - द्वितीयम् इति वार्ताविनिमयोपग्रहस्य निर्माणम् अमेरिक्कीयसंस्थया कृतम्। अस्योपग्रहस्य विक्षेपणं श्रीहरिक्कोट्टातः विलम्बं विना भविष्यतीति नारायणवर्येण उक्तम्।

Friday, August 8, 2025

 संस्कृतसप्ताहः। 

भारतस्य विज्ञानपरम्परा सर्वोत्कृष्टतां भजते - डो गौरी माहुलीकरः।

डो गौरी माहुलीकरः विचारसत्रं चालयति। 

कोच्ची> विश्वस्मिन् विज्ञानपरम्परासु भारतीय विज्ञानपरम्परा सर्वोत्कृष्टतां भजते यतः समेषां  विद्यास्थानानां स्रोतांसि संस्कृतभाषा एवेति 'चिन्मया इन्टर्नाषणल् फौण्डेशन्' संस्थायाः अध्यक्षा डो गौरी माहुलीकरः प्रस्तुतवती। विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे आयोजितस्य संस्कृतसप्ताहस्य अङ्गतया ओण् लैन् द्वारा  प्रवृत्तस्य विचारसत्रस्य  द्वितीये दिने 'भारतस्य विज्ञानपरम्परा' इति विषये भाषमाणा आसीत् सा। 

  भारतीयविज्ञानसरण्याः [IKS - Indian Knowledge System] आधारशिलाः चतुर्दशविद्याः या अष्टादशविद्याः इति प्रथिताः वेदाङ्ग-दर्शन-पुराणेतिहास-धर्मशास्त्राणि भवन्ति। तेषां चतुस्स्तम्भावलम्बनमेव राष्ट्रिय शिक्षानीतौ [NEP] प्रयुक्तम्। ते तु भारतीयदृष्टिः [Indian perspective], अतिशयता, नवीनता [Innovation], बहुशास्त्रविनियमनं [Multidisciplinarity] च। यदि शिक्षा रमणीया स्यात् तत्र नावीन्यं, ज्ञानाधिक्यं, गुरुशिष्यभावयोरङ्गीकारः, प्रज्ञाविवेकः इत्यादीनां समुत्कर्षः जायते - गौरीवर्यया स्पष्टीकृतम्। 

  आभारतं दृश्यमानं पञ्च भकाराणां - भाषा, भूषा, भजनं, भोजनं, भ्रमणं - वैविध्यमपि  भारतविज्ञानपारम्पर्यस्य निदर्शनं भवतीति गौरी वर्या उक्तवती। विचारसत्रेSस्मिन् विश्वसंस्कृतप्रतिष्ठानस्य अनन्तपुरी जनपदीयाध्यक्षा सि एन् विजयकुमारी अध्यक्षा आसीत्। गायत्री बी स्वागतं, सिन्धू राजः कृतज्ञतां च प्रकाशितवत्यौ। 

 तृतीये दिने शुक्रवासरे रात्रौ ८. ४५ वादने 'भारतीयन्यायसंहिता संस्कृतं च' इत्यस्मिन् विषये भारतीयमस्दूर् संघस्य भूतपूर्वः देशीयाध्यक्षः नीतिज्ञः सजि नारायणः प्रभाषणं करोति।Latest News

 उत्तरकाशीप्रलयः 

मेघविस्फोटनं न हेतुः; हिमानीसन्निपात‌ः हिमतटाकध्वंसः वा? 

उत्तरकाश्यां दुरापन्नस्य प्रलयस्य दृश्यम्। 

डेराडूणः> उत्तराखण्डे उत्तरकाश्यां धराली जनपदे मङ्गलवासरे दुरापन्नस्य आकस्मिकप्रलयस्य हेतु हिमानी नेति पर्यावरणकुशलानां निगमनम्। बृहत्हिमान्याः निपातः हिमतटाकस्य भञ्जनं वा दुर्घटनायाः हेतुर्स्यादिति पर्यावरणम् उपग्रहदत्तांशान् चाधिकृत्य विशकलनं कुर्वद्भिः शास्त्रज्ञैः निगदितम्। 

  आकस्मिकप्रलयवेलायां लघुवृष्टिरेव दुरापन्नप्रदेशे आसीत्। मेघविस्फोटनकारणाय वृष्टिपातः तदानीं धरालीपरिसरे नाभवदिति केन्द्रपर्यावरणविभागस्य वरिष्ठशास्त्रज्ञः रोहित तप्लियालः अवदत्। अतः हिमान्याः हिमतटाकस्य वा ध्वंसः दुरन्तकारणमभवत् इति तेषां मतम्। 

  धरालेः उपरि द्वौ हिमतटाकौ वर्तेते इति उपग्रहचित्रेभ्यः स्पष्टमस्ति। एतयोरेकः खीरगड नद्याः उपरि एव तिष्ठति। तथा च उत्तराखण्डे १२६० हिमतटाकाः सन्ति,तेषु कतिपयसंख्याकाः दुरन्तभीषामुत्पादयन्तीति सूचितमासीत्।

Latest News

Thursday, August 7, 2025

 ट्रम्पशुल्कः नीतिरहितः भारतस्य निशितविमर्शः। 

राष्ट्रहितपाललमेव मुख्यलक्ष्यमिति भारतम्। 

नवदिल्ली> दण्डशुल्कं विधातुं डोनाल्ड ट्रम्पस्य निर्णयं तीक्ष्णभाषया विमर्श्य भारतम्। विपणिविषयान् राष्ट्रस्य १४० कोटि जनानां ऊर्जसुरक्षादृढीकरणं चालक्ष्य एव भारतेन रूसराष्ट्रात् तैलेन्धनस्य आनयनमिति  विदेशकार्यमन्त्रालयेन स्पष्टीकृतम्। इतरराष्ट्राण्यपि तेषां राष्ट्रहितं संरक्षितुं प्रक्रमाः स्वीकृताः सन्ति। तादृशे प्रकरणे यू एस् राष्ट्रस्य अधिकशुल्कः नीतिरहितः दौर्भाग्यकरः अहेतुकः  इति च मन्त्रालयवक्तृभिः उक्तम्।

 ट्रम्पशुल्कः ५०%। 

२५% दण्डशुल्कः; २१ दिनाभ्यन्तरे प्राबल्यं भविष्यति। 

वाषिङ्टणः> डोनाल्ड ट्रम्पस्य भीषा उद्घोषिता। रष्यराष्ट्रात् तैलेन्धनं क्रीत्वा युक्रैनयुद्धाय धनसाहाय्यं करोति इत्यारोपणमुन्नीय भारतस्य उपरि २५% अधिकशुल्कं विहिते आदेशपत्रे यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः  बुधवासरे हस्ताक्षरमकरोत्। अनेन भारतीयसामानानां यू एसे आयातकरः ५० प्रतिशतमभवत्। रूसीयतैलेन्धनस्य विषये परिहारनिर्णयायैव २१ दिनानां कालः विहितः। 

  यू एसे अधिकतमः शुल्कः विहितं राष्ट्रं ब्रसीलेन सह भारतमपि अभवत्। रष्यायाः उपरि आर्थिकोपरोधभीषा अपि ट्रम्पेन प्रख्यापिता।

 भारतस्य अखण्डतायै एकीकरणाय च संस्कृतम् अनिवार्यं - डो कमल किशोरमिश्रः। 

विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहः समारब्धः।  

संस्कृतसप्ताहस्य प्रथमदिने डो कमल किशोर मिश्रः मुख्यभाषणं करोति। 

कोच्ची> भारतचेतनायाः विकासं कुर्वन्ती संस्कृतभाषा अद्यापि राष्ट्रस्य अखण्डतायै एकीकरणाय च नितरामावश्यकी इति कोल्कोत्ता विश्वविद्यालये प्राचार्यः डो कमल किशोरमिश्रः प्रस्तुतवान्। संस्कृतदिनमहोत्सवस्य अंशतया  संस्कृतभारत्याः केरलप्रान्तीयस्य - नाम्ना विश्वसंस्कृतप्रतिष्ठानम् - संस्कृतसप्ताहस्य प्रथमदिवसीयकार्यक्रमे मुख्यभाषणं कुर्वन्नासीत् डो कमल किशोर मिश्रवर्यः। 

  'संस्कृतसप्ताहः किं किमर्थम्' इत्यस्मिन् विषये भाषितवान् किशोरमिश्रवर्यः इदानीन्तनकाले संस्कृतसप्ताहायोजनस्य प्रसक्तिं प्राधान्यं च एवं संगृहीतवान् - 

+ संस्कृतभाषायाः संरक्षणं संवर्धनं च।

+ युवभ्यः छात्रेभ्यश्च पठनार्थं प्रेरणाप्रदानम्।

+संस्कृतस्य सांस्कृतिक-सार्वजनीन-साम्प्रदायिकादियोगदानमधिकृत्य जनमनसि प्रवेशनम्। 

  संस्कृतभाषायाः आधुनिकं मुखमधिकृत्य च मिश्रवर्यः स्पष्टीकृतवान्। ज्ञानविज्ञाने, प्रौद्योगिकीक्षेत्रे, तन्त्रविद्यामण्डले, आगोलभाषाणां  व्याकरणशास्त्रे च संस्कृतभाषायाः प्रभावः सर्वसम्मतमिति तेन विशदिकृतम्। 

  संस्कृतभारत्याः दक्षिणक्षेत्रीयाध्यक्षः डो पि के माधवः ओण्लैन् द्वारा समायोजिते कार्यक्रमेSस्मिन् अध्यक्षपदमलङ्कृतवान्। संस्कृसप्ताहस्य मुख्यसंयोजकः डो पि के शङ्करनारायणः, डो एम् वि नटेशः, राजेशकुमारः इत्यादयः कार्यक्रमे भाषितवन्तः। द्वितीयदिने अद्य 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये CIF संस्थायाः अध्यक्षा डो गौरी माहुलीकरः प्रभाषणं करोति।