रूस् - युक्रेनयुद्धसमाप्तिः
पुतिनेन सह शुक्रवासरे चर्चा इति ट्रम्पः।
वाषिङ्टणः> सार्धत्रिवत्सरैः अनुवर्तमानं रष्या-युक्रेनयोः युद्धं समापयितुं रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः इत्यनेन सह आगस्ट् १५ तमे दिनाङ्के चर्चा विधास्यतीति डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् मध्ये अलास्का इत्यत्र चर्चा भविष्यतीति 'ट्रूत् सोष्यल्' सामाजिकमाध्यमेन सूचितम्।
उभाभ्यामपि राष्ट्राभ्यां निगृहीतान् प्रदेशान् परस्परं प्रतिसमर्पणं कुर्वन् कश्चन परिहारः एव भवेदिति ट्रम्पेन सूचितम्। किन्तु तत् दुष्करमिति च प्रस्तुतम्। युद्धं न समाप्यते तर्हि रष्यायाः उपरि उपरोधं विधास्यतीति ट्रम्पस्य भीषा वर्तते।