OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 9, 2025

 संस्कृतसप्ताहः

भारतीयन्यायसंहितायाः प्राग्रूपं ऋग्वेदे दृश्यते - न्यायवादी सजि नारायणः। 

कोच्ची> ऋग्वेदे भारतीयन्यायसंहितायाः प्राग्रूपाणि दृश्यन्ते इति यमयमि संवादः, अधिवक्तृरूपेण इन्द्रस्य उपदेशः इत्यादीन् उपस्थाप्य भारतीय मस्दूर् संघस्य भूतपूर्वः देशीयाध्यक्षः न्यायवादी सजि नारायणः प्रस्तुतवान्। विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहस्य तृतीयदिने 'भारतीय न्यायसंहिता संस्कृतं च' इति विषयमधिकृत्य विचारसत्रे भाषमाणः आसीत् सः। तेन प्रोक्तं यत् रामायणं महाभारतम् इत्यादीन् पौराणिकग्रन्थान् आधारीकृत्य एव अस्माकं नीतिबोधः प्रवर्तते तथापि वैदेशिकाधिपत्यं भारतीयन्यायसंहितायां द्रष्टुं शक्यते। 

  निष्पक्षः नीतिबोध एव भारतस्य सविशेषता इति "पण्डिताः समदर्शिनः" इति गीतावाक्यमुद्धृत्य सजि नारायणः अवदत्। पौराणिकाः नायकाः सर्वे सत्यनीतिधर्माणां प्रवक्तारः आसन्। 

  विचारसत्रे न्यायवादनी के एल् श्रीकला अध्यक्षा आसीत्।