OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 7, 2025

 ट्रम्पशुल्कः ५०%। 

२५% दण्डशुल्कः; २१ दिनाभ्यन्तरे प्राबल्यं भविष्यति। 

वाषिङ्टणः> डोनाल्ड ट्रम्पस्य भीषा उद्घोषिता। रष्यराष्ट्रात् तैलेन्धनं क्रीत्वा युक्रैनयुद्धाय धनसाहाय्यं करोति इत्यारोपणमुन्नीय भारतस्य उपरि २५% अधिकशुल्कं विहिते आदेशपत्रे यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः  बुधवासरे हस्ताक्षरमकरोत्। अनेन भारतीयसामानानां यू एसे आयातकरः ५० प्रतिशतमभवत्। रूसीयतैलेन्धनस्य विषये परिहारनिर्णयायैव २१ दिनानां कालः विहितः। 

  यू एसे अधिकतमः शुल्कः विहितं राष्ट्रं ब्रसीलेन सह भारतमपि अभवत्। रष्यायाः उपरि आर्थिकोपरोधभीषा अपि ट्रम्पेन प्रख्यापिता।