महिला विश्वचषक एकदिनक्रिकट् -
अनन्तपुरी वेदिका भविष्यति। ग्रीन् फील्ड् अन्ताराष्ट्रियक्रीडाङ्कणम्, अनन्तपुरी।
अनन्तपुरी> भारतेन आतिथ्यम् ऊढ्यमानायै महिलानां विश्वचषक एकदिनक्रिकट् परम्परायै केरलस्य अनन्तपुरी 'ग्रीन् फील्ड्' क्रीडाङ्कणं वेदिका भविष्यति। भारतस्य द्वे स्पर्धे, पूर्वान्त्यस्पर्धाः अभिव्याप्य ६ स्पर्धाः अत्र सम्पत्स्यन्ते।
सेप्टम्बर् ३०तमदिनाङ्कतः नवम्बर् द्वितीयदिनाङ्कपर्यन्तमस्ति विश्वचषकस्पर्धापरम्परा। पूर्वं बङ्गलुरु चिन्नस्वामिक्रीडाङ्कणे निश्चिताः प्रतियोगिताः एव केरलं परिवर्तिताः। भारतम्, इङ्गलाण्ट्, न्यूसिलान्ट्, दक्षिणाफ्रिका, पाकिस्थानं, श्रीलङ्का, बङ्गलादेशः, आस्ट्रेलिया इत्येतानि राष्ट्राणि विश्वचषके भागं करिष्यन्ति।