OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, August 13, 2025

 केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।

शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति। 

कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं  छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः। 

  तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां  मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।

 नागार्जुन-उमेश-संस्कृत-महाविद्यालये संस्कृतसप्ताहस्याभवत् भव्यसमापनम्

संस्कृतसप्ताहः–परम्परा नवाचारयोरद्वितीय-सङ्गमः– डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य षड्दिनाङ्कादारभ्य आयोजितस्य संस्कृतसप्ताहस्य समापनं भौमवासरे 12.08.2025 दिनाङ्के सम्पन्नम्।

संस्कृतसप्ताहस्य अन्तिमदिवसे “डिजिटल् युगे संस्कृतभाषा– परम्परासंवाहिका उत भविष्यभाषा ? इति विषयिण्याः वाद-विवादप्रतियोगितायाः, “भारतीयज्योतिषशास्त्रम् – परम्परा, विज्ञानम्, आधुनिकजीवने च तस्य प्रासङ्गिकता” इति विषयकव्याख्यानस्य, समापनसत्रस्य च आयोजनम् अभवत्।

वादविवादप्रतियोगितायां बालकृष्णः, अञ्जलिः, अञ्जूः, कबीरः, श्रुतिः, सुरेशः, राजभूषणः, मुरारी, अभिलाषा, मन्नूः, महेशः, राकेशः, कृष्णः, अमनः चेत्यादयः प्रतिभागिनः स्वोत्कृष्टस्मरणशक्त्या, भावपूर्णप्रस्तुतिना, संस्कृतप्रेम्णा च प्रेक्षकान् प्राभावयन्।

मुख्यवक्त्री डॉ.सरस्वतीकुमारी प्रावोचद्यद् ग्रह-नक्षत्राणां गतीनामध्ययनाधारितं भारतीयज्योतिषशास्त्रं वैदिककालात् प्रवर्त्तमानमेकं प्राचीनविज्ञानपरम्परारूपमस्ति। अस्य विकासः गणित-खगोल-पर्यवेक्षणादीनां सुदृढसिद्धान्तैः अभवत्। पञ्चाङ्गनिर्माणम्, कालचक्रम्, कुण्डल्यनिर्माणम् चेत्यादयो विधयः समाजे मार्गदर्शनस्य साधनानि अभवन्। आधुनिकयुगेऽपि शास्त्रमिदं आत्मबोधे मानसिकशान्तौ सम्यङ्निर्णयग्रहणे च साहाय्यकरम् अस्ति। अङ्कप्रणालीयप्रौद्योगिकीमाध्यमेन अद्यत्वेऽस्य शास्त्रस्य विस्तारोऽधिको जातो वर्तते।

सन्दर्भेऽस्मिन् सहायकप्राचार्येण वीरसनातनपूर्णेन्दुरायेणोक्तं यत् संस्कृतसप्ताहो न केवलं शैक्षणिककार्यक्रमः, किन्तु अस्माकं सांस्कृतिकमूलैः सह सम्बद्धतां प्राप्तुं सेतुभूतोऽस्ति। अवसरेऽस्मिन् आयोज्यमानाः विविधाः कार्यक्रमाः छात्राणां भाषाकौशलं, तर्कक्षमतां, सृजनशीलतां, सांस्कृतिकजागरूकतां च वर्धयन्ति।

मुख्यातिथिः पं.महानन्दझाः संस्कृतं भारतस्य सांस्कृतिकचेतनायाः, दार्शनिकगहनतायाः, नैतिकमूल्यानां च अमूल्यं निधिरूपम् अभिधाय एतद् भाविसन्ततीनां बौद्धिक-नैतिक-विकासानां कृते आवश्यकमस्तीति प्रतिपादितवान्।

कार्यक्रमसमन्वयकः डॉ.छबिलालन्यौपानेः संस्कृतसप्ताहं परम्परायाः आधुनिकतायाश्च संगमरूपेण वर्णयन् वादविवादैः, निबन्धैः, श्लोकपाठैः, व्याख्यानैः च छात्राणां प्रतिभा, सृजनशीलता, तर्कक्षमता, सांस्कृतिकबोधश्च वर्धिता इति उक्तवान्।

अध्यक्षीयोद्बोधने प्रभारिप्रधानाचार्यः डॉ.रामसंयोगरायः प्रोक्तवान् यत् संस्कृतम् अस्माकं सांस्कृतिकम् आत्मभूतम्, ज्योतिषशास्त्रं च अस्य बौद्धिकरत्नं भवति। प्रतियोगिताः व्याख्यानानि च परम्परायाः आधुनिकदृष्टेः च संगमं प्रकाशयामास।

कार्यक्रमे डॉ.आलोककुमारः, डॉ.नियतिकुमारी, डॉ.विभूतिनाथझाः, डॉ.सरिताकुमारी, मुकुन्दकुमारः अन्ये च संस्कृतप्रेमिणः उपस्थिताः आसन्।

कार्यक्रमस्य समापनं संस्कृतजयघोषेन राष्ट्रगीतेन च अभवत्, येन परिसरे संस्कृतगौरवस्य, राष्ट्रियचेतनायाः च उत्साहपूर्णं वातावरणं व्याप्तम्।

 नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय प्रारम्भः। 

अन्वेषणाय अङ्गत्रयोपेतसमितिः रूपीकृता।

नवदिल्ली> औद्योगिकभवनस्य सम्भरणप्रकोष्ठात् बहुप्रमाणेन धनपत्राणि अधिगतानि इत्यस्मिन् प्रकरणे अलहबादे उच्चन्यायालयस्य नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय लोकसभायाम् अभिशंसनप्रक्रियायै प्रक्रमः आरब्धः। सभापतिः ओं बिर्लावर्यः एतदधिकृत्य सभां निगदितवान्। 

  सर्वकारस्य नेतृत्वे प्रथमतया एव कञ्चन न्यायाधिपं विरुध्य अभिशंसननिवेदनं प्रस्तुतम्। पक्षभेदं विना १४६ सदस्यैः हस्ताक्षरीकृतनिवेदनस्य आधारे एव अभिशंसनक्रियान्वयः आरब्धः। विपक्षनेता राहुल गान्धी, भाजपा नेता रविशङ्करप्रसाद‌ः इत्यादयः निवेदने हस्ताक्षरं कृतवन्तः। 

  आरोपणमन्वेष्टुं त्रीणां न्यायाधिपानां समितिः रूपीकृता। सर्वोच्चन्यायालयस्य न्यायाधिपः अरविन्दकुमारः, मद्रास् उच्चन्यायालयस्य मुख्यन्यायाधिपः मनिन्दर् मोहन श्रीवास्तवः, कर्णाटके उच्चन्यायालयस्य वरिष्ठः न्यायवादी बी वी आचार्यः इत्येते भवन्ति समितिसदस्याः। अस्याः समित्याः आवेदनस्याधारे अनन्तरक्रियाविधयः भविष्यन्तीति लोकसभापतिः अवदत्।

 महिला विश्वचषक एकदिनक्रिकट् - 

अनन्तपुरी वेदिका भविष्यति। 

ग्रीन् फील्ड् अन्ताराष्ट्रियक्रीडाङ्कणम्, अनन्तपुरी। 

अनन्तपुरी> भारतेन आतिथ्यम् ऊढ्यमानायै महिलानां विश्वचषक एकदिनक्रिकट् परम्परायै केरलस्य अनन्तपुरी 'ग्रीन् फील्ड्' क्रीडाङ्कणं वेदिका भविष्यति। भारतस्य द्वे स्पर्धे, पूर्वान्त्यस्पर्धाः अभिव्याप्य ६ स्पर्धाः अत्र सम्पत्स्यन्ते। 

  सेप्टम्बर् ३०तमदिनाङ्कतः नवम्बर् द्वितीयदिनाङ्कपर्यन्तमस्ति विश्वचषकस्पर्धापरम्परा। पूर्वं बङ्गलुरु चिन्नस्वामिक्रीडाङ्कणे निश्चिताः प्रतियोगिताः एव केरलं परिवर्तिताः। भारतम्, इङ्गलाण्ट्, न्यूसिलान्ट्, दक्षिणाफ्रिका, पाकिस्थानं, श्रीलङ्का, बङ्गलादेशः, आस्ट्रेलिया इत्येतानि राष्ट्राणि विश्वचषके भागं करिष्यन्ति।

Tuesday, August 12, 2025

 अमेरिकायाः उत्पादान् बहिष्कर्तुं सामाजिमाध्यमेषु घोषणा उन्नीयन्ते। 

मुम्बई> भारतीयसामानानाम् उपरि ५०% शुल्कं विहितस्य यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य निर्णयस्य प्रतिषेधसूचकत्वेन अमेरिकायाम् उत्पादितानि वस्तूनि बहिष्कर्तुं सामाजिकमाध्यमैः घोषणा प्रबला वर्तते। स्वदेशीयोत्पन्नेभ्यः प्राधान्यं दातव्यमिति प्रधानमन्त्रिणः नरेन्द्रमोदिनः उद्योगप्रमुखानां च उद्बोधनस्य आधारे अस्ति सामाजिकमाध्यमेषु अमेरिकाविरोधः। 

  डोमिनोस्, मक्डोणाल्स्, पेप्सी, कोकोकोला, ऐफोण् इत्यादीनि अमेरिकीयोत्पीदान् विरुध्य अस्ति मुख्यतया प्रतिषेधः।

 इस्रयेलाक्रमणे ६ वार्ताहराः हताः। 

गासा सिटी> गासा सिटी प्रदेशे इस्रयेलस्य आक्रमणे तीव्रे जाते प्रमुखः युद्धकार्यवार्ताहरः अनस् अल् षरीफ् नामकमभिव्याप्य ६ वार्ताहराः हताः। एते सर्वे खत्तरस्य वार्ताप्रसारणी 'अल् जसीरा' इत्यस्याः प्रवर्तकाः इति सूच्यते।

 जम्मु-काश्मीरे भीकराणां गुप्तनिलयः भञ्जितः। 

श्रीनगरं> जम्मु-काश्मीरे किष्त्वारवनमण्डले भीकरैः गुप्तवासाय उपयुक्ता गुहा सैन्येन 'रोकट् लोञ्चर्' उपयुज्य भञ्जिता। द्वौ हिस्बुल् मुजाहिदीन् भीकरौ एतां गुहां सोमवासरस्य प्रभातपर्यन्तम् उपयुक्तवन्तौ इति सूच्यते। 

  अतीतैः कतिपयदिवसैः किष्त्वार - कुलगामप्रदेशेषु सुरक्षासेना तीव्रमन्वेषणं कुर्वन्ती अस्ति। पाकिस्थानात् परिशीलनं लब्धवन्तः भीकराः पर्वतप्रान्तेषु निलीयमानाः वर्तन्ते इति सूचना लब्धा आसीत्। भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ आस्ताम्।

Monday, August 11, 2025

 संस्कृताध्ययनस्य महत्त्वम् उच्चैः घोषयितुं समयः आगतः - अधिवक्ता ए जयशंकर:।

आलुवा> संस्कृताध्ययनस्य महत्त्वं प्राधान्यं च उच्चैः घोषयितुं समयः आगतः इति समाजनिरीक्षकः अधिवक्ता च न्यायवादी ए जयशंकर वर्यः उक्तवान् ।


विश्वसंस्कृतप्रतिष्ठानस्य संघाटने अलुवा-नगरस्थे अद्वैताश्रमे आयोजितस्य राज्यसंस्कृत-दिवसोत्सवस्य  उद्घाटनसमारोहे  मुख्यभाषणं कुर्वन्नासीत्  सः।


संस्कृते केरलस्य योगदानं बहुमूल्यम् अस्ति।  भास नाटकानां  आविष्कारं प्रकाशनं  तथा 

मलयालादिमातृभाषायां संस्कृतस्य प्रभावं च स: सूचितवान् । 

"अहम् अत्यन्तं प्रसन्नः अस्मि यत् अत्र समागताः एतावन्तः मातरः बालकाः च संस्कृतं पठन्ति इति अवगत्य । विशेषतया तेभ्यः विशिष्य बालेभ्यः  अभिनन्दनं करोमि।"


सः एवमपि अवदत् यत् एकदिनं वा सप्ताहं वा संस्कृतदिवसम् आयोजनेन नालं,  परन्तु ३६५ दिवसान् यावत् आचरन्तु इति।


प्रान्तीय अध्यक्ष: डा. पी.के.   शङ्करनारायणः कार्यक्रमस्य अध्यक्षः अभवत् । ए वी नारायणशर्मा संस्कृतदिवसस्य सन्देशं प्रदत्तवान्, बालगोकुलं भगिनीप्रमुखा मायादेवी ए. वि

आशंसाम् अकरोत् ।

जिल्लाध्यक्ष अजित कुमार:  स्वागतम्  एवं जिल्ला कार्यदर्शी कीर्ती प्रभु  धन्यवादं च अवदत् ।


छात्राणां कृते प्रमाणपत्राणि अपि वितीर्णानि।

 ओपरेषन् सिन्दूरम्। 

षट् पाकिस्थानविमानानि आग्नेयास्त्रैः निपातितानि।

व्योमसेनाधिकारिणः विज्ञापनम्।

अमर प्रीतसिंहः। 

बङ्गलुरु> ओपरेषन् सिन्दूरम् इति सैनिकप्रक्रमे पाकिस्थानस्य षट् युद्धविमानानि आग्नेयास्त्रैः निपातितानीति वायुसेनायाः अधिकारी एयर् चीफ् मार्षल्  अमर् प्रीत सिंहः अवदत्। ओपरेषन् सिन्दूरे पाकिस्थानस्य आघातमधिकृत्य प्रथमतया एव ईदृशं स्थिरीकरणम्।

  बङ्गलुरुमध्ये 'एयर् चीफ् मार्षल्' एल् एम् कात्रे इत्यस्मै कृते अनुस्मरणप्रभाषणे आसीत् अमर प्रीत सिंहस्य इदं वचनप्रकाशनम्। ५ "संख्याकानि पाकिस्थानस्य युद्धविमानानि आसन्। एकं तु महत् व्योमयानं [Air craft] व्योमाक्रमणसूचनाविमानं वा स्यात्। ३०० कि मी दूरतः आसीत् एतेषां भञ्जनम्"-  तेन प्रोक्तम्। प्रमाणरूपेण उपग्रहदृश्यान्यपि तेन प्रदर्शितानि।

 रूस् - युक्रेनयुद्धसमाप्तिः

पुतिनेन सह शुक्रवासरे चर्चा इति ट्रम्पः। 

वाषिङ्टणः> सार्धत्रिवत्सरैः अनुवर्तमानं रष्या-युक्रेनयोः युद्धं समापयितुं रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः इत्यनेन सह आगस्ट् १५ तमे दिनाङ्के चर्चां विधास्यतीति डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् मध्ये अलास्का इत्यत्र चर्चा भविष्यतीति 'ट्रूत् सोष्यल्' सामाजिकमाध्यमेन सूचितम्। 

  उभाभ्यामपि राष्ट्राभ्यां निगृहीतान् प्रदेशान् परस्परं प्रतिसमर्पणं कुर्वन् कश्चन परिहारः एव भवेदिति ट्रम्पेन सूचितम्। किन्तु तत् दुष्करमिति च प्रस्तुतम्। युद्धं न समाप्यते तर्हि रष्यायाः उपरि उपरोधं विधास्यतीति ट्रम्पस्य भीषा वर्तते।