OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 11, 2025

 ओपरेषन् सिन्दूरम्। 

षट् पाकिस्थानविमानानि आग्नेयास्त्रैः निपातितानि।

व्योमसेनाधिकारिणः विज्ञापनम्।

अमर प्रीतसिंहः। 

बङ्गलुरु> ओपरेषन् सिन्दूरम् इति सैनिकप्रक्रमे पाकिस्थानस्य षट् युद्धविमानानि आग्नेयास्त्रैः निपातितानीति वायुसेनायाः अधिकारी एयर् चीफ् मार्षल्  अमर् प्रीत सिंहः अवदत्। ओपरेषन् सिन्दूरे पाकिस्थानस्य आघातमधिकृत्य प्रथमतया एव ईदृशं स्थिरीकरणम्।

  बङ्गलुरुमध्ये 'एयर् चीफ् मार्षल्' एल् एम् कात्रे इत्यस्मै कृते अनुस्मरणप्रभाषणे आसीत् अमर प्रीत सिंहस्य इदं वचनप्रकाशनम्। ५ "संख्याकानि पाकिस्थानस्य युद्धविमानानि आसन्। एकं तु महत् व्योमयानं [Air craft] व्योमाक्रमणसूचनाविमानं वा स्यात्। ३०० कि मी दूरतः आसीत् एतेषां भञ्जनम्"-  तेन प्रोक्तम्। प्रमाणरूपेण उपग्रहदृश्यान्यपि तेन प्रदर्शितानि।