OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, August 11, 2025

 संस्कृताध्ययनस्य महत्त्वम् उच्चैः घोषयितुं समयः आगतः - अधिवक्ता ए जयशंकर:।

आलुवा> संस्कृताध्ययनस्य महत्त्वं प्राधान्यं च उच्चैः घोषयितुं समयः आगतः इति सामूह्य निरीक्षकः अधिवक्ता च न्यायवादी ए जयशंकर वर्यः उक्तवान् ।


विश्वसंस्कृतप्रतिष्ठानस्य संघाटने अलुवा-नगरस्थे अद्वैताश्रमे आयोजितस्य राज्यसंस्कृत-दिवस-उत्सवस्य उद्घाटन-समारोहे  मुख्यभाषणं कुर्वन्नासीत्  सः।


संस्कृते केरलस्य योगदानं बहुमूल्यम् अस्ति।  भास नाटकानां  आविष्कारं प्रकाशनं  तथा 

मलयालादिमातृभाषायां संस्कृतस्य प्रभावं च स: सूचितवान् । 

"अहम् अत्यन्तं प्रसन्नः अस्मि यत् अत्र समागताः एतावन्तः मातरः बालकाः च संस्कृतं पठन्ति इति अवगत्य । विशेषतया तेभ्यः विशिष्य बालेभ्यः  अभिनन्दनं करोमि।"


सः एवमपि अवदत् यत् एकदिनं वा सप्ताहं वा संस्कृतदिवसम् आयोजयितं न स्यात्  परन्तु ३६५ दिवसान् यावत् आचरन्तु इति।


प्रान्तीय अध्यक्ष: डा. पी.के.   शङ्करनारायणः कार्यक्रमस्य अध्यक्षः अभवत् । ए वी नारायणशर्मा संस्कृतदिवसस्य सन्देशं प्रदत्तवान्, बालगोकुलं भगिनीप्रमुखा मायादेवी ए. वि

आशंसाम् अकरोत् ।

जिल्लाध्यक्ष अजित कुमार:  स्वागतम्  एवं जिल्ला कार्यदर्शी कीर्ती प्रभु  धन्यवादं च अवदत् ।


छात्राणां कृते प्रमाणपत्राणि अपि वितरितानि।