OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 8, 2025

 उत्तरकाशीप्रलयः 

मेघविस्फोटनं न हेतुः; हिमानीसन्निपात‌ः हिमतटाकध्वंसः वा? 

उत्तरकाश्यां दुरापन्नस्य प्रलयस्य दृश्यम्। 

डेराडूणः> उत्तराखण्डे उत्तरकाश्यां धराली जनपदे मङ्गलवासरे दुरापन्नस्य आकस्मिकप्रलयस्य हेतु हिमानी नेति पर्यावरणकुशलानां निगमनम्। बृहत्हिमान्याः निपातः हिमतटाकस्य भञ्जनं वा दुर्घटनायाः हेतुर्स्यादिति पर्यावरणम् उपग्रहदत्तांशान् चाधिकृत्य विशकलनं कुर्वद्भिः शास्त्रज्ञैः निगदितम्। 

  आकस्मिकप्रलयवेलायां लघुवृष्टिरेव दुरापन्नप्रदेशे आसीत्। मेघविस्फोटनकारणाय वृष्टिपातः तदानीं धरालीपरिसरे नाभवदिति केन्द्रपर्यावरणविभागस्य वरिष्ठशास्त्रज्ञः रोहित तप्लियालः अवदत्। अतः हिमान्याः हिमतटाकस्य वा ध्वंसः दुरन्तकारणमभवत् इति तेषां मतम्। 

  धरालेः उपरि द्वौ हिमतटाकौ वर्तेते इति उपग्रहचित्रेभ्यः स्पष्टमस्ति। एतयोरेकः खीरगड नद्याः उपरि एव तिष्ठति। तथा च उत्तराखण्डे १२६० हिमतटाकाः सन्ति,तेषु कतिपयसंख्याकाः दुरन्तभीषामुत्पादयन्तीति सूचितमासीत्।

Latest News