OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 7, 2025

 भारतस्य अखण्डतायै एकीकरणाय च संस्कृतम् अनिवार्यं - डो कमल किशोरमिश्रः। 

विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहः समारब्धः।  

संस्कृतसप्ताहस्य प्रथमदिने डो कमल किशोर मिश्रः मुख्यभाषणं करोति। 

कोच्ची> भारतचेतनायाः विकासं कुर्वन्ती संस्कृतभाषा अद्यापि राष्ट्रस्य अखण्डतायै एकीकरणाय च नितरामावश्यकी इति कोल्कोत्ता विश्वविद्यालये प्राचार्यः डो कमल किशोरमिश्रः प्रस्तुतवान्। संस्कृतदिनमहोत्सवस्य अंशतया  संस्कृतभारत्याः केरलप्रान्तीयस्य - नाम्ना विश्वसंस्कृतप्रतिष्ठानम् - संस्कृतसप्ताहस्य प्रथमदिवसीयकार्यक्रमे मुख्यभाषणं कुर्वन्नासीत् डो कमल किशोर मिश्रवर्यः। 

  'संस्कृतसप्ताहः किं किमर्थम्' इत्यस्मिन् विषये भाषितवान् किशोरमिश्रवर्यः इदानीन्तनकाले संस्कृतसप्ताहायोजनस्य प्रसक्तिं प्राधान्यं च एवं संगृहीतवान् - 

+ संस्कृतभाषायाः संरक्षणं संवर्धनं च।

+ युवभ्यः छात्रेभ्यश्च पठनार्थं प्रेरणाप्रदानम्।

+संस्कृतस्य सांस्कृतिक-सार्वजनीन-साम्प्रदायिकादियोगदानमधिकृत्य जनमनसि प्रवेशनम्। 

  संस्कृतभाषायाः आधुनिकं मुखमधिकृत्य च मिश्रवर्यः स्पष्टीकृतवान्। ज्ञानविज्ञाने, प्रौद्योगिकीक्षेत्रे, तन्त्रविद्यामण्डले, आगोलभाषाणां  व्याकरणशास्त्रे च संस्कृतभाषायाः प्रभावः सर्वसम्मतमिति तेन विशदिकृतम्। 

  संस्कृतभारत्याः दक्षिणक्षेत्रीयाध्यक्षः डो पि के माधवः ओण्लैन् द्वारा समायोजिते कार्यक्रमेSस्मिन् अध्यक्षपदमलङ्कृतवान्। संस्कृसप्ताहस्य मुख्यसंयोजकः डो पि के शङ्करनारायणः, डो एम् वि नटेशः, राजेशकुमारः इत्यादयः कार्यक्रमे भाषितवन्तः। द्वितीयदिने अद्य 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये CIF संस्थायाः अध्यक्षा डो गौरी माहुलीकरः प्रभाषणं करोति।