OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, August 10, 2025

 भारतस्वतन्त्रतान्दोलनस्य चालकशक्तिः संस्कृतभाषा आसीत् - डो एम् वि . नटेशः। 

डो  एम् वि नटेशः विचारसत्रे  भाषणं करोति। 

  कोच्ची> भारतीयस्वतन्त्रतान्दोलनस्य चालकशक्तिः भगवद्गीतादयः संस्कृतग्रन्थाः तथा तेभ्यः समाहृताः, पृसृताः मूल्यानि च आसन्निति  संस्कृतविद्वान् डा एम् वि नटेशः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसंस्कृतसप्ताहे चतुर्थदिनस्य भाषणं कुर्वन्नासीत् सः।


संस्कृतभाषाया: चैतन्यशक्तिः तथा अस्ति । भारतीयेषु  ग्राम ग्रामेषु जनेषु संस्कृतस्य उपारि तथा प्रीतिः आसीत् । या  सा प्रीतिः ब्रिट्टिष् जनानां न तथा असीत् । ते तु "कुबुद्ध्या " संस्कृतभाषां तां संस्कृतिं च नाशितवन्तः। भारतीयानां हृदयस्पन्दनं संस्कृतं आसीत् - सः स्पष्टीकृतवान् ।

'संस्कृतं भारतस्वतन्त्रतान्दोलनं च' इत्यस्मिन् विषये विचारसत्रे भाषमाणः असीत् नटेशवर्यः । 

      सः उक्तवान् यत् स्वामि विवेकानन्दः, महर्षि: अरविन्दः, दयानन्दसरस्वती , बालगंगाधरतिलकः, महात्मागान्धी, सुब्रह्मण्य भारती, सुभाष् चन्द्रबोसः, जवरलाल नेहरू, डो बि आर् अम्बद्करः इत्यादयः सर्वे स्वतन्त्रतान्दोलननेतारः संस्कृतविज्ञानात् प्रेरणां प्राप्तवन्तः आसन् इति। एतेषां कृते संस्कृतभाषा मानुषिबिम्बः इव आसीत्  (विराट्पुरुष: इव) । 


उपनिषद्-महाभारत-भगवद्गीतादिषु ग्रन्थेषु घनीभूतानि धार्मिक-नैतिक-देशीयोद्बोधनवाक्यानि सूक्तानि च तेषां चालकशक्तिरभूवन्। 'वन्दे मातरं, 'सत्यमेव जयते, 'उत्तिष्ठत जाग्रत' इत्येवमादिनि ध्येयवाक्यानि जनानां प्रचोदकानि अभवन् । संस्कृत भाषायाः प्राधान्यं पश्चात् , स्वातन्त्र्य प्राप्तिरनन्तरं सम्यक् अवगत्य काण् ग्रस् सर्वकारः न  स्वीकृतवन्तः इत्यपि प्रभाषकः अवदत् । यदि तथा प्रेत्या स्वीकरणं अकरिष्यत् तर्हि भारतस्य अवस्था एवं न अभविष्यत् इत्यपि सः सूचितवान् ।  भारतस्य अमृतकालं प्रति प्रयाणं कुर्वन्तः स्म वयम् । तत्र गमनं एतान् बिन्दुन् मनसि निधाय भवेत् । संस्कृतज्ञानं महदुत्तरदायित्वमस्ति इत्यपि नटेशः उत्बोधितवान् ।


  विचारसत्रे प्रमुखः चरित्रकारः डो एम् पि अजित् कुमारः अध्यक्षः आसीत्। डो वि के राजकृष्णः स्वागतं, लिजिषा सुधीशः कृतज्ञतां च अवदत्।Latest News