OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 10, 2025

 जम्मु-काश्मीरे द्वौ सैनिकौ वीरस्वर्गं प्रापतुः।

श्रीनगरं> जम्मु-काश्मीरे कुलगामजनपदस्थे काननक्षेत्रे अखाल् इत्यत्र प्रवृत्ते प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्रापतुः। लान्स् नायिक् पदीयः प्रीत पालसिंहः, सैनिकः हमीन्द्र सिंहश्च एतौ। 

  आगस्टमासस्य प्रथमदिने आरब्धस्य 'ओपरेषन् अखाल्' इति कृतनामधेयस्य सैनिकप्रक्रमस्य अनन्तरं द्वौ भीकरौ सेनया मारितौ। ११ सुरक्षाभटाः आहताश्च। ड्रोण् यन्त्राणि उदग्रयानानि च उपयुज्य वनक्षेत्रे सेनया भीकरेभ्यः अन्वेषणम् अनुवर्तते।

Kashmirtwodead